TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अधिकरणम् ६ - अध्यायः ६

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अध्यायः ६
अर्थानाचर्यमाणाननःअर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च((१७६)) ॥१॥

ते बुद्धिदौर्बल्यादतिःरागादत्यःअभिमानादतिःदम्भादत्यःआर्जवादतिःविश्वासादतिःक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ॥२॥

तेषां फलं कृतस्य व्ययस्य निषःफलत्वं अनःआयतिरागमिष्यतोऽर्थस्य निवर्तनं आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर्गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनं अङ्गवैकल्यापत्तिः ॥३॥

तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत ॥४॥

अर्थो धर्मः काम इत्यर्थत्रिवर्गः ॥५॥

अनःअर्थोऽःधर्मो द्वेष इत्यनःअर्थत्रिवर्गः ॥६॥

तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥७॥

संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥८॥

इदं वा स्यादिदं वेति संकीर्णः ॥९॥

एकस्मिन्क्रियमाणे कार्ये कार्यद्वयस्योत्पत्तिरुभयतोःयोगः ॥१०॥

समन्तादुत्पत्तिः समन्ततोःयोग इति तानुदाहरिष्यामः ॥११॥

विचारितरूपोऽर्थत्रिवर्गः । तद्विपरीत एवानःअर्थत्रिवर्गः ॥१२॥

यस्योत्तमस्याभिगमने प्रत्यःअक्षतोऽर्थलाभो ग्रहणीयत्वं आयतिरागमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुबन्धः ॥१३॥

लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरःअनुबन्धः ॥१४॥

अन्यार्थपरिग्रहे सक्तादायतिच्छेदनं अर्थस्य निष्क्रमणं लोकविद्विष्टस्य वा नीचस्य गमनं आयतिघ्नं अर्थोऽनःअर्थानुबन्धः ॥१५॥

स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निषःफलं अपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशमनं आयतिजननं सोऽनःअर्थोऽर्थानुबन्धः ॥१६॥

कदर्यस्य सुभगमानिनः कृतघ्नस्य वातिःसन्धानशीलस्य स्वैरपि व्ययैस्तथाराधनं अन्ते निषःफलं सोऽनःअर्थो निरःअनुबन्धः ॥१७॥

तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनं अन्ते निषःफलं निष्कासनं च दोषकरं सोऽनःअर्थोऽनःअर्थानुबन्धः ॥१८॥

एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥१९॥

परस्परेण च युक्त्या संकिरेद् ॥२०॥

चित्यनुबन्धाः((१७७)) ॥२०॥

परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥२१॥

निष्पीडितार्थं अःफलं उत्सृजन्त्या अर्थं अःलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ॥२२॥

अभिप्रेतं उपलभ्य परिचारकं अन्यं वा क्षुद्रं गत्वा काअः स्यान्न वेति कामसंशयः ॥२३॥

प्रभाववान्क्षुद्रोऽनःअभिगतोऽनःअर्थं करिष्यति न वेत्यनःअर्थसंशयः ॥२४॥

अत्यःअन्तनिषःफलः सक्तः परित्यक्तः पितृलोकं यायात्तत्राःधर्मः स्यान्न वेत्यःधर्मसंशयः ॥२५॥

रागस्यापि विवक्षायां अभिप्रेतमनःउपलभ्य विरागः स्यान्न वेति द्वेषसंशयः ॥२६॥

इति शुद्धसंशयाः ॥२६॥

अथ संकीर्णाः((१७८)) ॥२७॥

आगन्तोरःविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा समुपस्थितस्याराधनं अर्थोऽनःअर्थ इति संशयः ॥२८॥

श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽःधर्म इति संशयः ॥३०॥
लोकादेवाःकृतप्रत्ययादःगुणो गुणवान्वेत्यनःअवेक्ष्य गमनं कामो द्वेष इति संशयः ॥२९॥

संकिरेच्च परस्परेण ॥३१॥

इति संकीर्णसंशयाः ॥३१॥

यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ॥३२॥

यत्र स्वेन व्ययेन निषःफलं अभिगमनं सक्ताच्चाःमर्षिताद्वित्तप्रत्यादानं स उभयतोऽनःअर्थः ॥३३॥

यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि संघर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः ॥३४॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्यःआदास्यति न वेति स उभयतोऽनःअर्थसंशयः ॥३५॥

चित्यौद्दालकेरुभयतोयोगाः ॥३५॥

बाभ्रवीयास्तु((१७९)) ॥३६॥

यत्राभिगमनेऽर्थोऽनःअभिगमने च सक्तादर्थः स उभयतोःऽर्थः ॥३७॥

यत्राभिगमने निषःफलो व्ययोऽनःअभिगमने च निषःप्रतीकारोऽनःअर्थः स उभयतोःऽनःअर्थः ॥३८॥

यत्राभिगमने निरःव्ययो दास्यति न वेति संशयोऽनःअभिगमने सक्तो दास्यति न वेति स उभयतोःऽर्थसंशयः ॥३९॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान्प्राप्स्यते न वेति संशयोऽनःअभिगमने च क्रोधादनःअर्थं करिष्यति न वेति स उभयतोःऽनःअर्थसंशयः ॥४०॥

एतेषां एव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनःअर्थः अन्यतोऽर्थोऽन्यतोऽर्थसंशयः अन्यतोऽर्थोऽन्यतोऽनःअर्थसंशयः ॥४१॥

इति षट्संकीर्णयोगाः ॥४१॥

तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयो गुरुरनःअर्थप्रशमो वा ततः प्रवर्तेत ॥४२॥

एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्((१८०)) । संकिरेच्च परस्परेण व्यतिषञ्जयेच्च ॥४३॥

चित्युभयतोःयोगाः ॥४३॥

संभूय च विटाः परिगृह्णान्त्येकां असौ गोष्ठीपरिग्रहः ॥४४॥

सा तेषां इतस्ततः संसृज्यमाना प्रत्यःएकं संघर्षादर्थं निर्वर्तयेत् ॥४५॥

सुःवसन्तकादिषु च योगे यो मे इमं अमुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत् ॥४६॥

तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् ॥४७॥

एकतोऽर्थः सर्वतोऽर्थः एकतोऽनःअर्थः सर्वतोऽनःअर्थः । अर्धतोऽर्थः सर्वतोऽर्थः अर्धतोऽनःअर्थः सर्वतोऽनःअर्थः ॥४८॥

इति समन्ततो योगाः ॥४८॥

अर्थसंशयं अनःअर्थसंशयं च पूर्ववद्योजयेत् । संकिरेच्च तथा धर्मकामावपि ॥४९॥

चित्यर्थानःअर्थानुबन्धसंशयविचाराः((१८१)) ॥४९॥

कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्याविशेषाः ॥५०॥

सर्वासां चानुरूपेण गम्याः सहायास्तसुपरञ्जनं अर्थागमोपाया निष्कासनं पुनः संधानं लाभविशेषानुबन्धा अर्थानःअर्थानुबन्धसंशयविचाराश्च ॥५१॥

५८ इति वैशिकम्((१८२)) ।॥

भवतश्चात्र श्लोकौ ॥५२॥

व्रत्यर्थाः पुरुषा येन रत्यर्थाश्चैव योषितः । शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ॥५२॥

व्सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि । प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके((१८३)) ॥५३॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽथानःअर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः ॥लिव्रे ७ औपनिषदिकं नाम सप्तमं अधिकरणम् ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-06-27T14:31:31.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

creeping inflation

  • मंद अतिवृद्धि 
  • मंद स्फीति 
  • मंद अतिवृद्धि 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site