TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

संवित्सिद्धि - १

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.
याचे लेखक आहेत रामानुज.

संवित्सिद्धि
श्रीः ।
श्रीहरिर्जयति ।
श्रीमते रामानुजाय नमः ।
परमाचार्यश्रीमद्यामुनमुनिसमनुगृहीते सिद्धित्रये  संवित्सिद्धिः ।
सिद्धाञ्जननामकव्याख्योपेता ।
एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ।
ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ॥१॥
(व्याख्या) ईष्टे विश्वस्य नित्यं व्यपगततुलनायोग्यवस्त्वन्तरो यो विद्ये यस्याधिगत्यै विदुरुपनिषदो द्वे परां चापरां च ।
यो विश्वस्वान्तवासी प्रथयति च धियं तस्य तस्यानुरूपां देवः श्रीमान्स मह्यं प्रदिशतु दयया धीविकासं समन्तात् ॥१॥
यामुनाशयविज्ञं तं ध्यात्वा लक्ष्मणयोगिनम् ।
यामुनार्यकृतिं संवित्सिद्धिं व्याकरवाण्यहम् ॥२॥
प्रमाणफलरूपायाः संविदः प्रमेयतत्त्वव्यवस्थापिकायाः स्वरूपादिविशोध्यतेऽत्र संविस्तिद्धौ ।
इयमादिमा सिद्धित्रये श्लोकवार्तिकच्छ्लोकमालिकारूपा ।
तन्त्रवार्तिकवच्चात्मेश्वरसिद्धी ।
अत्र चोपक्रममध्यावसानेषु भूयान्ग्रन्थभागो लुप्तः ।
उपलभ्यमानसंवित्सिद्धिभागे च बहुलमद्वैतिमतनिरासो दृश्यते ।
अद्वैतिनो हिसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्इति कारणीभूतस्य सच्छब्दितस्य परब्रह्मणोऽद्वितीयत्वश्रवणात्सत्यं ज्ञानमनन्तं ब्रह्मेति ज्ञानमात्रत्वश्रवणाच्च सजातीयविजातीयस्वगतभेदसामान्यशून्यं ब्रह्मैव चिन्मात्रं सत्परमार्थः, अन्यत्सर्वं तत्रैवाविद्यया परिकल्पितं मिथ्याभूतमित्यामनन्ति ।
तत्राद्वितीयश्रुतेस्तदभिमतार्थप्रतिपादकत्वासम्भवं वर्णयितुमादौ तन्मतमनुवदतिएकमेवेति ।
यत्तदोर्नित्यसंबन्धात्पूर्वार्धे यदि त्यनुषज्यते ।
यतुपनिषद्वचः, तदित्यन्वयः ।
यद्वा उत्तरार्धे तच्छद्बः प्रसिद्धपरामर्शी न तु यच्छब्दनिर्दिष्टप्रतिनिर्देशरूपः ।
तद्ब्रह्मेत्यत्रसद्ब्रह्मेति पाठः संभाव्यते ।
ब्रह्मवाचिसत्पदविशेषणमद्वितीयपदं ब्रह्मणोऽन्यस्यासत्त्वपरमिति पूर्वपक्षिणामाशयः ॥१॥
अत्रे ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः ।
किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ॥२॥
तमिमं दूषयितुमद्वितीयपदे वृत्तिं विकल्पयति सिद्धान्तीअत्रेति ।
अद्वितीयोक्तौ  अद्वितीयपदे ।
अथवा किं बहुव्रीहिरित्यन्वयः ॥२॥
पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ।
पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ॥३॥
तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते ।
अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥४॥
अद्वितीयपदस्य तत्पुरुषवृत्तत्वे न द्वितीयस्य बाध इत्याहपूर्वस्मिन्इत्यादिना श्लोकचतुष्टयेन ।
तत्पुरुष इति प्रथमकल्पे तावदुत्तरपदार्थः प्राधान्येन विवक्ष्यते, उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्येत्यर्थः ।
तत्रेति ।
न द्वितीयमद्वितीयम् ।
नञ्तत्पुरुषे चारोपितत्वस्य पूर्वपदार्थत्वं तस्य चोत्तरपदार्थविशेषणत्वमिष्यते शाब्दिकैः ।
आरोपश्च सदृशादौ ।
तत्फलितकथनं तदन्याद्यर्थे नञ् इति ।
नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिरिति च शाब्दिकानां परिभाषा ।
तथा चाद्वितीयपदेनारोपितद्वितीयत्ववद्ब्रह्मेति बोधे तत्र द्वितीयान्यत्वस्य द्वितीयसदृशत्वस्य द्वितीयविरुद्धत्वस्य वा प्रतीतिः फलति ।
अर्थत्रयेऽपि ब्रह्मभिन्नस्य द्वितीयपदार्थस्य न बाधः ।
द्वितीयप्रतियोगिकस्य भेदस्य सादृश्यस्य वा प्रतिबोधने प्रतियोगितया द्वितीयसिद्धेर्निष्प्रत्यूहत्वादिति भावः ॥३॥४॥
विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ।
ब्रह्म प्राप्नोति यस्मात्तत्द्वितीयेन विरुध्यते ॥५॥
नन्वेवमपि द्वितीयविरुद्धत्वे ब्रह्मणो बोधिते कथं न द्वितीयस्य बाध इत्यत्राहविरुद्धत्वइति ।
अयमाशयः  द्वितीयत्वं अत्र द्वित्वसङ्ख्यापूरकत्वरूपम् ।
द्वितीयविरुद्धत्वं च द्वितीयत्वविरुद्धधर्मवत्त्वात् ।
स च धर्मः प्रथमत्वं नियमतः तृतीयत्वादि वा ।
नैतावता द्वितीयस्य कस्यचिद्बाध इति ॥५॥
अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ।
द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ॥६॥
तदाहअतइति ।
द्वितीयेन  द्वित्वसङ्ख्यापूरकेण, तथा स्पृष्ट्वा  विरोधसंबन्धेन सम्बध्य, स्वस्थाः  स्वस्वप्रमाणाधीनसिद्धिकाः सन्तः, अद्वितीयोक्त्याबाधिताः प्रथमतृतीयाद्यर्थराशयो वर्तन्त एवेत्यर्थः ।
स्पृष्टा इति पाठः संभाव्यते ॥६॥
ननु नञ् ब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् ।
द्वितीयग्रहणं यस्मात्सर्वस्यवोपलक्षणम् ॥७॥
अत्र शङ्कते पूर्वपक्षीननु नञिति ।
अयमाशयःद्वितीयपदं न मुख्यार्थकम् ।
किन्तु भेदप्रपञ्चमात्रलक्षकम् ।
नञ्पदं चात्यन्ताभावार्थकम् ।
द्वितीयस्याभावोऽद्वितीयम् ।
अर्थाभावेऽव्ययीभावः ।
तथा च भेदप्रपञ्चबाधः सिध्यत्यद्वितीयश्रुत्येति ॥७॥
नैवं विषेधो न ह्यस्माद्विदीयस्यावगम्यते ।
ततोऽन्यत्तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥८॥
परिहरतिनैवम्इति ।
हिर्हेतौ ।
यतोऽस्मादद्वितीयपदाद्ब्रह्मपदसमानाधिकरणात्द्वितीयतो भिन्नत्वादिरेव बोध्यते ब्रह्मणः ।
न तु प्रपञ्चनिषेधमात्रम् ।
अतो नात्राव्ययीभावो युक्त इति भावः ।
अविकल्पितोऽप्ययं प्रसङ्गात्प्रतिक्षिप्यतेऽत्र ।
सःअद्वितीयशब्दः ॥८॥
द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ।
सत्यादिलक्षणोक्तीनामपलक्षणता भवेत् ॥९॥
अनुपपन्नश्च ब्रह्मभिन्नस्य सर्वस्य निषेधः ।
तथा सति ब्रह्मलक्षणवाक्यानामसङ्गतिप्रसङ्गादित्याहद्वितीयम्इति ।
यत्संबन्धिनोऽन्यस्ययतो भिन्नस्य सर्वस्याभावः, तद्ब्रह्मेत्यर्थकथने लक्ष्यवृत्त्यसाधारणधर्मरूपस्य लक्षणस्याप्यसत्त्वात्सत्यज्ञानादिलक्षणवाक्यमपलक्षणंभवेदिति भावः ॥९॥
अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे ।
स्वनिष्ठत्वान्नञर्थस्य न स्याद्ब्रह्मपदान्वयः ॥१०॥
अव्ययीभावस्य सत्पदेनानन्वयमप्याहअद्वितीयइति ।
अद्वितीयेअद्वितीयपदे ।
स्वनिष्ठत्वात्स्वप्रधानत्वात् ।
इतरपदार्थाविशेषणत्वादिति यावत् ।
ब्रह्मवाचिसत्पदे विशेषणतयान्वयो न स्यात् ।
तत्समानाधिकरणं तद्विशेषणं हीदम् ।
तन्नेष्टापत्तिः कर्तुं शक्या ।
वाक्यभेदप्रसङ्गश्च तथासतीति भावः ॥१०॥
द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ।
विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ॥११॥
ननु द्वितीयाभावो ब्रह्मस्वरूपमेव ।
तद्ब्रह्मपदसामानाधिकरण्यं घटत इति चेत्तत्राहद्वितीयेति ।
द्वितीयाभावोऽभेदेन ब्रह्मणो न विशेषणं भवितुमर्हति ।
अभावस्य तुच्छत्वाद्ब्रह्मणः सत्यत्वात्सत्यतुच्छयोरैक्यायोगादिति पूर्वार्धस्यार्थः ।
ब्रह्मविशेषणत्वेऽपि वदामः द्वितीयं प्रतीयोगि प्रथमम् ।
तदभावत्वं द्वितीयम् ।
तृतीयं च विशेष्यम् ब्रह्म ।
यद्वा ब्रह्म प्रथमम् ।
द्वितीयं प्रतियोगि द्वितीयम् ।
तृतीयं तदभावत्वविशेषणमिति प्रथमत्वं तृतीयत्वं वा ब्रह्मणोऽवर्जनीयमित्युत्तरार्धार्थः ।
एवमव्ययीभावपक्षेऽप्यनुपपत्तिरुक्ता ॥११॥
प्रसक्तं पूर्ववत्सर्वं बहुर्वीहौ समस्यति ।
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्र्त्रये ॥१२॥
ब्रह्म प्रत्यद्वितीयत्वात्स्वस्थास्तिष्ठन्त्यबाधिताः ।
किञ्च तत्र बहुव्रीहौ समासे संश्रिते सति ॥१३॥
वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ।
सत्या(त्यर्)थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥१४॥
अथ बहुव्रीहिपक्षे दूषणमाहप्रसक्तम्इति ।
बहुव्रीहिवृत्तेऽप्यद्वितीयपदेतत्पुरुष इव प्रथमतृतीयादिसर्वसद्भावोऽनिवार्यः प्रसक्त एवेत्यर्थः ।
तदेवोपपादयत्यर्धाभ्यांब्रह्मण इति,ब्रह्मेति च ।
नास्ति द्वितीयं यस्य तद्ब्रह्मेत्यत्र पक्षे विग्रहः ।
ब्रह्मनिष्ठद्वित्वसङ्ख्यापूरकं नास्तीत्यर्थः ।
तथा च ब्रह्मण एव द्वितीयत्वं लभ्येत ।
ततश्च ब्रह्मापेक्षया प्रथमस्य तृतीयादेश्च न बाधोऽद्वितीयश्रुत्येत्यर्थः ।
आद्यसङ्ख्यापूरकत्वं प्रथमत्वं, त्रित्वादिसङ्ख्यापूरकत्वं च तृतीयत्वादीति बोध्यम् ।
ब्रह्म प्रत्यद्वितीयत्वात्ब्रह्मापेक्षया द्वितीयत्वाभावात् ।
तच्च ब्रह्मापेक्षया प्रथमत्वात्तृतीयादित्वाद्वा ।
स्वस्था इत्यादि पूर्वपद्व्याख्येयम् ।
ननु बहुव्रीहिघटकस्य द्वितीयपदस्य द्वित्वसङ्ख्यापूरकार्थत्वं, द्वित्वे च यच्छब्दार्थस्य ब्रह्मणो निष्ठत्वसंबन्धोनान्वयो नोपेयते; येन प्रथमतृतीयादिप्रसक्तिः ।
किन्तु द्वितीयपदं भिन्नपरम् ।
भेदे च ब्रह्मप्रतियोगिकत्वस्यान्वयः ।
यतो ब्रह्मणो भिन्नं नास्ति तद्ब्रह्माद्वितीयमिति द्वितीयबाधोऽद्वितीयश्रुत्या लभ्यत एवेत्यत्राहकिञ्चेति ।
अन्यपदार्थप्रधानो हि बहुव्रीहिः ।
तथा च बहुव्रीहिवृत्तपदोपस्थाप्यद्वितीयाभावस्यान्यपदार्थब्रह्मविशेषणत्वं वक्तव्यम् ।
तन्न घटते ।
ब्रह्मभिन्नसर्वशून्यवादे द्वितीयाभावस्यापि शून्यतया ब्रह्मपदार्थविशेषणत्वायोगादित्यर्थः ।
वृत्त्यर्थस्य बहुव्रीह्यर्थस्य, नञर्थस्य द्वितीयाभावस्य ।
कुतो न पदार्थान्तरान्वयासम्भवः ? तत्राहसत्येति ।
यस्येति षष्ठी प्रकृत्यर्थान्वितेर्ऽथान्तरसंबन्धे प्रामाणिके सति सङ्गच्छते ।
निर्विशेषे च ब्रह्मणि प्रकृत्यर्थे पदार्थान्तरसंबन्धस्यासत्यत्वात्षष्ठीबहुव्रीहिश्च प्रकृते न घटत इत्यर्थः ॥१२॥१३॥१४॥
द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ।
असत्त्वान्न ह्यसद्ब्रह्म भवेन्नापि विशेषणम् ॥१५॥
राहोः शिर इत्यादावभेदेऽपि षष्ठ्या दृष्टेर्यदभिन्नो द्वितीयाभावस्तदद्वितीयं ब्रह्मेति विवक्षां प्रतिक्षेपति,द्वितीयेति ।
असतः सत्पदार्थाभेदस्तद्विशेषणत्वमपि न युज्यते इति भावः ॥१५॥
तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ।
स्वप्रमाणबलात्सिद्धः श्रुत्या चाप्यनुमोदितः ॥१६॥
पराभिमताद्वितीयश्रुत्यर्थानुपपत्तिनिरूपणं निगमयतितस्मादिति ।
निर्देषप्रत्यक्षादिप्रमाणसिद्धः श्रुत्यापि परमार्थत्वेनानुवर्णितो भेदप्रपञ्चसद्भावो नाद्वितीयश्रुतिबाध्यः, उपपादितप्रकारेणाद्वितीयश्रुतेः ब्रह्मभिन्ननास्तिताप्रतिपादनासामर्थ्यादित्यर्थः ॥१६॥
( इत्यद्वितीयश्रुतेः पराभिमतार्थे दूषणनिरूपणं ) तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयमुच्यते ।
द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ॥१७॥
समो वाभ्यधिको वास्य यो द्वितीयस्तुगण्यते ।
यतोऽस्य विभवव्यूहकलामात्रमिदं जगत् ॥१८॥
द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् ।
यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले ॥१९॥
इति तत्तुल्यनृपतिनिवारणपरं वचः ।
न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम् ॥२० ॥॥
तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः ।
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ॥२१॥
ज्ञानादिषाङ्गुण्यनिधेरचिन्त्यविभवस्य ताः ।
विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ॥२२॥
कस्तर्ह्यद्वितीयश्रुत्यर्थः ? तत्राहतेनेति ।
पराभिमतार्थस्यानुपपत्त्यान्यादृशोर्ऽथः सुसङ्गत उपन्यस्यतेऽस्माभिरित्यर्थः ।
उच्यत इति प्रतिज्ञानमुच्यमानार्थस्यापूर्ववदाश्चर्यावहत्वद्योतनार्थमवधेयत्वार्थं च ।
तमेवार्थमाहद्वितीयेति ।
प्रथमतो ब्रह्मणो गणने कृते तेन सह गणनार्हे द्वितीयः समो वाधिको वा पदार्थः कालत्रयेऽपि नास्तीत्यर्थः ।
ननु विविधविचित्रानन्तचिदचित्प्रपञ्चे कथं कस्यचिदपि ब्रह्मसमस्याभावः ? तत्राहयतइति ।
अस्य परमात्मनोऽनन्तमहाविभूतेर्विभूत्येकदेशांशमात्रत्वाच्चतुर्दशभुवनात्मकब्रह्माण्डकोटेरपि तदन्तर्गतस्योदुम्बरमशकवत्परिच्छिन्नस्वरूपस्वभावादेर्भवब्रह्मादेरपि न तेन साम्यगन्धप्रसङ्ग इति द्वितीयवागास्प दतांद्वितीयपदवाच्यतां, ब्रह्मणा सह गणनायोग्यत्वं, कथं तत्जगत्प्रतिपद्येतप्राप्नुयादित्यर्थः ।
सिद्धान्तेऽद्वितीयपदस्य वृत्तिद्वयमपि संभवतीत्यभिप्रेतम् ।
तथा चानुगृहीतं शतदूषण्यां श्रीमद्वेदान्तदेशिकचरणैःअस्मत्पक्षे तु वृत्तिद्वयमपि सम्यक् ।
द्वितीयव्यतिरेकोक्त्या सतः स्यादग्रगण्यता ।
द्वितीयशून्यतोक्त्या च तत्समाननिषेधकं ॥
इति ।
एतद्व्याकुर्महेअतिशयितवस्तुगणनाप्रस्तावे ब्रह्मण एव प्रथमपरिगणनं न्याय्यम् ।
तस्यैव मुख्यातिशयवत्त्वात् ।
मुख्यस्यैव प्रथमपरिगणनस्य लोके शास्त्रे च दृष्टेः ।
कविकुलगणनाप्रसङ्गे कालिदासस्यैव हि प्राथम्येन गणनं कविलोकप्रसिद्धम् ।
यथोच्यतेपुराकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा इति ।
शास्त्रकृतो जैमिनेराचार्यस्यापि संमतं मुख्यस्य प्रथमपरिगणनम् ।
तथा हि सूत्रयामासमुख्यं वा पूर्वचोदनाल्लोकवदिति ।
एवं नञ्तत्पुरुषे ब्रह्मण एवाग्रगण्यता स्थिता ।
ततः सर्वाधितकत्वसिद्धिः ।
ततश्चाधिकनिषेधः फलति ।
समस्यैव द्वितीयगणनायोग्यत्वमित्याशयमूलकं चपुरा कवीनामितिश्लोकस्योत्तरार्धं परिपठ्यते अद्यापि तत्तुल्यकवेरभावादनामिका सार्ऽथवती बभूवैति ।
तथा च बहुव्रीहिवृत्त्या समनिषेधः फलति ब्रह्मण इति ।
मुक्तानामपि भोगमात्रसाम्यमिति न ब्रह्मणा सह गणनं मुख्यपरिगणनप्रस्तावे युक्तम् ।
तन्मुख्यं वस्तु वस्तुतो ब्रह्मैकमेवेति अद्वितीयत्वं तस्य प्रतितिष्ठतीति च बोध्यम् ।
एवमद्वितीयश्रुतेः ब्रह्मणः समाभ्यधिकराहित्यप्रतिपादनपरत्वं व्यवस्थापितम् ।
न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुत्यन्तरानुसारात्न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव इत्युपबृंहणानुसाराच्चैदमर्थ्यमेव तस्य न्याय्यमिति हार्दम् ।
अथाद्वितीयपदस्य समान्तरनिषेधपरत्वे लौकिकप्रयोगं च निदर्शयतियथेति ।
चोलनृपस्यास्थानपण्डितं विजित्यवादाहवेराजासनं राज्यार्धं च तत्समर्पितमधिगतवन्त इमे परमाचार्याः पूर्वाश्रमे ।
तत्प्रसङ्गस्मारकश्चायं चोलनृपप्रस्तावोऽत्र ।
यथा राज्ञोऽद्वितीयत्ववर्णनं राजविभूत्यादेर्निषेधकं न, किन्तु तत्समनृपान्तरनिषेधकमेव, एवं ब्रह्मणोऽद्वितीयत्वश्रुतिर्न तद्विभूतेर्निषेधिकेत्याहतथेति ।
अत्र या इत्यपतितम् ।
याः सुरासुरनरब्रह्मगर्भब्रह्माण्डकोटयः, ता वेष्णवमहाविभूत्यर्णवविशीर्यमाण जलकणिकायमानाः तदद्वितीयत्वश्रुत्या न बाध्यन्त इति यावत् ।
औपनिषदं परं तत्त्वं परं ब्रह्म श्रीमन्नारायण एवेति च विष्णोरिति निर्देशेन ज्ञापितम् ॥१७॥१८॥१९॥२०॥२१॥२२॥
कः खल्वङ्गुलिभङ्गेन समुद्रान्सप्तसङ्ख्या ।
गणयन्गणयेदूर्मिफेनबुद्बुदविप्रुषः ॥२३॥
यथैक एव सविता न द्वितीयो नभःस्थले ।
इत्युक्ता न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ॥२४॥
यथा प्रधानसङ्ख्येयसङ्ख्यायां नैव गण्यते ।
सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ॥२५॥
नन्वतुल्यत्वेऽपि सहगणनेष्यतामित्यत्राहक इति ।
तत्स्वरूपान्तर्गतस्य तेन सह गणनायोग इत्यत्रेदं निदर्शनं, सवितृनिदर्शनं च ।
गुणस्य गुणिना सह गणनायोग इत्यत्रयथा प्रधानेति ।
पृथक्सतीसङ्ख्येयाद्भिन्नत्वेन स्थिता ।
यद्वा अपृथक्सतीतिच्छेदः ।
अपृथक्सिद्धविशेषणभूतेत्यर्थः ।
सङ्ख्येयान्यपदार्थवदिति तु वैधर्म्यदृष्टान्तः ।
सङ्ख्येयद्रव्यगणनायां सङ्ख्येयोऽन्यः पदार्थो यथा गण्यते न तथा तद्गुणभूता सङ्ख्या तेन सह गण्यत इत्यर्थः ।
यद्वा सङ्ख्येयत्वेनाप्रस्तुतवस्त्वन्तरवदित्यर्थः ।
साधर्म्यदृष्टान्तत्वमिदानीं घटते ॥२३॥२४॥२५॥
तथा, पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।
इति ब्रुवन्जगत्सर्वमित्थम्भावे न्यवेशयत् ॥२६॥
ननु सर्वं तदा शोभनं ; यदि ब्रह्मविभूतित्वादौ प्रमाणं स्यादित्यत्राहतथेति ।
पादोऽस्येति ।
यथा ब्रह्मगुणत्वं सिध्येज्जगतः तथैव ब्रह्मांशत्वं प्रतिपादयच्छ्रुतिजातं सर्वं जगत ब्रह्मापृथक्सिद्धप्रकारत्वे व्यवार्थापयदित्यर्थः ।
गुणत्वं चात्यन्तपारतन्त्र्यरूपमित्थम्भावशब्दितमपृथक्सिद्धप्रकारत्वलक्षणमेव ।
इत्थम्भाव इत्यनेन न स्वरूपैकदेशत्वलक्षणमंशत्वम् ।
किन्तु विशिष्टब्रह्मस्वरूपान्तर्गतप्रकारतैकरूपत्वलक्षणमेव जगतो ब्रह्मांशत्वमिति व्यज्यते ॥२६॥
तथा, एतावानस्य महिमा ततो ज्यायस्तरो हि सः ।
यत्रान्यन्न विजानाति स भूमोदरमन्तरम् ।
कुरुतेऽस्य भयं व्यक्तमित्यादिश्रुतयः पराः ॥२७॥
मेरोरिवाणुर्यस्येदं ब्रह्माण्डमखिलं जगत् ।
इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥२८॥
ब्रह्मस्वरूपैकदेशत्वमेव जगतः कुतो नेत्यत्राहतथेति ।
एतावानिति ।
महिमा इत्यनेन जगतो विभूतित्वं ब्रह्मणोऽतिशयावहत्वाद्गुणत्वं च ज्ञायते ।
ततो ज्यायांश्च पूरुष इति ब्रह्मणो जगदपेक्षयातिवैलक्षण्यं च ।
अतो न ब्रह्मस्वरूपैकदेशता मृदंशतेव तत्परिणामघटादेर्जगतो युक्ता ।
अतोऽपृथक्सिद्धविशेषणतया विशिष्टैकवस्त्वेकदेशत्वरूपमेव ब्रह्मांशत्वं जगतोऽभिमतमिति भावः ।
सर्वस्य ब्रह्मस्वरूपान्तर्गतत्वे श्रुतिमुदाहरतियत्रेति ।
यत्र विशिष्टे ब्रह्मणि समनुभूयमानेऽन्यत्स्वतन्त्रं वस्तु न पश्यति, सर्वस्य तदन्तर्भावात्, स भूमेत्यर्थः ।
सर्वप्रकारकः सर्वात्मा परं ब्रह्म परमपुरुषो नारायण एव भूमा, अन्यः सर्वोऽप्यल्पक इति प्रोक्तं भवति ।
स्वनिष्ठप्रञ्चदर्शननिन्दया च ब्रह्मनिष्ठत्वमेव तस्य गम्यत इत्याशयेन श्रुत्यन्तरमुपादत्ते उदरम्इति ।
यदा ह्येवैष एतस्मिन्नु दरमन्तरं कुरुते, अथ तस्य भयं भवतीति तैत्तिरीयोपनिषदि ।
एतस्मिन्प्रपञ्चे दरमल्पमपि अन्तरमन्तरालं ब्रह्मसंबन्धविच्छेदं यदा पश्यति तदैवास्यैवं जानतः संसारभयमुपस्थितमग्रे भवतीत्यर्थः ।
परप्रक्रियाच्छाययैवमत्रार्थो विवक्षितो भेदमिथ्यात्वं न सिध्यत्येतद्वाक्यत इति बोधनाय ।
परमात्मनि निष्ठाशब्दितस्य ध्रुवानुस्मरणस्य पूर्ववाक्यप्रस्तुतस्याल्पकालविच्छेदेऽपि संसारभयप्रसङ्ग एवेति तु सिद्धान्तिसम्मतोर्ऽथः ।
विष्णुमहाविभूत्येकदेशत्वे जगतः स्मृतिवाक्यंमेरोरित्यादि ।
इत्यादय इत्यस्याग्रे स्मृतयश्चेति योज्यम् ।
तदित्थम्भावतापराः ब्रह्मापृथक्सिद्धप्रकारत्वप्रतिपादनतत्पराः ॥२७॥२८॥
वाचारम्भणमात्रं तु जगत्स्थावरजङ्गमम् ।
विकारजातं, कूटस्थं मूलकारणमेव सत् ॥२९॥
ननु विरुक्तेषु वचनेषु ब्रह्मविभूतित्वादौ जगतः प्रतिपादितेऽपि वचनान्तरेषु कारणमात्रस्य सत्यत्वं अन्यस्य सर्वस्यासत्यत्वं च प्रतीयते इति तदनुरोधेनेषां व्यावहारिकविषयत्वमेव मन्तव्यमिति चेत्तत्राहवाचेति ।
वचनान्तरेष्वपि मिथ्यात्वं नोच्यते भेदप्रपञ्चस्य, किन्तु ब्रह्मात्मकत्वेन सत्तैवेति भावः ।
श्रौतकतिपयपदघटितं श्रौतार्थानुवादरूपं वाचारम्भणमात्रमित्यादि ।
तत्तत्पदस्मारितानि श्रुतिवाक्यानि विवक्षितानि ।
वाचाऽसम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्इति च्छान्दोग्ये षष्ठप्रपाठके ।
वाचा इति तृतीया प्रयोजनस्य हेतुत्वविवक्षया ।
आरम्भणमालम्भवम्स्पृष्टम् ।
आलम्भः स्पर्शहिंसयोः ।
गृहीतमिति यावत् ।
आरम्भते इत्यारम्भणंसृष्टमिति वा ।
नपुंसकैकशेषैकवद्भावौ ।
किन्तत्?  विकारो नामधेयं च ।
केन स्पृष्टमित्याकाङ्क्षायांन्त्वेथ यथा सोम्यैकेन मृत्पिण्डेनेति पूर्वप्रकृतो मृत्पिण्डो योग्यत्वात्कर्तृतयान्वेति ।
घटत्वाद्यवस्थारूपो विकारः तत्तदवस्थायोगप्रयुक्तं घटादिनाम च मृत्पिण्डेनैव गृहीतं वाक्पूर्वकव्यवहारायेति फलितम् ।
एवं कारणद्रव्यस्यैव नानावस्थाभाक्त्वेन नानाकार्यात्मकत्वात्कार्याणां कारणानन्यत्वमित्याहमृत्तिकेत्येव सत्यम्इति ।
अत्र सर्वं मृण्मयं विशेष्यम् ।
इतिशब्दः प्रकारवाची ।
सर्वं मृण्मयं मृत्तिकात्वप्रकारेणैव प्रामाणिकम् ।
न तु मृदनात्मकत्वेनेत्यर्थः ।
अनेन काणादाभिमत उपादानोपादेययोरत्यन्तभेदो निरस्तः ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थं प्रवृत्तत्वादस्य वाक्यस्योपादानोपादेययोरनन्यत्व एव तात्पर्यमुक्तदिशा ।
न तु कार्यमात्रस्य मिथ्यात्वे ।
