अधिकरणम् ६ - अध्यायः ५

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


गम्यबाहुल्ये बहु प्रतिःदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥१॥

देशं कालं स्थितिं आत्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्याम्((१७४)) अर्थं स्थापयेत् ॥२॥

गम्ये दूतांश्च प्रयोजयेत् । तत्प्रतिबद्धांश्च स्वयं प्रहिणुयात् ॥३॥

द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थं एकस्यापि गच्छेत् । परिग्रहं च चरेत् ॥४॥

गम्ययौगपद्ये तु लाभसाम्ये यद्द्रव्यार्थिनी स्यात्तद्दायिनि विशेषः प्रत्यःअक्ष इत्याचार्याः ॥५॥

अःप्रत्यःआदेयत्वात्सर्वकार्याणां तन्मूलत्वाद्हिरण्यद इति वात्स्यायनः ॥६॥

सुवर्णरजतताम्रकांस्यलोहभाण्डोपस्कारास्तरणप्रावरणवासोविशेषगन्धद्रव्य कटुकभाण्डवृततैलधान्यपशुजातीनां पूर्वपूर्वतो विशेषः ॥७॥

यत्तत्र साम्याद्वा द्रव्यसाम्ये मित्रवाक्यादतिःपातित्वादायतितो गम्यगुणतः प्रीतितश्च विशेषः ॥८॥

रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥९॥

शक्यो हि रागिणि त्याग आधातुम् ॥१०॥

लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्बन्धाद्राज्यत इति वात्स्यायनः ॥११॥

तत्रापि धनवदःधनवतोर्धनवति विशेषः । त्यागिप्रयोजनकर्त्रोः प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥१२॥

प्रयोजनकर्ता सकृत्कृत्वा कृतिनं आत्मानं मन्यते त्यागी पुनरतीतं नापेक्षत इति वात्स्यायनः ॥१३॥

तत्राप्यात्ययिकतो विशेषः ॥१४॥

कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥१५॥

चिरं आराधितोऽपि त्यागी व्यलीकं एकं उपलभ्य प्रतिगणिकया वा मिथ्यादूषितः श्रमं अतीतं नापेक्षते ॥१६॥

प्रायेण हि तेजस्विन ऋजवोऽनःआदृताश्च त्यागिनो भवन्ति ॥१७॥

कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते । परीक्षितशीलत्वाच्च न मिथ्या दूष्यत इति वात्स्यायनः ॥१८॥

तत्राप्यायतितो विशेषः ॥१९॥

मित्रवचनार्थागमयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥२०॥

सो पि ह्यर्थागामो भविता । मित्रं तु सकृद्वाक्ये प्रतिहते कलुषितं स्यादिति वात्स्यायनः ॥२१॥

तत्राप्यतिपाततो विशेषः ॥२२॥

तत्र कार्यसंदर्शनेन मित्रं अनुनीय श्वोभूते वचनं अस्त्विति ततोऽतिपातिनं अर्थं प्रतिगृह्णीयात् ॥२३॥

अर्थागमानःअर्थप्रतिघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥२४॥

अर्थः परिमितावच्छेदः अनःअर्थः पुनः सकृत्प्रसृतो न ज्ञायते क्वावतिष्ठत इति वात्स्यायनः ॥२५॥

तत्रापि गुरुलाघवकृतो विशेषः ॥२६॥

एतेनार्थसंशयादनःअर्थप्रतीकारे विशेषो व्याख्यातः ॥२७॥

देवकुलतडागारामाणां करणं स्थलीनां अग्निचैत्यानां निबन्धनं गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानं देवतानां पूजोपहारप्रवर्तनं तद्व्ययसहिष्णोर्वा धनस्य परिग्रहणं इत्युत्तमगणिकानां लाभातिशयः ॥२८॥

सार्वाङ्गिकोऽकङ्कारयोगो गृहस्योदारस्य करणम् । महार्हैर्भाण्डैः परिचारकैश्च गृहपरिच्छादस्योज्ज्वलतेति रूपजीवानां लाभातिशयः ॥२९॥

नित्यं शुक्लं आच्छादनं अपक्षुदं अन्नपानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः सःहिरण्यभागं अलङ्करणं इति कुम्भदासीनां लाभातिशयः ॥३०॥

एतेन प्रदेशेन मध्यमाधमानां अपि लाभातिशयान्सर्वासां एव योजयेदित्याचार्याः ॥३१॥

देशकालविभावसामर्थ्यानुरागलोकप्रवृत्तिवशादःनियतलाभादियं अःवृत्तिरिति वात्स्यायनः ॥३२॥

गम्यं अन्यतो निवारयितुकामा सक्तं अन्यस्यां अपहर्तुकामा वा अन्यां वा लाभतो वियुयुक्षमाणाःगम्यसंसर्गादात्मनः स्थानं वृद्धिं आयतिं अभिगम्यतां च मन्यमाना अनःअर्थप्रतीकारे वा साहाय्यं एनं कारयितुकामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारं अःकृतं इव पश्यन्ती केवलप्रीत्यर्थिनी वा कल्याणबुद्धेरल्पं अपि लाभं प्रतिगृह्णीयात् ॥३३॥

आयत्यर्थिनी तु तं आश्रित्य चानःअर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात् ॥३४॥

त्यक्ष्याम्येनं अन्यतः प्रतिसन्धास्यामि गमिष्यति दारैर्योक्ष्यते नाशयिष्यत्यनःअर्थानङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी पिता वा स्थानभ्रंशो वास्य भविष्यति चलचित्तश्चेति मन्यमाना तदात्वे तस्माल्लाभं इच्छेत् ॥३६॥
प्रतिज्ञातं ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्तिकालोऽस्य वा आसन्नः वाहनं अस्यागमिष्यति स्थलपत्त्रं वा सस्यं अस्य पक्ष्यते कृतं अस्मिन्न नश्यति नित्यं अःविसंवादको वेत्यायत्यां इच्छेत् । परिग्रहकल्पं वाचरेत् ॥३५॥

भवन्ति चात्र श्लोकाः॥३७॥

व्कृच्छ्राधिगतवित्तांश्च राजवल्लभनिष्ठुरान् । आयत्यां च तदात्वे च दूरादेव विवर्जयेत् ॥३७॥

वःअर्थो वर्जने येषां गमनेऽभ्युदयस्तथा । प्रयत्नेनापि तान्गृह्य सापदेशं उपक्रमेत् ॥३८॥

व्प्रसन्ना ये प्रयच्छन्ति स्वःअल्पेऽप्यःगणितं वसु । स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः((१७५)) ॥३९॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP