TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नारदपरिव्राजकोपनिषत् - तृतीयोपदेशः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


तृतीयोपदेशः
अथ हैनं नारदः पितामहं पप्रच्छ भगवन्केन संन्यासाधिकारी वेत्येवमादौ संन्यासाधिकारिणं निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः शृणु । अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः पाषण्डश्चक्री लिङ्गी वैखानसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनग्निको वैराग्यवन्तोऽप्येते न संन्यासार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेन अधिकारिणः पूर्वसंन्यासी परमहंसाधिकारी ॥-- परेणैवात्मनश्चापि परस्यैवात्मना तथा । अभयं समवाप्नोति स परिव्राडिति स्मृतिः ॥१॥ षण्डोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी । पतितश्च परद्वारी वैखानसहरद्विजौ ॥२॥ चक्री लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनग्निकः । द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च । एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥३॥ आतुरकालः कथमार्यसंमतः ॥-- प्राणस्योत्क्रमणासन्नकालस्त्वातुरसंज्ञकः । नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तकः ॥४॥ आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् । मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद्बुधः ॥५॥ आतुरेऽपि क्रमे वापि प्रैषभेदो न कुत्रचित् । न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥६॥ अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत् । मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत् ॥७॥ विध्युक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः । तस्मादातुरसंन्यासे मन्त्रावृत्तिविधिर्मुने ॥८॥ आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि । प्राजापत्येष्टिमप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥९॥ मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले । श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा ॥१०॥ समाप्य संन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात् ॥११॥ यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये ॥१२॥ विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन्हि द्विजाधमः ॥१३॥ यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः । संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥१४॥ संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥१५॥ प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिवान् ॥१६॥ यदा तु विदितं तत्त्वं परं ब्रह्म सनातनम् । तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत् ॥१७॥ परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥१८॥ पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत् । तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक् ॥१९॥ अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥२०॥ यस्मिञ्शान्तिः शमः शौचं सत्यं सन्तोष आर्जवम् । अकिञ्चनमदम्भश्च स कैवल्याश्रमे वसेत् ॥२१॥ यदा न कुरुते भावं सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥२२॥ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः । वेदान्तान्विधिवच्छृत्वा संन्यस्तेदनृणो द्विजः ॥२३॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥२४॥ अतीतान्न स्मरेद्भोगान्न तथानागतानपि । प्राप्तांश्च नामिनन्देद्यः स कैवल्याश्रमे वसेत् ॥२५॥ अन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान्विषयान्बहिः । शक्नोति यः सदा कर्तुं स कैवल्याश्रमे वसेत् ॥२६॥ प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥२७॥ कौपीनयुगलं कन्था दण्ड एकः परिग्रहः । यतेः परमहंसस्य नाधिकं तु विधीयते ॥२८॥ यदि वा कुरुते रागादधिकस्य परिग्रहम् । रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥२९॥ विशीर्णान्यमलान्येव चेलानि ग्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥३०॥ एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥३१॥ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेएद्यतिः ॥३२॥ कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥३३॥ रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्च मुनिः स्यात्सर्वनिःस्पृहः ॥३४॥ दम्भाहङ्कारनिर्मुक्तो हिंसापैशून्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥३५॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥३६॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३७॥ श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥३८॥ यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥३९॥ संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥४०॥ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥४१॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥४२॥ क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥४३॥ अध्यात्मरतिरासीनो निरपेक्षो निराशिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥४४॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥४५॥ अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपितम् । चर्मावबद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥४६॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासैमं त्यजेत् ॥४७॥ मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥४८॥ सा कालपुत्रपदवी सा माहावीचिवागुरा । सासिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥४९॥ सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुल्कसी ॥५०॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥५१॥ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः । सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥५२॥ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायकः । सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥५३॥ कपालं वृक्षमूलानि कुचेलान्यसहायता । समता चैव सर्वस्मिन्नैतन्मुक्तस्य लक्षणम् ॥५४॥ सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थं ग्राममाविशेत् ॥५५॥ एको भिक्षुर्यथोक्तः स्याद्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥५६॥ नगरं न हि कर्तव्यं ग्रामो वा मिथुनं तथा । एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥५७॥ राजवार्तादितेषां स्याद्भिक्षावार्ता परस्परम् । स्नेहपैशून्यमात्सर्यं संनिकर्षान्न संशयः ॥५८॥ एकाकी निःस्पृहस्तिष्ठेन हि केन सहालपेत् । दद्यान्नारायणेत्येव प्रतिवाक्यं सदा यतिः ॥५९॥ एकाकी चिन्तयेद्ब्रह्म मनोवाक्कायकर्मभिः । मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥६०॥ कालमेव प्रतीक्षेत यावदायुः समाप्यते । नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥६१॥ अजिह्वः षण्डकः पङ्गुरन्धो बधिर एव च । मुग्धश्च मुच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥६२॥ इदमिष्टमिदं नेति योऽश्नन्नपि न सज्जति । हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ॥६३॥ अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् । शतवर्षं च यो दृष्ट्वा निर्विकारः स षण्डकः ॥६४॥ भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च । योजनान्न परं याति सर्वथा पङ्गुरेव सः ॥६५॥ तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् । चतुर्युगां भुवं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥६६॥ हिताहितं मनोरामं वचः शोकावहं तु यत् । श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥६७॥ सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥६८॥ नटादिप्रेक्षणं द्यूतं प्रमदासुहृदं तथा । भक्ष्यं भोज्यमुदक्यां च षण्न पश्येत्कदाचन ॥६९॥ रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु । षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत् ॥७०॥ मञ्चकं शुक्लवस्त्रं च स्त्रीकथालौल्यमेव च । दिवा स्वापं च यानं च यतीनां पातकानि षट् ॥७१॥ दूरयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः । सदोपनिषदं विद्यामभ्यसेन्मुक्तिहैतुकीम् ॥७२॥ न तीर्थसेवी नित्यं स्यान्नोपवासपरो यतिः । न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत् ॥७३॥ अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् । इन्द्रियाणि समाहृत्य कूर्मोऽङ्गानीव सर्वशः ॥७४॥ क्षीणेन्द्रियमनोवृत्तिर्निराशीर्निष्परिग्रहः । निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ॥७५॥ निर्ममो निरहङ्कारो निरपेक्षो निराशिषः । विविक्तदेशसंसक्तो मुच्यते नात्र संशय इति ॥७६॥ अप्रमत्तः कर्मभक्तिज्ञानसंपन्नः स्वतन्त्रो वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा मुख्यवृत्तिका चेद्ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदिवेतरतथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्यथवा न कुर्यादग्नेय्यमेव कुर्यादग्निर्हिप्राणः प्राणमेवैतया करोति तस्मात्त्रैधातवीयामेव कुर्यादेतैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेदेश वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाहवनीयादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेद्यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य तदुदकं प्राश्नीयात्साज्यं हविरनामयं मोदमिति शिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विसृज्यैव परिव्रजत्यात्मविन्मोक्षमन्त्रैस्त्रैधातवीयैर्विधेस्तद्ब्रह्म तदुपासितव्यमेवैतदिति ॥पितामहं पुनः पप्रच्छ नारदः कथमयज्ञोपवीती ब्राह्मण इति ॥तमाह पितामहः ॥सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥७७॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥७८॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शनः ॥७९॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥८०॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥८१॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥८२॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥८३॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥८४॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥८५॥ तदेतद्विज्ञाय ब्राह्मणः परिव्रज्य परिव्राडेकशाटी मुण्डोऽपरिग्रहः शरीरक्लेशासहिष्णुश्चेदथवा यथाविधिश्चेज्जातरूपधरो भूत्वा सपुत्रमित्रकलत्राप्त- बन्धाद्वीनि स्वाध्यायं सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं च त्यक्त्वा द्वन्द्वसहिष्णुर्न शीतं न चोष्णं न सुखं न दुःखं न निद्रा न मानावमाने च षडूर्मिवर्जितो निन्दाहङ्कारमत्सरगर्वदम्भेर्ष्यासूयेच्छाद्वेष- सुखदुःखकामक्रोधलोभमोहादीन्विसृज्य स्ववपुः शवाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्तर्बहिरमन्यमानः कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो न स्वधाकारो न निन्दास्तुतिर्यादृच्छिको भवेद्यदृच्छा- लाभसन्तुष्टः सुवर्णादीन्न परिग्रहेन्नावाहनं न विसर्जनं न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं न पृथक् नापृथक् न त्वन्यत्र सर्वत्रानिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृणकूटकुलालशालाग्निहोत्र- शालाग्निदिगन्तरनदीतटपुलिनभूगृहकन्दरनिर्झरस्थण्डिलेषु वने वा श्वेतकेतुऋभुनिदाघऋषभदुर्वासःसंवर्तकदत्तात्रेयरैवतक- वदव्यक्तलिङ्गोऽव्यक्ताचारो बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्त- वदाचरंस्त्रिदण्डं शिक्यं पात्रं कमण्डलुं कटिसूत्रं च तत्सर्वं भूःस्वाहेत्यप्सु परित्यज्य कटिसूत्रं च कौओपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेदात्मानमन्विच्छेद्यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् संपन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणान्येन वा याचिताहारमाहरन् लाभलाभे समो भूत्वा निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवतीत्युपनिषत् ॥
इति तृतीयोपदेशः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:05.5470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.