तथा सति सर्वस्य ज्ञातव्यस्याभावादेव सर्वं ज्ञातं स्यादित्यसङ्गतमापद्येत ।
समस्तपदत्वे पराभिमते वागारम्भणमिति भवेत् ।
वाचारम्भणशब्दस्य मिथ्यार्थकत्वं चाप्रसिद्धमेव पराभिमतमिति बोध्यम् ।
तत्सत्यमित्यस्यार्थतोऽनुवादःकूटस्थमित्यादिः ।
उपादानत्वेऽपि ब्रह्मणो निर्विकारत्वं कूटस्थशब्देन विवक्षितम् ।
सत्सत्यम्सततैकरूपम् ।
ननु निर्विकारत्वे कथमुपादानत्वं ? सर्वचिदचिच्छरीरकत्वात्सूक्ष्मचिदचिद्विशिष्टत्वेनोपादानत्वं ब्रह्मण उपपन्नमेव ।
सोऽयं शरीरात्मभावो जगद्ब्रह्मणोःसदायतनाः ऐतदात्म्यमिदं सर्वम्इति निर्दिष्टः ।
नचैवं स्वरूपपरिणामाभावे मृण्मयदृष्टान्तासङ्गतिः, कार्यकारणयोरनन्यत्वमात्रे दृष्टान्तसङ्गतेः ।
ननु चेतनाचेतनप्रपञ्चस्य ब्रह्मानन्यत्वं वा कथं ? ब्रह्मात्मकत्वेन ब्रह्मरूपत्वेनानन्यत्वोपपत्तेः ।
तदिदमेव प्रामाणिकमिति चोच्यते एतदात्म्यमिदं सर्वं तत्सत्यमित्येकवाक्यतयान्वयात् ।
दृष्टान्तवाक्यानुगुणश्चायमेवार्थं इति ध्येयम् ।
परव्याख्याच्छायया तु तद्ब्रह्म सत्यं सदैकरूपमित्यर्थो वर्णितः ।
श्लोकेवाचारम्भणमात्रमित्यस्य वाक्पूर्वव्यवहारायैव निष्पन्नं कार्त्स्न्येनेत्यर्थः ॥२९॥
अनन्यत्कारणात्कार्यं पावकाद्विस्फुलिङ्गवत् ।
मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ॥३०॥
समानप्रकरणेषूपादानोपादेययोरैक्यस्यैव प्रतिपादनाच्च न कार्यस्य मिथ्यात्वं वाचारम्भणश्रुतेरर्थः ।  किन्तु कारणात्मकतैवेति प्रतिबोधयन्नाहअनन्यदिति ।
पापकाद्व्युच्च रितानां विस्फुलिङ्गानामग्न्यंशत्वेनाग्न्यनन्यत्ववद्ब्रह्मण उद्भूतस्य प्रपञ्चस्यापि ब्रह्मांशभूतस्य ब्रह्मानन्यत्वमेव विवक्षितम् ।
इदं चानन्यत्वं मृदादिदृष्टान्तैश्च श्रुतिषु निरूपितमिति यावत् ॥३०॥
नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् ।
न वायुश्चलितुं शक्तः तच्छक्त्याप्यायनादृते ॥३१॥
कार्याणां कारणात्मकत्वे उपत्तिरुक्ता ।
अर्थवादरूपमपि तात्पर्यलिङ्गमस्तीत्याहनाशकदिति ।
केनोपनिषदि प्रसिद्धोऽयमर्थः ॥३१॥
एकप्रधानविज्ञानाद्विज्ञातमखिलं भवेत् ।
इत्यादिवेदवचनतन्मूलाप्तागमैरपि ॥३२॥
ब्रह्मात्मनाऽत्मलाभोऽयं प्रपञ्चश्चिदचिन्मयः ।
इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ॥३३॥
ननुउत तमादेशमप्राक्ष्योयेनाश्रतं श्रुतं भवतीति प्रतिज्ञातमेकविज्ञानेन सर्वविज्ञानं ब्रह्मण एकस्यैव पारमार्थ्ये घटते ।
नतु तद्भिन्नानां बहूनां पारमार्थ्ये ।
तत्प्रपञ्चस्यापारमार्थ्यमकामेनापि स्वीकर्तव्यमिति चेत्तत्राहएकेति ।
ब्रह्मणो निखिलजगदन्तरात्मत्वेन निखिलजगत्प्रधानतया निखिलस्य च तच्छरीरत्वेन तत्प्रकारतैकस्वरूपतया तस्मिन्ज्ञाते तदनन्तर्गतं किमपि ज्ञातव्यं मुख्यं नावशिष्यत इति एकविज्ञानेन सर्वविज्ञावाक्यस्यार्थ इति भावः ।
इत्यादीति ।
निरुक्तार्थपरैः श्रुतिवचनैस्तन्मूलोपबृंहणस्मृतिवचनैश्च ब्रह्मात्मकत्वेन लब्धस्वरूपः प्रपञ्च इत्येव बोध्यते ।
न तु ब्रह्मणो विभूतिभूतः स निषिध्यत इत्यर्थः ।
ब्रह्मात्मनाऽत्मलाभ इति ।
आत्मनो लाभो यस्येति बहुव्रीहिः ।
ब्रह्माभिन्नान्तरात्मना प्रयोज्यस्वरूपलाभवानित्यर्थः ।
ब्रह्मतात्मलाभोऽयमिति समस्तपाठः संभाव्य ।
तत्र च आत्मनो लाभः आत्मलाभःस्वरूपसत्ता ब्रह्मत्मतयाब्रह्मत्मकत्वेन आत्मलाभो यस्येति बहुव्रीहिः ।
ब्रह्माविभूतिभूतस्य प्रपञ्चस्य न निषेधः कृतः शास्त्रेष्विति निरूपितमेतावता ॥३२॥३३॥
तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः ।
व्यवहारास्तु लुप्येरन्तथा स्याद्ब्रह्मधीरपि ॥३४॥
अथ प्रपञ्चनिषेधस्यानुपपन्नत्वादपि निषेधपरतयेवापाततः प्रतिपन्नातां श्रुतिवाक्यानामप्यान्यपर्यमेवैष्टव्यमित्याशयवानाहतन्निषेध इति ।
प्रपञ्चनिषेधे विवक्षिते शास्त्रवचनतः तत्तदर्थविशेषप्रतिपादनोपादानाद्यर्थाः सर्वे व्यवहारा लौकिका वैदिकाश्च लुप्येरनप्रामाणिका विसंवादिनश्च भवेयुः, सर्वस्य मिथ्यात्वादित्यर्थः ।
ननु भेदव्यवहाराणामप्रामाणिकत्वमिष्टमेवेति चेत्तत्राहतथेति ।
ब्रह्मभिन्नसर्वमिथ्यात्वे ब्रह्मविषयकधिय औपनिषद्या अपिविलोपोऽसत्यता प्रसज्यत इत्यर्थः ।
असत्यकारणजन्यत्वादसत्यत्वमसत्यविषयत्वं च भवेत्तस्या इति भावः ॥३४॥
व्यावहारिकसत्यत्वान्मृषात्वेऽप्यविरुद्धता ।
प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ॥३५॥
ननु परमार्थदृष्ट्या ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वेऽपि ततः प्राकविद्यातः प्रमाणप्रमेयव्यवहारादि निरूह्यत इति चेत्तत्राहव्यावहारिकेति ।
एतद्दूषणभागो विलुप्तः ।
व्यावहारिकसत्तया प्रमाणप्रमेयव्यवहारोपपादने व्यावहारिकप्रमाणभावेन श्रुत्यादिना जनिता परब्रह्मबुद्धिरपि भवतभिमता व्यावहारिकार्थमात्रगोचरा भवेत्; निर्विशेषब्रह्ममात्रपारमार्थ्यस्यापि व्यवहारैकशरणत्वात् ।
तथा च ब्रह्ममात्रपारमार्थ्यमपि परमार्थसाधकाभावान्न सिध्येत् ।
एतद्विषये पूर्वाचार्यैः सूरिभिरेव पराक्रान्तं नितरामिति विसम्यतेऽत्रेति बोध्यम् ॥३५॥
अतश्चोपनिषज्जातब्रह्माद्वैतधितधिया जगत् ।
न बाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् ॥३६॥
( इति प्रपञ्चस्य ब्रह्मविभूतित्वस्थापनपूर्वकमद्वितीयश्रुत्यर्थवर्णनं ) अद्वितीयश्रुतेः प्रपञ्चाबाधकत्वनिरूपणं निगमयतिअतश्चेति ।
ब्रह्मणो विभूतित्वाच्च जगद्ब्रह्माद्वैतधिया न बाध्यते ।
सविभूतिकस्यैव तस्याद्वितीयत्वधिय उपनिषत्सिद्धत्वात् ।
चकारोऽबाधितप्रतीतिसिद्धत्वादिहेत्वन्तरसमुच्चायकः ।
यद्वा चस्त्वर्थे ।
समोऽधिको वा बाध्यते ।
न तु जगद्विभूतिभूतमित्यर्थः ॥३६॥
ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ।
असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ॥३७॥
प्रपञ्चस्याद्वितीयश्रुत्या बाध इति परपक्षो निरस्तः ।
अथ तस्य सदसदनिर्वचनीयत्वमपि पराभिमतं निरसितुं विचारमुपक्रमते ननु सत्त्वे इति ।
सत्त्वे प्रपञ्चस्य नास्तीति बाधविषयत्वं कथं घटतेत्याक्षेपो माध्यमिकादीनाम् ।
अत्र प्रतीपक्षः साङ्ख्यादीनाम्असत्त्वेवेति ।
असत्त्वे सद्बुद्धिबोध्यत्वं प्रतिपन्नं तस्य कथं घटेतेति ॥३७॥
सदसत्त्वं तथैकस्य विरुद्धत्वादसम्भवि ।
सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्गमे ॥३८॥
तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ।
सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिपेदिरे ॥३९॥
ननु अस्तिनास्तिबुद्धिबलात्सदसत्त्वं वाच्यमिति जैनाः ।
तत्राहसदसत्त्वम्इति ।
विरुद्धद्वयमसम्भवदेकस्मिन्नोपगमार्हमिति यावत् ।
विचारप्रसक्तिमाहसदसदिति ।
विरुद्धाकारद्वयप्रसङ्गे परस्परविरोधादुभयस्यान्यतरस्याकारस्य वानिर्णयाद्धेतोर्विचारः प्राप्तावसर इति यावत् ।
अत्रविचारः प्रक्रम्यतैति शेषपूरणेन वाक्यार्थो वक्तव्यः ।
तत्रादावनैकान्त्यवादिनां जैनानां मतमाहसदसत्वम्इति ।
प्रतीयमानत्वादेवैकस्मिन्सदसत्त्वयोर्न विरोध इत्यभिमानः ।
यद्वा जैनमतानुवादःसदसत्प्रत्ययप्राप्तेत्यारभ्यजैनास्तु प्रतिजानत इत्यन्तेन ।
सदसत्त्वयोः प्रतीययोर्मध्ये एकस्यैव निर्णये हेत्वभावाद्यथाप्रतीति प्रपञ्चस्योभयमेवैष्टव्यमिति जना आस्थिता इत्यर्थः ।
निश्चयाभावहेतुत इत्यनेन निश्चयहेत्वभावो विवक्षितः ।
पाठान्तरं वा संभाव्यते ॥३८॥३९॥
सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् ।
सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास्तु प्रतिपेदिरे ॥४०॥
एतद्विरोधिसत्त्वेकान्तवादिकापिलमतमाहसत्त्वप्राप्तिम्इति ।
प्रसक्तिपूर्वकत्वान्निषेधस्योपजीव्यत्वात्सत्त्वप्रतीतिः प्रबला ।
तत्सदा सत्त्वमेव प्रपञ्चस्य ।
नास्तीति त्वभिव्यक्त्यभावपरा प्रतीतिरित्येतेषामाशयः ॥४०॥
सदसत्प्रत्यय प्राप्तविरुद्धद्वन्द्वसङ्कटे ।
विरोधपरिहारार्थं सत्त्वासतत्वांशभङ्गतः ।
सदसद्भ्यामनिर्वाच्यं प्रपञ्चं केचिदूचिरे ॥४१॥
मतद्वयप्रत्यनीकं मायावादिनां मतमाहसदसदिति ।
प्रतीतिबलात्सत्त्वासत्त्वरूपविरुद्धधर्मद्वयापत्तिरूपसङ्कटे प्रसक्ते विरुद्धयोरैकाधिकरण्यानुपपत्तिबलात्सत्त्वमसत्त्वं च विरुद्धं धर्मद्वयं परित्यज्य न सत्नाप्यसदिति सदसदनिर्वचनियं प्रपञ्च निर्वचन्ति शाङ्करा इत्यर्थः ॥४१॥
सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ।
घटादेरिति मन्वाना व्यवस्थामपरे जगुः ॥४२॥
नैयायिकादीनां पक्षमाहसदसत्त्वे इति ।
विभागेनेति तृतीयेत्थम्भावे ।
विभक्तदेशकालादिविशेषतः सत्त्वमसत्त्वं च प्रतीतं व्यवस्थितं घटादेर्घटत एवेति भावोऽमीषाम् ॥४२॥
तदेवं वादिसम्मर्दात्संशये समुपस्थिते ।
निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥४३॥
तदेवम्इति ।
वादिसंमर्दात्वादिविवादात् ।
विप्रतिपत्तेरिति यावत् ।
विप्रतिपत्तेः सन्देहोदयात्सन्दिग्धार्थनिर्णयाय विचार उपचिक्रमिषितः ।
तत्र पक्षान्तराणां सदोषत्वप्रतिपादनपूर्वकं सोपाधिकसत्त्वासत्त्वपक्षो मीमांसकाभिमतो निर्णीयते सद्युक्त्येति भावः ।
क्रियत इति वर्तमानव्यपदेशस्तत्सामीप्यात् ।
प्रतिज्ञाचेयं श्रोतृबुद्धिसमाध्यर्था ॥४३॥
घटस्वरूपे नास्तित्वमस्तित्वं यद्यबूबुधत् ।
स्यादेव युगपत्सत्त्वमसत्त्वं च घटादिषु ॥४४॥
इदानीमिदमत्रास्ति नास्तीत्येवंविधा यतः ।
देशकालदशाभेदादस्तिनास्तीति नो धियः ॥४५॥
अतो देशादिभेदेन सदसत्त्वं घटादिषु ।
व्यवस्थितं निरस्तत्वा(स्या)द्वादस्येह न सम्भवः ॥४६॥
तत्र निरुपाधिकसत्त्वासत्त्वसमुच्चयपक्षनिरसनेन सिद्धान्तः समनुवर्ण्यते घटस्वरूपइत्यादिना श्लोकत्रयेण ।
अयमर्थः  घटस्वरूपे नास्तित्वं प्रतीयमानमेव, नास्तीतिप्रतीतिरेवेति यावत्, यद्यस्तित्वमपि तस्य प्रत्यपादयिष्यत्, यद्वा प्रतीतिः सत्त्वमसत्त्वं च निरूपाधि यदि प्रत्यपादयिष्यत्, तर्हि सदसत्त्वसमुच्चयोऽभ्युपागंस्यत ।
नचैवम् ।
किन्तु किञ्चिद्देशकालावस्थादिविशेषेण सत्त्वं, अन्यदेशाद्यौपाधिकमसत्त्वमेव च प्रतिपादयन्ति प्रतीतयः ।
अतो देशादिभेदतः सदसत्त्वे व्यवस्थिते घटादौ ।
तत्वादस्यान्यवादस्य बाधादिदोषदूषितत्वान्न सम्भव इत्यर्थः ।
निरस्तस्याद्वादस्येति पाठः सम्भाव्यते ।
तदायमर्थः  निरस्तस्य व्याघातबाधितस्य स्याद्वादस्य स्यादस्ति, स्यान्नास्तीति जैनानामनैकान्त्यवादस्य न सम्भव इति ।
अत्र च नैयायिकादिमतं, ततः सिद्धान्ते विशेषश्च शतदूषण्यां व्यव्रियत षष्टितमे वादे श्रीमन्निगमान्ताचार्यचरणैः ।
यथा उपाधिभेदादुभयव्यवस्थेति पक्षमदूरविप्रकर्षात्परिगृह्णीमहे ।
उपाधिभेदस्तु स्वात्मना सत्त्वं, अन्यात्मनासत्त्वम् ।
स्वकाले सत्त्वं, अन्यकाले पुनरसत्त्वम् ।
तथा स्वदेशे सत्त्वं, अन्यदेशे पुनरसत्त्वमिति ।
इह तादात्म्यं संसर्गो वा सत्त्वमिति व्यपदिश्यते ।
तद्विरुद्धवेषेण वस्तुन्येवासद्व्यपदेशः ।
षष्ठे तु पक्षे विरुद्धधर्मयोग एव वस्तुन्यसद्व्यवहारहेतुतया व्यपदिश्यते ।
घटो हि घटात्मना सन्पटात्मना पुनरसन्निति निर्दिश्यते ।
सन्नेव स्वदेशकालयोः स्वविरोधिदेशकालयोरसन्निति ।
उपलम्भानुकूलत्वाल्लाघवाच्चेदमेवाद्रियन्ते वृद्धाःइति ।
अत्रायं विवेकः  सत्ता तादात्म्यतदितरसंबन्धान्यतरलक्षणा ।
अयं घटोऽस्तीत्यत्र घटतादात्म्यलक्षणा सत्ता प्रतीयते ।
अत्रेदानीं घटोऽस्तीत्यत्र चैतद्देशकालसंयोगलक्षणा ।
तथा अयं पटो नास्तीत्यत्र पटतादात्म्याभावलक्षणा पटात्मनासत्ता प्रतीयते ।
तत्र तदा घटो नास्तीत्यत्र च तद्देशकालसंयोगाभावलक्षणासत्ता प्रतीयते ।
एवं भावाभावरूपयोः सदसत्त्वयोर्देशादिभेदेनोपपत्तिर्घटादाविति एकः पक्षः ।
अभावोऽपि भावान्तररूप एवेति पक्षान्तरण् ।
यथा घटत्वमेव हि अयं घटोऽस्तीत्यत्र प्रतीतं घटस्य सत्त्वम् ।
तदेवायं पटो नास्तीत्यत्रापि प्रतीयते पटाद्भेदरूपम् ।
एवं स्वदेशकालसंबन्धलक्षणा सत्तैवान्यदेशकालनास्तिताप्रतीतावपि विषयो भवति देशान्तरादिसंबन्धाभावत्वेनेति ।
तथा च धर्मविशेष एव भावानामस्तिनास्तिप्रतीतिगोचर इति सिद्धम् ।
इदमेव सिद्धान्तिनामपि संमतमिति ॥४४॥४५॥४६॥
ननु देशादिसम्बन्धः सत एवोपपद्यते ।
न देशकालसम्बन्धादसतः सत्त्वमिष्यते ॥४७॥
सम्बधो द्व्याश्रयस्तस्मात्सतः सत्त्वं सदा भवेत् ।
असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥४८॥
आद्यन्तवान्प्रपञ्चोऽतः सत्कक्ष्यान्तर्निवेश्यते ।
उक्तं च  आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा इति ।
अतो निश्चितसद्भावः सदा सन्नभ्युयेयताम् ॥४९॥
अविरोधेन सदसत्त्वसमर्थनसमहमानः सत्त्वैकान्त्यवादी कापिलोऽत्र प्रत्यवतिष्ठते ननु देशादीति ।
पूर्वमसतो घटादेः स्वदेशकालसंबन्धेन सत्तोत्पत्त्या दुरुपपादा ।
संबन्धस्य संयोगस्य संबन्धिद्वयजन्यस्यासति संबन्धिन्यतरस्मिन्नपि समुत्पत्तेरयोगात् ।
तथा च स्वदेशकालसंबन्धात्सत्त्वम् ।
सत्त्वे च स्वदेशकालसंबन्ध इत्यन्योन्यसंश्रयः ।
अतः सत्त्वमेव सदा मन्तव्यं भावानामितिसतः सत्त्वं सदा भवेदित्यन्तस्यार्थः ।
ननु सदा सत्त्वे कारकचक्रव्यापारानर्थक्यं प्रसज्येत ।
तत्पूर्वमसत एव कारकव्यापारेणोत्पत्तिर्वाच्येत्यत्राहअसत इति ।
असतः प्रयत्नशतेनापि निष्पत्त्या सत्त्वं दुरुपपादं सिकताभ्यस्तैलस्येव ।
किञ्चासत उत्पत्तौ दण्डचक्रादितोऽसत्त्वाविशेषाद्घटस्येव पटस्याप्युत्पादप्रसङ्गः ।
केनचिदेद्व्यापारेण शशेऽपि शृङ्गस्य कदाचिदुदयप्रसङ्गश्च ।
एतदनुसन्धानेनोक्तमिति ।
ननूपादानविशेषे कार्यविशेषोत्पादनसामर्थ्यप्रतिनियमान्नातिप्रसङ्ग इति चेन्मैवं, कार्यगर्भत्वमन्तरा सामर्थ्यनियमस्यापि दुर्निरूपत्वात् ।
तत्सदेव कार्यं कारकव्यापारेणाभिव्यज्यत इत्येष्टव्यमित्याहआद्यन्तवानिति ।
आविर्भावतिरोभावलक्षणावेव चाद्यन्तौ उत्पादविनाशाविति भावः ।
अत्र संवादःआदाविति ।
अत इति ।
सत्त्वेन निञ्चितः सदा सन्नेवेतीष्यतामित्यर्थः ॥४७॥४८॥४९॥
असतः सर्वदासत्त्वं जन्ययोगात्खपुष्पवत् ।
असत्त्वे न विशेषोऽस्ति प्रागत्यन्तासतोरिह ॥५०॥
( इति प्रपञ्चस्य सत्त्वपक्षसमर्थनं ) असतइति ।
जन्ययोगात् उत्पत्त्ययोगात् ।
प्रागत्यन्तासतोः  पूर्वमसतोत्यन्तास तश्च ।
इति कापिलमतमुपपादितम् ।
अत्रोपपादितस्य कापिलमतस्य प्रतिक्षेपपरः, मतान्तरोपपादनप्रतिक्षेपपरश्च ग्रन्थभागो विलुप्त इत्यूह्यते ।
बुद्धिसौकर्याय साङ्ख्यपक्षप्रतिक्षेपप्रकारो दिड्मात्रं प्रदर्श्यतेऽत्र ।
द्वव्यं तावत्नित्यमेव ।
अवस्थाभेदास्तु घटत्वकपालत्वादय आगन्तुकाः ।
अवस्थाविशेषसम्पत्त्यर्थ एव च कारकव्यापारः ।
द्रव्यस्य सत्त्वादेव कारकव्यापारगोचरत्वमवस्थान्तरभाक्त्वं च घटते ।
अन्वयव्यतिरेकाभ्यां च कारकचक्रस्य तस्य तस्य तत्र तत्र कार्ये सामर्थ्यनियमः सिध्यतीति नातिप्रसङ्गः ।
तत्तदवस्थाविशिष्टवेषेण जातत्वनष्टत्वादिप्रतीतिश्चोपपद्यते ।
कारकचक्रस्याभिव्यञ्जकत्वमिति पक्षे तु कारकज्ञापकविभागायोगः ।
अभिव्यक्तेर्ज्ञानाद्भेदे प्रकारान्तरेणोत्पत्तिरेवापतिता ।
किञ्च अभिव्यक्तेर्नित्यत्वे कारकव्यापारवैयर्थ्यमेव ।
तस्या अपि अभिव्यक्त्यन्तरस्वीकारेऽनवस्था ।
तस्या उत्पाद्यत्वे त्वसत्कार्यवादप्रसङ्गः ।
तदभिव्यक्तेरुत्पत्त्युपगमतो यथोपलम्भं तस्योत्पत्तिरुपगन्तुमुचिता ।
सदेव द्रव्यमवस्थान्तरभाक्सत्कार्यं भवतीत्येव सत्कार्यवादः संरक्षणीयः ।
अयमेव च त्रय्यन्तसिद्धोऽपीति ।
आविद्यो भेदप्रपञ्चो मिथ्या ।
अद्वितीयश्रुत्या च मिथ्यात्वं गम्यते ।
तच्च प्रतीतिबाधाभ्यां सदसद्विलक्षणत्वसिद्धेः सुप्रतिष्ठितमिति हि मायावादिनां मतम् ।
तच्च पूर्वोत्तरप्रघट्टकैः प्रतिक्षिप्तप्रायमेवेतिबोध्यम् ॥५०॥
श्वेतकेतुमुपादाय तत्त्वमित्यपि यच्छ्रुतम् ।
षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ॥५१॥
अथ निर्विशेषचिन्मात्रब्रह्मात्मैक्यज्ञानमेवाविद्यानिवर्तकम् ।
निर्विशेषचिन्मात्रब्रह्मात्मैक्यं चतत्त्वमसिवाक्यप्रतिपन्नमिति वादमद्वैतिनां प्रतिक्षेप्तुं तत्त्वमसिवाक्यार्थविचारमुपक्रमते श्वेतकेतुम्इति ।
उपादायसम्बोध्य ।
छान्दोग्य इत्यादिः ।
जीवब्रह्मैक्ये तत्त्वमसिवाक्यमेव मुख्यं प्रमाणमभिमन्यते तैः ।
अस्यापि समानाधिकरणवाक्यस्य मुख्यार्थत्वं तन्मते न संभवतीत्यहतस्येत्यादिना ॥५१॥
कार्पण्यशोकदुःखार्तश्चेतनस्त्वंपदोदितः ।
सर्वज्ञस्सत्यसङ्कल्पो निस्सीमसुखसागरः ।
तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत्कथम् ॥५२॥
कार्पण्येति ।
कार्पण्यंदैन्यं, गतिशून्यता ।
शोकः गतदुःखानुसन्धानजा चित्तवैयाकुली ।
दुःखं वर्तमानानिष्टानुभवलक्षणम् ।
समानविभक्त्या प्रतिपन्नमैक्यं जीवेश्वरयोर्विरुद्धस्वभावयोर्न घटत इति मुख्यार्थासंभव एवेत्याशयः ॥५२॥
त्वमर्थस्थे तटस्थे वा ..... ( तदेर्थस्थे विभेदके ) ।
गुणे तत्त्वंपदश्रुत्योरैकार्थ्यं दूरवारितम् ॥५३॥
त्वमर्थस्थेइति ।
त्वमर्थनिष्ठो गुणोऽज्ञत्वदुःखित्वादिः ।
तदर्थनिष्ठश्च सर्वज्ञत्वजगत्कारणत्वादिः ।
स च ब्रह्मणस्तटस्थलक्षणत्वेन पराभिमतः ।
अनयोर्धर्मयोराश्रयभेदकत्वात्तत्त्वमर्थयोरैक्यं सुदूरनिरस्तमश्वगर्दभयोरिवेत्यर्थः ॥५३॥
अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके ।
विशेषणे वा चिद्धातोरथवाप्युपलक्षणे ।
विरुद्धगुणसङ्कान्तेर्भेदः स्यात्त्वन्तदर्थयोः ॥५४॥
नन्वज्ञत्वादि सर्वज्ञत्वादि चोपलक्षणतयैवोच्यते, न तु विशेषणतया ।
उभयोपलक्षितं वस्त्वेकमेवेत्यर्थः ।
अतो न विरोध इत्यत्राहअज्ञत्वेति ।
चिद्धातोः  चित्तत्त्वास्य ।
उपलक्षणत्वेऽपि अज्ञत्वादिनोपलक्ष्यस्य  जीवभावस्य सर्वज्ञत्वादिनोपलक्ष्यस्येश्वरभावस्य च वैयधिकरण्यादेव त्वन्तदर्थयोरैक्यं न सिध्यतीत्यर्थः   ॥५४॥
वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ।
सोऽयं गौरिवत्तत्त्वंपदयोरित्यपेशलम् ॥५५॥
ननु विरोधान्मुख्यार्थस्त्यज्यते ।
चिन्मात्रे तु पदद्वयलक्षणोपेयते, यथा सोऽयं रौरित्यत्र तत्तेदन्तोपलक्षिते वस्तुमात्रे लक्षणा पदद्वयस्य तथेति शङ्कते वाच्येति ।
वाच्यैकदेशस्य प्रवृत्तिनिमित्तभेदस्य त्यागेन विशेष्यमात्रे चिन्मात्रे पदद्वयस्य वृत्तिः जहदजहल्लक्षणयेति ।
एतत्प्रतिक्षिपतिइत्यप्यपेशलम्इति ।
अपेशलं  असुन्दरम् ।
एकपदलक्षणयैव विरोधपरिहारे पदद्वयलक्षणाकल्पना न मनोरमेत्यर्थः ॥५५॥
देशकालदशाभेदादेकस्मिन्नपि धर्मिणि ।
विरुद्धद्वन्द्वसङ्कान्तेः सोऽयं गौरिति युज्यते ॥५६॥
दृष्टान्ते पदद्वयस्यापि न लक्षणेत्याहदेशकालेति ।
तत्ता नाम तद्देशकालयोगिता ।
इदन्तैतद्देशकालयोगिता ।
तत्ताविशिष्टे इदन्तान्वयस्य बाधेऽपि एकस्मिन्धर्मिण्युभयान्वये न विरोधः ।  देशद्वयसंबन्धः परिच्छिन्नस्य वस्तुनः कालभेदात्परिह्रियते ।
कालद्वयसम्बन्धस्तु स्थिरत्वादेव निरूह्यते ।
प्रातिपदिकाभ्यां देशद्वयकालद्वयसंबन्धस्य समानविभक्त्या तदाश्रयद्रव्यैक्यस्य च प्रतिपादने न विरोधलेशोऽपि ।
अस्मिन्नेवार्थेसोयमिति वाक्यस्य तात्पर्यम् ।
तन्न पदद्वयलक्षणा दृष्टान्ते इत्यर्थः ॥५६॥
स्वप्रकाशस्य चिद्धातोर्विरुद्धद्वन्द्वसङ्गतौ ।
न व्यवस्थापकं किञ्चिद्देशकालदशादिके ॥५७॥
न त्वेवं भवता वक्तुं शक्यत इत्याहस्वप्रकाशस्येति ।
निर्विशेषे चिन्मात्रे विरुद्धधर्मद्वयसम्बन्धस्याविरोधोपपादकं देशकालावस्थाभेदादौ किञ्चिदपि न घटते ।
स्वयम्प्रकाशस्वरूपत्वादज्ञानमप्यविरोधोपपादकं न शक्यशङ्कतस्मिन्निति भावः ॥५७॥
निर्धूतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि ।
द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ॥५८॥
ब्रह्मण्यविद्यान्वयायोगादेवाविद्याकृतभेददर्शननिरसनार्थत्वं शास्त्रस्य निर्विशेषचिन्मात्र ब्रह्मात्मैक्यविषयत्वं च पराभिमतं न संभवीत्याहनिर्धूतेति ।
द्वन्द्वशब्दो भेदवाच्यत्र ।
अज्ञानेनैव भेदभ्रमो वक्तव्यः ।
न च निर्विशेषे स्वप्रकाशे च तत्प्रसक्तिः ।
तन्निरसनीयस्यासिद्धेस्तन्निरासकत्वाभिमतैक्यज्ञाने शास्त्रतात्पर्यं न कल्पयितुं शक्यम् ।
तन्निरर्थकमापद्येताध्यात्मशास्त्रं तत्त्वमसिमहावाक्यं वेत्यर्थः ।
एतेनाविद्याकृतान्तःकरणभेद एव जीवेश्वरभावकल्पकोपाधिश्चिन्मात्रे इत्यपि परस्तम् ।
अविद्याया एवासम्भवात्तत्रेति बोध्यम् ॥५८॥
एतेन सत्यकामत्वजगत्कारणतादयः ।
मा ... परे ( मायोपाधौ परे )ऽध्यस्ताः शोकमोहदयः पुनः ॥५९॥
अविद्योपाधिके जीवे विनाशे नेति यन्मतम् ।
क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ॥६०॥
चिन्मात्रे ब्रह्मण्यविद्यान्वयानुपपत्तिपर्यालोचनया कैश्चिदद्वैतिभिः कल्पितं मायाविद्योपाधिभेदं तत एवेशेशितव्यभेदं चापरमार्थमुपपाद्यमानं निरस्यतिएतेनेति ।
एतेननिर्धूतत्रिविधभेदे चिन्मात्रे मायाविद्योपाधिभेदासिद्ध्यैव ।
मायोपाधौमायोपहितचिन्मात्रे परेईश्वरे ।
विनाशेनेति ।
तत्त्वमसिवाक्यजन्यैक्यसाक्षात्कारेण मायाविद्योपाधिनाशे तत्कल्पित ईशजीवभावोऽपि निवृत्तो नावतिष्ठत इत्यर्थः ।
प्रागेव दूषितम्इति ।
एतद्दूषणभागो विलुप्तः ।
अपरमार्थत्वेनाभिमतयोस्तयोः कल्पकाभावादसिद्धिरेव ।
स्वतःकल्पनायामात्माश्रयः ।
ब्रह्मण एव तत्कल्पकत्वे ब्रह्मस्वरूपस्य नित्यत्वात्तयोर्नित्यत्वप्रसक्तिः ।
ऐक्यज्ञानेन निवृत्त्युपगमेऽपि तस्य क्षणिकत्वादेव पुनरपि ब्रह्मस्वरूपबलात्तयोः कल्पनाप्रसङ्गः ।
किञ्च मायाया भ्रान्तिजनकत्वे दुःखादिजनकत्वे चाविद्यातो विभागासिद्धिः ।
तस्या यथार्थबुद्धिजनकत्वे क्रीडारसमात्रपरिकरत्वे चापुरुषार्थत्वायोगात्तन्निरसनानुपपत्तिः ।
अनादिभावरूपायास्तस्या ज्ञानमात्रतो निरसनायोगश्चेत्यादि दूषणमनुसन्धेयम् ।
अविद्याया एव बहुसंमतत्वान्मायाविद्योपाधिभेदवादिनोऽमी क्षुद्रा ब्रह्मविदोऽद्वैतिष्विति च बोध्यम् ॥५९॥६०॥
चित्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः ।
पूर्वस्मिन्सर्वसाङ्कर्यं परजीवाविभागतः ॥६१॥
उत्तरस्मिन्नपि तथा विशिष्टमपि चिद्यदि ।
चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः ।
विभिन्नमिव विभ्रान्तं विशिष्टं च ... (मतं तव ) ॥६२॥
उपाधिभेदोपगमासम्भव इत्युक्तम् ।
तदुपगमेन दूषणान्तरं चोच्यते चित्स्वरूपे इति ।
किं चिन्मात्रेमायाविद्याद्युपाधयः संबन्धन्ते, उत विशिष्टे ।
निरंशे चिन्मात्रे मायाविद्यासम्बन्धे तत्प्रयुक्तस्वभावभेदा एकस्मिन्नेव प्रसज्यन्ते इति जीवेश्वरस्वभावसाङ्कर्यप्रसङ्गः ।
विशिष्टे चेत्किं तद्विशेषणं ? मायाविद्या चेति चेदात्माश्रयः, जीवत्वेश्वरत्वे इति चेदन्योन्याश्रयः, अन्यत्तु विशेषणं दुर्वचमेव ।
किञ्च माययाविद्यया वा संवित्स्वरूपस्य च्छेदासम्भवादेकमेव तत्तदुपहितं भवेद्गगनमिव मठान्तवर्तिघटेन मठेन चोपहितम् ।
तथा च हस्तपादाद्यवच्छिन्नसुखदुःखभोग एकस्यैव यथा जीवस्य, तथा तत्तदुपाधिप्रयुक्तैश्वर्यदुःखादिभोग एकस्यैव ब्रह्मणः प्रसज्यत इति जीवपरस्वभावाव्यवस्थितिरेवेत्यर्थः ॥६१॥६२॥
तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ।
न हि दण्डिशिरश्छेदाद्देवदत्तो न हिंसितः ॥६३॥
नन्वौपाधिकप्रदेशभेदोपगमाद्ब्रह्मणि न जीवेशस्वभावसाङ्कर्यमिति चेत्तत्राहतटस्थेति ।
माययाविद्यया वोपहितं तटस्थमित्युच्यते ब्रह्म ।
तन्निष्ठस्य सार्वज्ञ्यादेरज्ञत्वादेश्च दण्डेन कुण्डलेन वोपहिते कादाचित्कदण्डादिविशेषणवत्तया तटस्थशब्दिते देवदत्ते वर्तमानस्य सुखस्य दुःखस्य च देवदत्तात्मनीव ब्रह्मणि सम्बन्धो दुर्वार एवेति भावः ।
तत्रानन्दित्वप्रसङ्गस्य सह्यत्वात्कथञ्चिहुःखित्वस्यासह्यस्य प्रसङ्गे निदर्शनमाहनहीति ।
उपाधिभेदेऽपि विरुद्धसमावेशप्रसङ्गो दुर्वारः ।
वस्तुभेदमन्तरा कल्पितप्रदेशभेदमात्रेण व्यवस्था दुर्घटा ।
तथाच मायाविद्योपाधिभे दकल्पनापार्थेति स्थितम्   ॥६३॥
अचिदंशव्यपोहेन चिदेकपरिशेषता ।
अतस्तत्त्वमसीत्यादेरर्थ इत्यप्यसुन्दरम् ॥६४॥
( इति तत्त्वमसिवाक्यस्य पराभिमतब्रह्मात्मैक्यपरत्वेऽनुपपत्त्युपपादनं ) एतेन मायाविद्योपाधिरूपविशेषणभेदपरित्यागेन विशेष्यीभूतचिन्मात्रैक्यं तत्त्वमसिवाक्यार्थ इत्यपि निरस्तमित्याहअचिदंशेति ।
पदद्वयलक्षणा, ब्रह्मण्येव दोषापत्तिश्चेत्युक्तमेतावता ॥६४॥
अब्रह्मानात्मताभावे प्रत्यक्चित्परिशिष्यते ।
तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् ।
तन्मुख्यवृत्ति तादात्म्यमपि वस्तुद्वयाश्रयम् ॥६५॥
अथ परमते सामानाधिकरण्यार्थस्य तादात्म्यस्याप्यनुपपत्तिमुपपादयतिअब्रह्मेति ।
ब्रह्मभिन्नस्यानात्मत्वे तत्त्वंपदद्वयलक्ष्यार्थ एक प्रत्यक्तत्वं चिन्मात्रमव शिष्यते ।
तत्र च समानाधिकरणवाक्यार्थस्य तादात्म्यस्यनुपपत्तिरित्यर्थः ।
अत्रोत्तरार्धं विलुप्तमित्यूह्यते ।
तच्चएकशेषे तु तादात्म्यं चिन्मात्रे नैव सम्भवेत्इति स्यात् ।
एकशेषे तादात्म्यानुपपत्तिमेव विवृणोतितत्त्वम्इति ।
समानाधिकरणमिति शेषः ।
तस्य मुख्यवृत्तिर्यत्र तत्तन्मुख्यवृत्ति ।
वस्तुद्वयाश्रयम्इति ।
भेदसमानाधिकरणाभेदस्य तादात्म्यस्यात्यन्तायाभेदेऽसम्भव इति भावः ।
अत्र यादवप्रकाशप्रक्रियया भाट्टप्रक्रियया वा निरूप्यते तादात्म्यमिति बोध्यम् ।
सिद्धान्ते तुवस्तुद्वयाश्रयमित्यस्य प्रवृत्तिनिमित्तधर्मभेदवदेकवस्त्वाश्रितमित्यर्थः ।
धर्मद्वारकभेदविशिष्टस्वरूपाभेद एव च तादात्म्यं मतमिति विवेकः ॥६५॥
भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ।
अभेदाभेदिनोऽसत्ये बन्धे सति निरर्थकः ॥६६॥
ननु भेदाभेदस्तादात्म्यमिति न संभवति ।
भेदाभेदयोरभेदेऽत्यन्तभेदेऽपि भेदाभेदस्यासिद्धेः ।
भेदाभेदे वा तत्रापि तथेत्यनवस्थेति चेत्तत्राहभेदाभेदेति ।
अयं विकल्पनप्रकारो नोपलभ्यमानग्रन्थभागेऽस्ति ।
तद्भागो विलुप्तः स्याद्वा ।
भिन्नयोस्तादात्म्यमुताभिन्नयोः ।
आद्ये घटः पट इति प्रसज्यते ।
अन्त्ये घटो घट इतीति वा भेदाभेदविकल्पो बोध्यः ।
अभेदाभेदिनःभेदाभेदिभिन्नस्य, अत्यन्तभिन्नस्यात्यन्ताभिन्नस्य वा बन्धे  तादात्म्यसम्बन्धे असतिअप्रामाणिके सति भवत्कृतोऽयं विकल्पोऽपार्थ इत्यर्थः ।
न हि घटो घट इति वा घटः पट इति वा सामानाधिकरण्यं दृष्टम् ।
किन्तु नीलो घट इत्येव ।
तद्भेदाभेद एव तादात्म्य मेष्टव्यम् ।
भेदाभेदयोर्भेद एव ।
न च भेदे तयोर्विरोधादेकत्र समावेशो न घटत इति वाच्यं, नीलघटयोः प्रतीतत्वादेव तयोर्विरोधाभावात् ।
धर्मतो भेदः स्वरूपतोऽभेद इति वाविरोध इति भावः  ॥६६॥
अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ।
भेदः परस्परानात्म्यं भावानामेवमेतयोः ॥६७॥
स्वरूपमभ्युपेत्यैव भेदाभेदविकल्पयोः ।
भेदाभेदं विकल्पयतः स्वव्याघातोऽपीत्याहअभेद इति श्लोकद्वयेन ।
भेदमर्दीतिइति क्वचित्पाठः ।
तत्र इतिशब्दस्य एवमित्यनेनान्वयः इत्येवमिति ।
भेदमर्दीअत्यन्तभेदनिरासकः ।
एतयोःभेदाभेदयोः स्वरूपं स्वरूपभेदमुपगम्यैव भेदोऽभेदो वेति विकल्पकोट्योर्बाधनं दूषणं क्रियते ।
तेनस्वाभ्युगमेन, वाग्बाधाभवदुक्तदूषणवचनोपरोधः ।
प्रसज्यत इति शेषः ।
त्वं च स्वाभ्युपगमविरुद्धवचनत्वेन निगृह्यस इत्यर्थः   ॥६७॥६८॥
भिन्नाभिन्नत्वसम्बन्धसदसत्त्वविकल्पनम् ।
प्रत्यक्षानुभावापास्तं केवलं कण्ठशोषणम् ॥६९॥
भिन्नाभिन्नत्वेति ।
भिन्नाभिन्नत्वस्य धर्मिणा सम्बन्धोऽस्ति न वा ।
आद्ये तत्सम्बन्धेऽपि सम्बन्धान्तरं वाच्यम् ।
तत्रापि तथेत्यनवस्था ।
अन्त्ये असम्बद्धस्य विशिष्टबुद्धिनिर्वाहकत्वं तस्य न स्यादिति विकल्पनमपि कण्ठशोषणमात्रफलकं प्रत्यक्षानुभवबाधितं चेत्यर्थः ॥६९॥
नीले नीलमतिर्यादृगुत्पले नीलधीर्हि सा ।
नीलमुत्पलमेवेदमिति साक्षाच्चकास्ति नः ॥७०॥
नीलइति ।
नीलरूपवति घटादौ नीलबुद्धिर्यथा नीलसमवायावगाहिनी विदिता नापलप्या, एवं नीलमुत्पलमिति विदिताप्रसिद्धा नीलतादात्म्यमतिरपि नापलप्या ।
स्वपरनिर्वाहकसमाधिना स्वरूपसम्बन्धेन वानवस्था परिहार्येति भावः ॥७०॥
यथा विदितसंयोगसम्बन्धेऽप्यक्षगोचरे ।
भेदाभेदादिदुस्तर्कविकल्पाधानविभ्रमः ॥७१॥
तद्वत्तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके ।
श्रुतिदण्डेन दुस्तर्कविकल्पभ्रमवारणम् ॥७२॥
तादात्म्यसम्बन्धविद्वेषिप्रयुक्तानां दुस्तर्काणां प्रत्यक्षशास्त्रपराहतत्वमेव प्रपञ्चयतियथेति ।
संयोगे भेदाभेदादितुस्तर्को यथाभिन्नयोः संयोग उताभिन्नयोः ।
आद्ये हिमवद्विन्ध्ययोरपि संयोगप्रसङ्गः ।
अन्त्ये स्वेनैव स्वस्य सः ।
संयोगो धर्मिणो भिन्नो न वा ।
भेदे तस्यापि सम्बन्धान्तरं तस्यापि तथेत्यनवस्था ।
अभेदे संयोग एव न सिध्यतीत्यादिः ।
स्फुटप्रतिपन्ने संयोगे दुस्तर्कतन्मूलविकल्पनादि यथा भ्रमलक्षणं कण्ठशोषणमात्रं, प्रत्यक्षपराहतं च ; एवं नीलोत्पलादितादात्म्ये प्रत्यक्षे जीवब्रह्मतादात्म्ये च शास्त्रसिद्धे दुस्तर्कविकल्पनादि प्रत्यक्षशास्त्रदण्डनिवारितमिति भावः ।
श्रुतिदण्डेनेति प्रकृततत्त्वमसिवाक्यार्थाभिप्रायेणोक्तम् ॥७१॥७२॥
निर्देषापौरुषेयी च श्रुतिरत्यर्थमादरात् ।
असकृत्तत्त्वमित्याह तादात्म्यं ब्रह्मजीवायोः ॥७३॥
जीवपरयोस्दात्म्येऽभ्यासरूपं तात्पर्यलिङ्गमप्यस्तीत्याहनिर्देषेति ।
प्रवृत्तिनिमित्तरूपधर्मभेदेन धर्मिस्वरूपाभेदेन च तादात्म्यं तत्त्वमसीत्यादौ त्वमादिशब्दानां तत्तच्छरीरकब्रह्मपर्यन्ततया निरूपणीयं, तदादिपदानां ब्रह्मात्मकपरतया वा ।
यादवप्रकाशादिमते तु जीवब्रह्मस्वरूपगतावेव भेदाभेदाविति विवेकः ॥७३॥
ब्रह्मानन्दह्रदान्तःस्थो मुक्तात्मा सुखमेधते ।
फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता ।
एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥७४॥
( इति परमते सामानाधिकरण्यार्थायोगवर्णनम् ) एतावता परमते प्रातिपदिकयोरिव समानविभक्तेरपि न मुख्यार्थतेति व्यवस्थापितम् ।
यद्यपि अभेदमात्रस्य समानविभक्त्यर्थत्वं सम्भवति ।
तथापि प्रवृत्तिनिमित्तधर्मभेदप्रहाणान्न सामानाधिकरण्यमुख्यार्थता परमत इति बोध्यम् ।
अथ चिन्मात्रपरिशेषेऽपि न युक्तः ।
तथा सति मोक्षस्यापुरुषार्थताप्रसक्तेरित्याहब्रह्मेति ।
एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव ह्रदं इतिवचनानुसारेण ब्रह्मानन्दस्य ह्रदत्वरूपणं, सकलसंसारतापक्लेशहरत्वान्निरतिशयाह्लादकरत्वाच्च तस्य ।
ब्रह्मानन्दं हृदन्तःस्थ इति पूर्वमुद्रितपाठस्तु न समीचीनः ।
मुक्तात्मापरिच्छिन्नब्रह्मानन्दसागरे निमग्नो नित्यप्रवृद्धसुखो वरीवर्तितरामिति शास्त्रमर्यादा ।
परमफले मोक्षे भोक्तृत्वावस्थापन्नस्य स्वस्य विलयं चेज्जानीयान्नाभिलष्येत्तामित्यर्थः ।
एकशेषेनिर्विशेषचिन्मा त्रपरिशेषे, कस्यब्रह्मणो जीवस्य वा मोक्षः फलं ? न ब्रह्मणः, नित्यमुक्तत्वात्, नापि जीवस्य, तस्यैव तदा विलयादिति भावः ।
चिन्मात्रमेव ब्रह्म जीवस्य स्वरूपमिति चेत्तर्हि ब्रह्मण एवाविद्याजीवभावादि वक्तव्यम् ।
तच्च श्रुतियुक्तिपराहतमिति ध्येयम् ।
एवमविद्यापरिकल्पितजीवेश्वरत्वादिविकल्पपरित्यागेन निर्विशेषचिन्मात्रैक्यंन्तत्त्वमसिवाक्यार्थ इत्यत्र दूषणजातं प्रोक्तम् ॥७४॥
किञ्च प्रपञ्चरूपेण को नु संविद्विवर्तते ।
न तावद्घटधीस्तस्यामसत्यामपि दर्शनात् ॥७५॥
न हि तस्यामजातायां नष्टायां वाखिलं जगत् ।
नास्तीति शक्यते  वक्तुमुक्तौ प्रत्यक्षबाधनात् ।
नाप्यन्यसंवित्तन्नाशेऽप्यन्येषामुपलम्भनात् ॥७६॥
अथ प्रपञ्चभ्रमाधिष्ठानस्य तद्भ्रमहेतोश्च स्वरूपविमर्शेनापि परमतेऽसामञ्जस्यमुद्भावयतिकिञ्चेत्यादिना ।
विवर्तते अयथाकारेण भासते ।
दर्शनात् भेदप्रपञ्चस्य दृष्टेः ।
अधिष्ठानमन्तराऽरोप्यप्रतीत्ययोगान्न घटपटादिधियामागमापायिनीनां प्रपञ्चभ्रमाधिष्ठानत्वं सम्भवतीति भावः ।
जगत् भेदप्रपञ्चः ।
तद्भानमिति यावत् ।
नापीति ।
पटज्ञाननाशेऽपि अन्येषां घटादिभेदानामुपलम्भान्न पटज्ञानादेरपि प्रपञ्चाध्यासाधिष्ठानत्वं संभवतीत्यर्थः ।
संविदेव प्रपञ्चभ्रमाधिष्ठानमिति परेषां मतम् ।
तत्र घटपटादिसंविदां नाधिष्ठानत्वं सम्भवतीत्युक्तं भवति ॥७५॥७६॥
ननु संविदभिन्नैका न तस्यामस्ति भेदधीः ।
घटादयो हि भिद्यन्ते न तु सा चित्प्रकाशनात् ॥७७॥
घटधीः पटसंवित्तिसमये नावभाति चेत् ।
नैवं, घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ॥७८॥
घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ।
तद्व्यावृत्तिपदेनापि किं सैवोक्ताथ वेतरत् ।
सैव चेद्भासतेऽन्यच्चेन्न ब्रूमस्तस्य भासनम् ॥७९॥
अत्र परेषामाशङ्काननु इति ।
अखण्डा संविदेका नित्याविभ्वी च ।
घटादीनामेवान्यज्ञानेष्वभासमानानां भेदः ।
संविदस्तु सर्वज्ञानेषु प्रकाशमानत्वादेकत्वमेव ।
तस्यां भेदबुद्धिस्त्वौपाधिकविषया न यथार्थसंवित्स्वरूपभेदविषया ।
सैव प्रपञ्चभ्रमाधिष्ठानं भवति ।
घटबुद्धिः पटज्ञानकाले न भासते, किन्तु पटधीरेवेति चेत्, मैवम् ।
तदा घट एव न भासते ।
ज्ञानं तु भासत एव ।
ननु घटविषयकत्वविशिष्टसंविदः पटज्ञानेऽभानमिति चेत्, मैवम् ।
घटविषयकत्वरूपं घटव्यावृत्तत्त्वमपि संवित्स्वरूपमेव ।
अतः पटज्ञाने तस्य भानमेव ।
घटः परं न भासते ।
तस्यातिरिक्तत्वे तु पटज्ञाने तदभानेऽपि संविदोभानमक्षतमेवेति समुदिताशयः ॥७७॥७८॥७९॥
किञ्चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ।
ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ॥८०॥
ननु संविदिभेदाभावे घटज्ञानमिदं, पटज्ञानं तत्, एकमुत्पन्नमपरं विनष्टमित्याद्यनुपपन्नं भवेदित्यत्राहकिञ्चेति ।
नीरूपायाःनिराकारायाः ।
निर्विशेषाया इति यावत् ।
नानात्वावग्रहभ्रमःनानात्वरूपासदाकारोपहितत्वभ्रमः ।
स्वप्रकाशाया इति हेतुगर्भम् ।
संविन्न नाना स्वप्रकाशत्वात्, यन्नाना तदस्वप्रकाशं यथा घटादीति ।
संविदि नानात्वप्रतीतिरपि विषयभेदौपाधिकी भ्रान्तिरेव ।
न तु वास्तवो भेदस्तस्यामिति भावः ॥८०॥
न वस्तु वस्तुधर्मो  वा न प्रत्यक्षो न लैङ्गिकः ।
घटादिवेद्यभेदोऽपि केवलं भ्रमलक्षणः ॥८१॥
ननूपाधिभेदेनैव भेदोऽपि तत्र वास्तवो भवेत् ।
सांसर्गिकस्य धर्मस्य तत्र तत्रोदयदर्शनादित्यत्राहनेति ।
विषयभेदस्यैवावास्तविकत्वात्तत्प्रयुक्तं संविन्नानात्वमप्यवास्तविकमेवेति भावः ।
भेदस्य चावास्तविकत्वं दुर्निरूपत्वात् ।
तथाहिभेदो न तावद्वस्तुस्वरूपम् ।
प्रतियोगिग्रहापेक्षग्रहस्य भेदस्य तदनपेक्षग्रहस्वरूपत्वायोगात् ।
नापि वस्तुधर्मोऽयम् ।
भेदस्य धर्मिभेदो धर्मान्तरम् ।
तस्यापि स्वधर्मिभेदो धर्मान्तरं, एवमुपर्यपि ।
एवं घटस्य पटभेदो धर्मः, पटभेदभेदोऽपि तथा, एवं तद्भेदोऽपीति चानवस्थाप्रसक्तेः ।
एवं स्वरूपतो दुर्निरूपस्य प्रमाणतोऽपि दुर्निरूपत्वम् ।
यथाप्रत्यक्षं तावन्न भेदग्राहि, क्षणिकस्य तस्य स्वरूपप्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तावस्थानाभावाद्विरम्य व्यापारायोगाच्च ।
युगपदेव त्रितयं गृह्णाति चेत्, समूहालम्बनवदुपश्लेषविशेषासिद्धिः ।
प्रत्यक्षेण भेदग्रहणाभावादेव तन्मूलाविनाभावग्रहाधीनोदयमनुमानमपि न भेदे प्रमाणं भवेदिति हृदयम् ।
ननु तर्हि भेदग्रहः कथं ? तत्राहकेवलं भ्रमलक्षण इति ॥८१॥
यदा, तदा तदायत्तो धीभेदावग्रहोदयः ।
कुतः, कुतस्तरां तस्य परमार्थत्वसम्भवः ॥८२॥
यदेति ।
संविदिनानात्वस्य स्वाभाविकत्वकथा सुदूरे ।
औपाधिकमपि नानात्वं न ।
उपाधिभेदस्याभावात् ।
किन्तु अनाद्यविद्यादोषमूलापरमार्थोपाधिभेदाधीननानात्व भ्रममात्रमित्यर्थः ।
एवं ज्ञाने विषयभेदेन भेदबुद्धिरयथार्थेत्युक्तम् ॥८२॥
किञ्च स्वयंप्रकाशस्य स्वतो वा परतोऽपि वा ।
प्रागभावादिसिद्धिः स्यात्, स्वतस्तावन्न युज्यते ॥८३॥
स्वस्मिन्सति विरुद्धत्वादभावस्यानवस्थितेः ।
स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसम्भवात् ॥
अनन्यगोचरत्वेन चितोन परतोऽपि च ॥८४॥
अथोत्पत्त्यादिप्रतीत्या भेदबुद्धिरपि तत्रायथार्थैवेति निरूपयितुमुत्पत्त्याद्ययोगमाहकिञ्चेति ।
संविदः प्रागभावः प्रध्वंसाभावो वा किं तयैव गृह्यते ? उत संविदन्तरेणेति विकल्प्य प्रथमं कल्प प्रतिक्षिपतिस्वत इति ।
स्वेन सता स्वाभावो गृह्यत ? उतासता ? आद्यन्दूषयतिस्वस्मिन्निति ।
अन्त्यं दूषयतिस्वनिमित्तेति ।
स्वाधीनस्य प्रकाशस्य स्वस्य ग्राहकस्याभावेऽसम्भवादित्यर्थः ।
परत इति कल्पं दूषयतिअनन्येति ।
प्रतियोगिनमुल्लिख्य ह्यभावो ग्राह्यः ।
ज्ञानस्य ज्ञानान्तरगोचरत्वाभावान्न ज्ञानान्तरेणापि तत्प्रागभावग्रहणं सम्भवतीत्यर्थः ।
संविन्नानात्वोपगमेऽपि न तत्प्रागभावग्रहसम्भव इत्यभ्युपगम्य वादः कृतः ।
नत्वद्वैतिनामभिमतं वस्तुतः तन्नानात्वमिति बोध्यम् ॥८३ ॥८४॥
किञ्च वेद्यस्य भेदादेर्न चिद्धर्मत्वसम्भवः ।
रूपादिवत्, अतः संविदद्वितीया स्वयंप्रभा ॥ ८५॥
संविदि नानात्वाभावे प्रमाणमाहकिञ्चेति ।
भेदो न चितो वेद्यत्वाद्रूपादिवदित्यनुमानमत्र विवक्षितम् ।
अत इति ।
भेदस्य दुर्निरूपत्वात्संविद्धर्मत्वासम्भवाच्च साद्वितीयासजातीयविजातीयस्वगतभेदशून्यैव, स्वयम्प्रकाशत्वाच्च तुच्छव्यावृत्तेति भावः ॥८५॥
अतस्तद्भेदमश्रित्य यद्विकल्पादिजल्पितम् ।
तदविद्याविलासोऽयमिति ब्रह्मविदो विदुः ॥८६॥
( इति परकीयसंविदेकत्वव्यवस्थापनानुवादः ) अतइति ।
यतो निर्भेदत्वं संविदः, अतः किं घटसंविदधिष्ठानमाहोस्वित्पट संविदित्यादिविकल्पजल्पनं यत्, सोऽयं संविद्भेदावलम्बी विकल्पादिवादः संवित्स्वरूपयाथात्म्याज्ञानकार्य इत्यद्वैतिनो मन्यन्त इत्यर्थः ॥८६॥
हन्त ब्रह्मोपदेशोऽयं श्रद्दधानेषु शोभते ।
वयमश्रद्दधानाः स्मो ये युक्तिं प्रार्थयामहे  ॥८७॥
अनूदितं परमतं प्रतिक्षेप्तुमुपक्रमते हन्तेति ।
हन्तेति व्यामोहवत्सु परेषु खोदो व्यज्यते ।
श्रद्धामात्रशरणेषु विनेयबुद्धिषु निरूपणासमर्थेषु भवदभिमतोऽयं ब्रह्मोपदेशः शोभते नाम ।
युक्तिविमर्शका वयं तु नात्र भवदीये ब्रह्मोपदेशे श्रद्धालवः ।
अतोऽस्मान्रञ्जयितुं सत्प्रमाणतर्का एवोपादेयाः, न तु शुष्कोपदेशा इति भावः  ॥८७॥
प्रतिप्रमातृविषयं परस्परविलक्षणाः ।
अपरोक्षं प्रकाशन्ते सुखदुखादिवद्धियः ॥८८॥
आदौ तावत्संविन्नानात्वमनुभवसिद्धं नापलापार्हं कूटयुक्तिभिरित्याहप्रतिप्रमात्रिति ।
पुरुषभेदेन, एकस्मिन्नपि पुरुषे विषयभेदेन, एकस्मिन्नेव विषये कालभेदेन करणभेदेन च धियो नाना प्रत्यात्ममध्यक्षसिद्धाः सुखदुःखादिवदित्यर्थः ।
ज्ञाननानात्वापलापे तुल्यनयेन सुखदुःखनानात्वस्याप्यपलापप्रसङ्गः ।
इष्टश्चेदनुभवविरोध इति भावः   ॥८८॥
सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ।
न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च सम्मतः ॥८९॥
ननु यथा निर्भेदेऽप्याकाशे सम्बन्धिव्यङ्ग्यो भेदो घटाकाशोऽयमयं तु मठाकाश इति प्रतीयते, एवं संविद्यपि विषयाश्रयव्यङ्ग्यो भेदो न वास्तव इति चेत्तत्राहसम्बन्धीति ।
यथा भूतलघटसंयोगोऽयं, स तु कुड्यमुसलसंयोग इति सम्बन्धिभेदेनैव व्यावृत्ततया प्रतीयमानः संयोगभेदो वास्तव एव सम्बन्धिजन्यत्वात्तस्य, यथा वा चैत्रस्य घटेच्छा, मैत्रस्य पटेच्छेत्येवं सम्बन्धिभेदेन भिन्नतया प्रतीयमाना भिन्नभिन्नैवेच्छा तत्तत्पुरुषीया तदा तदा जायमाना, एवं विषयाश्रयभेदेन प्रतीयमीनः संविद्भेदोऽपि वास्तविक एव कालादिभेदेन जायमान इति भावः ।
सिद्धान्ते तत्तत्पुरुषे वर्तमानस्य धर्मभुतज्ञानस्यैकत्वे नित्यत्वेऽपि तत्तदर्थप्रकाशनार्थप्रसरणावस्थाभेदविशिष्टवेषेण नानात्वमनित्यत्वं च संमतं, प्रकृतेर्नित्यैकत्वेऽपि तत्परिणामभेदानामिवेत्यवधेयमत्र  ॥८९॥
यदि सर्वगता नित्या संविदेवा(का)भ्युपेयते ।
ततः सर्वं सदा भायात्, न वा किञ्चित्कदाचन ॥९०॥
एवमुपलम्भबलात्संविन्नानात्वं समार्थ्य तदैक्ये बाधकमप्याहयदीत्यादिना ।
नित्यविभुनः प्रकाशकस्यैकस्य ज्ञानस्य सर्वविषयसम्बन्धे समाने सदा सर्वार्थस्य भानप्रसङ्गः ।
प्रकाशकज्ञानसम्बन्धेऽप्यभाने तु कस्यचिदपि कदापि भानं न स्यात् ।
प्रकाशेज्ञानसंबन्धातिरेकिणो हेत्वन्तरस्यासम्भवादित्यर्थः ॥९०॥
तदानीं न हि वेद्यस्य सन्निधीतरकारिता ।
व्यवस्था घटते, वित्तेर्व्योमवद्वैभवाश्रयात् ॥९१॥
तदानीम्इति ।
सन्निधीतरतसन्निधानम् ।
ज्ञानसन्निध्यसन्निधिप्रयुक्तार्ऽथभेदे भानाभानव्यवस्था दुरुपपदा ।
ज्ञानस्य सर्वदा सर्वसम्बद्धत्वाद्गगनवदित्यर्थः ।
सिद्धान्ते तु सङ्कोचविकासाभ्यां ज्ञानस्य विषयभेदे सन्निध्यसन्निधी व्यवस्थिते इति बोध्यम् ॥९१॥
नापि कारणभेदेन, नित्यायास्तदभावतः ।
न च स्वरूपनानात्वात्, तदेकत्वपरिग्रहात् ॥९२॥
एतत्करणजन्यं ज्ञानमेतमेवार्थं गृह्णातीत्येवं करणभेदेनापि व्यवस्था दुर्वचा भवद्भिरित्याहनापीति ।
नित्यत्वे ज्ञानस्य करणासम्भवादिति यावत् ।
अर्थभेदेन ज्ञानभेदोऽपि दुर्वचः संविदद्वैतवादिभिरित्याहन चेति ॥९२॥
ततश्च बधिरान्धादेः शब्दादिग्रहणं भवेत् ।
गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ॥९३॥
( इति संविदैक्यमतदूषणेन संविन्नानात्वोपपादनं ) प्रकाशकसंविदैक्यवादे लौकिकवैदिकमर्यादाभङ्गप्रसङ्गमप्युद्भावयतिततश्चेति ।
ननु प्रकाशकस्य चैतन्यस्यैकत्वेऽपि चक्षुरादिप्रसृतयाऽन्तरकरणवृत्त्या विषयसम्बद्धयाविद्यावरणनिवर्तन एव चैतन्यं तं तमर्थं प्रकाशयतीति व्यवस्था घटत इति चेत्; नैतत्साधु ; वृत्तेर्जडाया अविद्यावरणनिवर्तकत्वायोगात् ।
तथात्वे वा तस्या एवार्थप्रकाशकत्वमपि भवतु ।
किमन्तर्गडुना चैतन्येनेत्यन्यत्र विस्तरः ।
तद्ग्राह्यग्राहकभेदेन ज्ञानभेदो मन्तव्य एवेति भावः ॥९३॥
ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन ।
अतः सर्वं सदा भायादित्यकाण्डेऽनुज्यते ॥९४॥
सर्वस्य सर्वदा भानप्रसङ्गं सिद्धान्तिनोद्भावितमाक्षिपति परःननु  इति ।
संविद्भिन्नस्य सर्वस्य विरहादेवास्मन्मते सर्वं सदा भायादित्य स्थानंऽनुयोगो भवतामित्यर्थः ॥९४॥
इदमाख्याहि भोः किं नु नीलादिर्न प्रकाशते ।
प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥९५॥
प्रतिवक्ति सिद्धान्तीइदम्इति ।
किं नीलादिप्रतीतिरेव नास्तीत्युच्यते, उत नीलादेः संविदभिन्नत्वेन तत्प्रतीतिः संवित्प्रतीतिरेवाभिमन्यत इत्यर्थः ॥९५॥
आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ।
यतः पदपदार्थादि न किञ्चिदवभासते ॥९६॥
आद्यः कल्पो न कल्पत इत्याहआदाविति ।
नानाप्रतीतिनिह्निवे नानापदपदार्थप्रतीतिनिर्वाह्यः सर्वो लौकिको वैदिकश्च व्यवहारः प्रतीतिसुभगःअबाधितानुभवसिद्धः सम्यङ्निर्व्यूढो भवेद्भवद्भिरित्युपालम्भः ।
कथम्इति शेषपूरणेन व्याख्येयम् ॥९६॥
द्वितीये संविदोऽद्वैतं व्याहन्येत समीहितम् ।
यद्ययं विविधाकारप्रपञ्चः संविदात्मकः ।
सापि संवित्तदात्मेति यतो नाना प्रसज्यते ॥९७॥
द्वितीयं दूषयतिद्वितीय इति ।
प्रतीयमाननानाप्रपञ्चैक्ये संविदो नानात्वं प्रसज्यत इत्यभिमततदद्वैतहानिरित्यर्थः ।
एवं वदतोऽपसिद्धान्तश्चेति हार्दम् ॥९७॥
नचाविद्याविलासत्वाद्भेदाभेदानिरूपणा ।
सा हि न्यायानपस्पृष्टा जातुषाभरणायते ॥९८॥
अत्र शङ्कते नचेति ।
नीलादिभिदेति विशेष्यमध्याहार्यमत्र ।
भिन्नत्वेनाभिन्नत्वेन वा निरूपयितुमशक्यत्वं च तस्या अविद्याविलासत्वात्भेदाभेदयोरनिरूपणं यस्या भेदाभेदानिरूपणा ।
आविद्यास्य नीलादिभेदस्य मिथ्यात्वात्मिथ्यार्थे च दुर्घटत्वस्य भूषणत्वाद्भेदाभेदानिरूपणोपपत्तिः ।
उपपत्त्यननुवर्तित्वादेव च सर्वं सदा भायादित्याद्यापत्तेरप्यनवकाश इति हृदयम् ।
परिहरतिसा हीति ।
जतुनो विकारो जातुषम् ।
त्रपुजतुनोः षुक्इत्यण् षुक्च ।
अविद्या हि न्यायानलस्पृष्टा जातुषवन्न जीवितुं प्रभवति ।
तत्तद्विलासत्वं प्रपञ्चस्य न सेत्स्यतितरामित्याशयः ॥९८॥
तथाहि यद्यविद्येयं विद्याभावात्मिकेष्यते ।
निरुपाख्यस्वभावत्वात्सा न किञ्चिन्नियच्छति ॥९९॥
अर्थान्तरमविद्या चेत्साध्वी भेदानिरूपणा ।
अर्थानर्थान्तरत्वादिविकल्पोऽस्या न युज्यते ।
विद्यातोर्ऽथान्तरं चासाविति सुव्याहृतं वचः ॥१००॥
न्यायपराहतत्वमेवाविद्यायाः प्रपञ्चयतितथाहीत्यादिना ।
अत्र विकल्पःकिं विद्याभावोऽविद्या, उत विद्याभिन्नं भावान्तरमिति ।
आद्ये दूषणमाहनिरुपाख्येति ।
निरुपाख्यस्वभावत्वं शून्यस्वरूपत्वम् ।
तथा च स्वयमेवालब्धसत्ताविद्या कथं प्रपञ्चव्यवस्थापिका भवेदित्याकूतम् ।
कल्पान्तरमनूद्यदूषयतिअर्थान्तरम्इति ।
साध्वीउपपत्त्यसहा, भेदानिरूपणाभिन्नत्वेनाभिन्नत्वेन वाशक्यनिरूपणा चाविद्यार्ऽथान्तरं चेदित्यन्वयः ।
अत्र स्ववाग्विरोधमाहअर्थानर्थेति ।
सुव्याहृतमिति विपरीतलाक्षणिकम् ।
अर्थानर्थान्तरत्वादिविकल्पोऽस्या न युज्यतैति वचनंविद्यातोर्ऽथान्तरमसाविति च वचनं मिथो विरुद्धमिति यावत् ॥९९॥१००॥
अथार्थान्तरभावोऽपि तस्यास्ते भ्रान्तिकल्पितः ।
हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ॥१०१॥
अविद्याया अर्थान्तरत्वमपि कल्पितमेवेति चेत्तत्राहअथेति ।
भेदानिरूपणे भवदभिमता विद्यैव स्यादविद्येति भावः ॥१०१॥
किञ्च शुद्धाजडा संवित्, अविद्येयं तु नेदृशी ।
तत्केन हेतुना सेयमन्यैव न निरूप्यते ॥१०२॥
वस्तुतो भिन्नत्वेनैव निरूपणमर्हत्यविद्येत्याहकिञ्चेति ।
तथा च शुद्धाजडसंविदपेक्षया विकारास्पदाशुद्धजडाविद्याया भेद एव परमार्थतः कुतो न निरूप्यत इत्यर्थः ।
तथा च परमार्थाविद्याविलासो भेदः सर्वोऽपि संविद एकस्या एव सकलार्थप्रकाशकत्वे सर्वदा भासेतेति दोषस्तदवस्थ इति भावः ॥१०२॥
अपि चेयमविद्या ते यदभावादिरूपिणी ।
सा विद्या किं नु संवित्तिर्वेद्यं वा वेदिताथवा ॥१०३॥

अविद्याया भिन्नाभिन्नत्वाभ्यामनिर्वचनीयत्वं निरस्य तस्याः स्वरूपानुपपत्तिमप्याहअपिचेयम्इति ।
विद्याभावरूपा विद्याभिन्नरूपा वाविद्यास्तु ।
तत्र प्रतियोगिभूता विद्या किंरूपेति विकल्पनं विमर्शनार्थम् ॥१०३॥
वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ।
न हि ज्ञानादृतेऽज्ञानमन्यतस्ते निवर्तते ॥
संविदेवेति चेत्तस्या ननु भावादसम्भवः ॥१०४॥
तत्र विद्याया वेद्यरूपत्वे वेदितृस्वरूपत्वे वा दोषमाहवेद्यत्वे इति ।
तयोरविद्यानिवर्तकत्वाभावात्तद्रूपाया विद्याया अप्यविद्यानिवर्तकत्वाभावप्रसङ्ग इत्यर्थः ।
ते इत्यस्याग्रे मते इति शेषः ।
संवित्तिरूपत्वे दोषमाहसंविदेवेतीति ।
संविदो नित्यसिद्धत्वात्सर्वगतत्वाच्च तदभावरूपाविद्याया असिद्धिरेवेति भावः ॥ १०४॥
किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः ।
यतोऽखिलं जगद्व्याप्तं विद्ययवाद्वितीयया ॥१०५॥
विद्या संवित्, तद्विरुद्धाविद्येत्यत्र दूषणमाहकिञ्चेयम्इति ।
दिवाकरकरव्याप्ते देशे दिवाकरे वा तद्विरोधिनोऽन्धतमसस्येव विभ्व्या संविदा व्याप्ते सर्वत्र संविदि वा नाविद्यायाः समावेशसम्भव इत्यर्थः ।
विद्याभिन्नाविद्येत्यपि दुर्वचमेवाद्वैतवादिभिरिति सूच्यते अद्वितीययेत्यनेन ॥१०५॥
अभावोऽन्यो विरुद्धो वा संवितोऽपि यदीष्यते ।
तदानीं संविदद्वैतप्रतिज्ञां दूरतस्त्यज ॥१०६॥
( इत्यविद्यायाः स्वरूपानिर्वचनीयत्वानुपपत्तिवर्णनं ) कल्पत्रयेऽपि दूषणमाहअभाव इति ।
संविदभावादिरूपानादिरविद्यास्ति चेत्, संविदेवैकास्तीति भवदभिमतमद्वैतं न सिध्येदिति भावः ।
ननु संविन्मात्रं परमार्थसदिति परमार्थैक्यमेवास्माकमभिमतम् ।
अविद्याया अपरमार्थत्वेन तदनादित्वेऽपि नास्मदभिमताद्वैतोपरोध इति चेदत्र ब्रमःअनादित्वेनोपगम्यमानाया अविद्यायाः कल्पकदोषान्तरायोगेनापारमार्थ्यायोगः ।
ब्रह्मण एव तत्कल्पकदोषत्वे दुर्घटत्वेन हेत्वन्तरानपेक्षत्वे वा मुक्तावपि तत्प्रसङ्गः ।
अनादिभावस्यात्यन्तनाशायोगाज्ज्ञाननिवर्त्यत्वस्याप्ययोग इति दिक् ।
एवमविद्यास्वरूपानुपपत्तिरुक्ता ॥१०६॥
किञ्चासौ कस्य ? जीवस्य, को जीवो यस्य सेति चेत् ।
नन्वेवमसमाधानमन्योन्याश्रयणं भवेत् ॥१०७॥
न ते जीवादविद्या स्यात्, न च जीवस्तया विना ।
न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ॥१०८॥
अथ तस्या आश्रयानुपपत्तिमाहकिञ्चासाविति ।
न विद्यते समाधानं यस्य तदसमाधानं  असमाधेयम् ।
अविद्याकल्पितो जीवभावः, तस्मिन्सिद्ध एवाविद्यासिद्धिरिति जीवाविद्यापक्षे परमतेऽन्योन्याश्रयोऽसमाधेयः प्रसजतीत्यर्थः ।
अस्मन्मतेऽकल्पितत्वाज्जीवस्य तत्राविद्योपगमे न दोषः ।
किन्तु भवतामेवेति द्योत्यते ते इति निर्देशेन ।
जीवादित्यस्याग्रेऽपि विनापदं योज्यम् ।
नर्तेइति वा पाठः सम्भाव्यते ।
बीजाङ्कुर न्यायेन स दोषः परिहार्य इत्यत्राहने ति ।
बीजाङ्कुरप्रवाहे त्वन्यान्यस्य बीजस्याङ्कुरस्य चोत्पाद्योत्पादकभावः ।
नैवं प्रकृते सम्भवति ।
एकजीवस्थानेऽनेकजीवप्रसङ्गाज्जीवानामुत्पादविनाशप्रसङ्गाच्चेतिभावः ॥१०७॥१०८॥
ब्रह्मणश्चेन्न सर्वज्ञं कथं तत्बंभ्रमीति ते(भोः) ।
अविद्याकृतदेहात्मप्रत्ययाधीनता न ते ।
ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ॥१०९॥
नन्वस्तु तर्हि ब्रह्मैवाश्रयोऽविद्यायाः ।
तत्राहब्रह्मण इति ।
सर्वं सर्वदा सर्वथा यथावस्थितं स्वतः साक्षात्कुर्वतस्तस्य नानाविधभ्रान्तिलक्षणाविद्याश्रयत्वं विरुद्धत्वान्न सम्भवतीत्यर्थः ।
ब्रह्म बम्भ्रमीतीति तेऽभिमतं कथं घटते ? तस्य सर्वज्ञत्वेन भ्रमायोगादिति भावः ।
ननु संविन्मात्रं ब्रह्म ।
तस्य सार्वज्ञ्यमप्यविद्याकल्पितं मिथ्याभेदप्रपञ्चसद्भावगोचरं भ्रान्तिलक्षणं मिथ्यैवेत्यत्राहअविद्याकृतेति ।
ते इत्यस्याग्रेऽभिमतेति शेषः ।
अविद्यामूलाहङ्कारनिबन्धनता च ब्रह्मनिष्ठस्य सार्वज्ञ्यस्य  न घटते,परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति तस्यानन्योपाधिकत्वश्रवणादित्यर्थः ।
ब्रह्मणः स्वभावोऽविद्या, तन्मूलत्वात्स्वा भाविकत्वमित्यर्थकरणं तूपहास्यम् ।
स्वभावस्य दुरतिक्रमत्वात्सदा ब्रह्मणोऽज्ञत्वादनिर्मोक्षप्रसङ्गश्च तथासतीति बोध्यम् ॥१०९॥
भेदावभासगर्भत्वादथ सर्वज्ञता मृषा ।
तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ॥११०॥
एवमविद्याकल्पितत्वं निरस्य सार्वज्ञ्यस्य भेदावभासगर्भत्वादयथार्थत्वमित्यपि निरस्य तिभेदेति ।
अथशब्दो यद्यर्थकः ।
तत एवभेदावभासगर्भत्वादेव ।
अमृषा यथार्थविषया ।
पूर्वोत्तरार्धाभ्यां पूर्वोत्तरपक्षप्रतिपादनम् ।
भेदस्य मिथ्यात्वमेवासिद्धम् ।
येन तदवभासकस्यायथार्थत्वं मिध्येदित्याशयः ॥११०॥
यथा शब्दान्तराभ्याससङ्ख्यादायाः शास्त्रभेदकाः ।
भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् ॥१११॥
शब्दान्तरादिवदित्युक्तमेव विवृणोतियथेति ।
पूर्वमीमांसायां शब्दान्तराभ्याससङ्ख्यासंज्ञागुणप्रकरणान्तरैः कर्मभेदो निरूप्यते ।
ते शब्दान्तरादयः शास्त्रभेदकाःतत्तद्विधिवाक्यस्य विभिन्नविभिन्नविधेयकत्वेन भेदव्यवस्थापकाः भेदकप्रमाणभूतास्तान्त्रिकैर्मताः, तन्मूला विधेयभेदप्रत्ययाश्च यथार्था एव यथा ; तथा सर्वज्ञतापि पारमार्थिकार्थभेदगोचरा यथार्थैव किं न स्यादित्यर्थः ॥१११॥
सर्वज्ञे नित्यमुक्तेऽपि यद्यज्ञानस्य सम्भवः ।
तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ॥११२॥
परब्रह्मणि परमेश्वरे स्वतः सर्वज्ञेऽविद्याया असम्भव उक्तः ।
तत्र तदुपगमे बाधकं चाहसर्वज्ञ इति ।
नित्यमुक्तस्वभावत्वात्सर्वज्ञत्वाच्च बन्धकाविद्याप्रतिभटे सर्वेश्वर एव यद्यविद्या विन्देत पदं गभस्तिमालिनीवान्धतमसं तर्हि न तस्या निवर्तकमन्यत्किञ्चिदपि सम्भवेदित्यनिवृत्तिप्रसङ्ग इत्यर्थः ।
ननु तत्त्वमसीतिवाक्यजन्यापरोक्षचिन्मात्रब्रह्मात्मैक्यसाक्षात्कारेणैवाविद्यानिवृत्तिरिति चेत्, नैतत्साधु, वाक्यस्यापरोक्षजनकत्वाभावात्, शुकादेः साक्षात्कारेणैवाविद्यानिवृत्तेः संसारोपलम्भविरोधात्, एकजीववादस्य च निराकरिष्यमाणत्वात् ।
किञ्च ब्रह्म स्वाविद्यया बम्भ्रमीति, जीवः स्वविद्यया तदुन्मोचयतीति विपरीतमिदमध्यात्मदर्शनं वेदान्तिविख्यातानाम् ।
स्वरूपव्याक्रियैवैतन्मतस्य पराक्रिया ।
तथा चामनन्ति स्म पराशरभट्टपादाःएतद्रामास्त्रं दलयतु कलिब्रह्ममीमांसकांश्च ज्ञप्तिर्ब्रह्मैतज्जवलदपि निजाविद्यया बम्भ्रमीति ।
तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो यद्यद्दृश्यं तद्वितथमिति ये ज्ञापयाञ्चक्रुरज्ञाः ॥
इति ॥११२॥
प्रमाणत्वमद्वैतवचसामिति ।
नियामकं न पश्यामो निर्बन्धात्तावकादृते ॥११३॥
ननु भेदकप्रमाणानां सर्वज्ञत्वादिवचनानामपि व्यावहारिकार्थभेदगोचराणां व्यावहारिकमेव प्रमाण्यम् ।
परमार्थप्रमाणत्वं त्वद्वैतवचसामेव ।
परमार्थस्तु परं ब्रह्म निर्विशेषसच्चिन्मात्रमेव ।
तत्र जीवेश्वरादिभेदोऽप्यविद्यया विनानुपपन्न इति ब्रह्माश्रितैव सानायत्या मन्तव्येति शङ्कते सर्वज्ञत्वादीति ।
एतद्दूषयतिनियामकम्इति ।
त्वत्कल्पितसङ्केतबलेन विना नैवंविधव्यवस्थायां किञ्चन प्रमाणमस्ति ।
शास्त्रं तु न त्वदुक्तार्थे प्रमाणम् ।
तथाहिद्वैताद्वैतश्रुत्योः प्रकारनानात्वप्रकार्येकत्वपरत्वान्नन्यतरस्यापि मिथ्यार्थकत्वम् ।
सामानाधिकरण्यश्रुतीनां च सर्वशरीरकसर्वात्मभूतब्रह्मैक्यपरत्वमिति न जीवभावादिकल्पिकाविद्या ब्रह्मण्युपगन्तव्येति च हार्दम् ।
विस्तृतं चैतदाकरादाविति विरम्यते ॥११३॥
आश्रयप्रतियोगित्वे परस्परविरोधिनी ।
कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ॥१४॥
प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् ।
रूपभेदः कुतस्त्योऽयं यद्यविद्याप्रसादजः ।
ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः ॥११५॥
ब्रह्मणोऽविद्याश्रयत्वे दूषणान्तरं चाहआश्रयेति ।
प्रतियोगित्वमत्र विषयत्वरूपम् ।
कर्तृकर्मभावविरोधो युगपदेकत्रैकस्याभिप्रेतः ।
परस्परविरोधिनीति ।
सदिति सत्तामात्रमेकरसं स्वप्रकाशरूपं ब्रह्म कथं स्वविषयकाविद्यायतनं भवेदाकारभेदाभावादिति भावः ।
आकारभेदेनाविरोधमाशङ्कते प्रत्यक्त्वेनेति ।
सन्मात्रमेव ब्रह्म स्वप्रकाशत्वरूपेणाहन्त्वरूपेण वा प्रत्यक्त्वेनाश्रयोऽविद्यायाः, ब्रह्मत्वेन विषय इति चेदयं रूपभेदः कथमायातस्तत्र ? यद्यविद्यया, अन्योन्याश्रयप्रसङ्गः ।
स्वाभाविकोऽयमिति तु न वक्तुं शक्यते सविशेषत्वभिया परैरिति भावः जीवाविद्यापक्ष इवात्राप्यन्योन्याश्र इति पुनरित्यनेन द्योत्यते   ॥११४॥११५॥
अवस्तुत्वादविद्यायाः .....(नेदं तद्दूषणं यदि) ।
वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥११६॥
अत्र शङ्कते अवस्तुत्वादिति ।
अपरमार्थाविद्याया दुर्घटत्वं भूषणमेव ।
नातोऽन्यान्याश्रयणं दोषरूपमिति पूर्वोर्धेन शङ्कानुवादः ।
परिहरतिवस्तुन इति ।
व्यावहारिक एव प्रपञ्चेऽन्योन्याश्रयादिर्देषस्तत्र तत्र कथ्यते ।
न तु परमार्थे ।
तस्य व्यवहारागोचरत्वोपगमात् ।
तथा चाविद्यायामपि स दोषो भवेदेवेत्यर्थः ॥११६॥
ससा.....उक्तारा ( स्वसाध्यस्य पुरस्कारा ) द्दोषोऽन्योन्यसमाश्रयः ।
न वस्तुत्वादवस्तुत्वादित्यतो नेदमुत्तरम् ॥११७॥
ससाइति ।
अत्राशुद्धिर्ग्रन्थपातश्च वर्तते ।
वस्तुत्वमवस्तुत्वं वाप्रयोजकम् ।
स्वसाध्यस्यस्वाधीनसिद्धिकस्यार्थस्य स्वसिद्धौ हेतूकारादन्योन्याश्रयो दोषः प्रसज्यते ।
अतोऽवस्तुत्वादित्युत्तरं न समीचीनमित्यर्थः ॥११७॥
किञ्चाविद्या न चेत्... (वस्तु व्यवहार्यं कथं भवेत्) ।
नाप्यवस्त्विति चो....... (क्तौ तु वस्तुत्वं सिध्यति ध्रुवं ) ।
समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते ।
प्रतिप्रसूतं व्यस्तेन पुनस्तदिति वस्तुता ॥१२०॥
अतो न वस्तु ना... (वस्तु न सद्वाच्यं न चाप्यसत्) ।
( इत्यविद्याया आश्रयानुपपत्तिनिरूपणं ) किञ्चेति ।
अत्र कतिपये श्लोकावलुप्तभूयोंऽशका उपलभ्यन्तेऽशुद्धिबहुलाश्च ।
दृश्यमानशकलानुसन्धानतः अविद्याया न वस्तुत्वं नाप्यवस्तुत्वमिति पक्षस्य प्रतिक्षेपः कृतोऽत्रेत्युन्नयामः ।
यथामति पूरितं शोधितं चास्माभिर्मूल एव (  ) चिह्नमध्ये प्रदर्शितमित्यनुसन्धेयम् ॥११८॥११९॥१२०॥१२१॥
किञ्च प्रपञ्चनिर्वाहजननी येयमाश्रिता ।
अविद्या सा किमेकैव नैका वा तदिदं वद ॥
तदाश्रयश्च संसारी तथैको नैक एव वा ॥१२२॥
ब्रह्मणोऽविद्याश्रयत्वेऽनुपपत्तिमुक्त्वा जीवाविद्यापक्ष एव दूषणान्तरमाहकिञ्चेत्यादिना ।
अविद्या एका, उताहो अनेका, तदाश्रयो जावोऽप्येकोऽनेको वेति विकल्पः   ॥१२२॥
सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया ।
पूर्वमेव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ॥१२३॥
( इत्यविद्याया एकानेकत्वविकल्प एकाविद्यापक्षदूषणं च ) तत्रैकाविद्यापक्षे दूषणमाहसा चेदिति ।
शुको मुक्तो, वामदेवो मुक्त इति खलु श्रौतीप्रसिद्धिः ।
तथा च शुकस्य ब्रह्मविद्ययैव प्रपञ्चहेतुरेकाविद्या विनष्टेति प्रपञ्चानुवृत्तिरनुपपन्ना ।
बाधितानुवृत्तिपक्षेऽपि भवादृशानामर्वाचीनानां पुनर्मुक्त्यर्थतत्त्वज्ञानसम्पादनायासो विफल एव ।
बाधितं हि स्वयमेव निवर्त्स्यति कञ्चित्कालमनुवर्तमानमपीति भावः ॥१२३॥
स्यान्मतं नैव ते सन्ति वामदेवशुकादयः ।
यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ॥१२४॥
मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ।
दृश्यत्वान्मामकस्वप्नदृश्यभेदप्रपञ्चवत् ॥१२५॥
यत्पुनर्ब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ।
वाक्यं तत्स्वाप्नमुक्त्युक्तियुक्त्या प्रत्यूह(ह्य)तामिति ॥१२६॥
( इत्येकाविद्याकल्पितैकजीववादानुवादः ) अत्रैकजीववादेन परः प्रत्यवतिष्ठते स्यान्मतम्इति ।
एक एव तु जीवः ।
स एव स्वाप्नवत्प्रपञ्चं पश्यति ।
स्वप्नदृश्यपुरुषतुल्याः शुकादयः ।
तन्मुक्तिवचनमपि स्वाप्नदेवदत्तमुक्तिवचनतुल्यमप्रमाणमेव ।
तस्य तत्त्वसाक्षात्कारत एवाविद्यानिवृत्तिर्भवितेति समुदिताशयः ।
अहमेवोक्तो जीवो मूलाविद्याकल्पितः ।
मदीयतूलाविद्याकल्पितास्त्वन्ये जीवाः ।
मुक्तामुक्तादिभेदोऽप्येवम्भूत एवेतिमदविद्ययेत्यनेनाभिप्रेतम् ।
प्रत्यूहतामिति पाठे तद्वचनं कर्म, स्वाप्नमुक्त्युक्तियुक्तिबलेन सिद्धं प्रत्यनुमानं प्रत्यूहतां बाधतामित्यर्थः ।
प्रत्यूह्यतामिति पाठः सम्भाव्यते ।
तत्र च तद्वचनं निरुक्तयुक्त्या प्रतिरुध्यतामित्यर्थः ।
स्वाप्नमित्युक्तियुक्ता इति प्राचीनमुद्रितपाठस्तु न शुद्धः ॥१२४॥१२५॥१२६॥
नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ।
प्रपञ्चं साधयत्य(न्न)न्यः कथं प्रत्युच्यते त्वया ॥१२७॥
त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ।
स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ॥१२८॥
प्रतिक्षिपति वादमेनंनन्वीदृशेति ।
स्वाविद्यापरिकल्पितत्वं तव प्रपञ्चस्य च साधयन्नन्यस्तुल्यनयेन त्वया कथं प्रतिक्षेप्य इत्यर्थः ।
तदीयानुमानस्याप्रयोजकत्वं चेत्तुल्यं तत्त्वदनुमानेऽपीति भावः ।
सर्वज्ञसिद्धिवदिति ।
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
उभौ च यदि सर्वज्ञौ बुद्धिभेदः कथं तयोः ॥
इति न्यायेन परस्परविरोधादुभयमपि परमार्थतो न सिध्यतीति यावत् ।
यद्वा सर्वेषां ज्ञाना जीवानामैक्यस्य सिद्धिरिवान्यस्य सर्वस्यैकाविद्याकल्पितत्वस्यापि सिद्धिर्न सेत्स्यति ।
साधकत्वाभिमतस्याभासत्वादिति भावः ॥१२७ ॥१२८॥
इत्यन्योन्यविरुद्धोक्तिव्याहते भवतां मते ।
मुखमस्तीति यत्किञ्चित्प्रलपन्निव लक्ष्यसे ॥१२९॥
परिहसति परमतंइत्यन्योन्येति ।
त्वमन्यान्बाधसे त्वदीयान्, त्वां चान्ये त्वदीया एवेति सुन्दोपसुन्दन्यायपराहतं युष्मन्मतमिति भावः ॥१२९॥
यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिगीः ।
तथैव भवतोऽपीति व्यर्थो मोक्षाय ते श्रमः ॥१३०॥
प्रकारान्तरेणापि वादेऽस्मिन्दूषणमाहयथेति ।
तद्विमुक्तिगीः  शुकादेर्मुक्तिवाणी ।
शुकादिभिरप्यनधिगता मुक्तिर्युष्याभिः प्राप्येत्यसम्भवम् ।
स्वाप्नकल्पैव सा भवन्त्यपि ।
तद्वृथा प्रयासो युष्माकमित्यर्थः ॥१३०॥
यथा तेषामभूतैव पुरस्तादात्मविद्यया ।
मुक्तिर्भूतोच्यते तद्वत्परस्तादात्मविद्यया ॥१३१॥
अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ।
सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥१३२॥
मुक्त्यर्थप्रयासं परित्यज्य मुक्तिर्न भवितेत्येव साधयतेत्याहयथेति ।
यथाध्यात्मविद्यया शुकादीनां भूतैव मुक्तिरभूतेत्युच्यते, तथा भवतां ततः पश्चाद्भाविन्यपि सा मिथ्या, न भाविन्येव वस्तुत इत्युच्यतामित्यर्थः ।
सामर्थ्याभाविनीतिप्राचीनमुद्रितपाठस्तु न समन्वितः ।
ननु मदीयतत्त्वज्ञाननिष्पद्यमानमुक्तिमिथ्यात्वं कथमित्यत्राहसन्तीति ।
भवदीयं तत्त्वज्ञानं नाविद्यानिवर्तकं तत्त्वज्ञानत्वात्, स्वाप्नतत्त्वज्ञानवदिति हि सुवचं भवदुपदर्शितदिशैवेति भावः ॥१३१॥१३२॥
ननु नेदमनिष्टं मे यन्मुक्तिर्न भविष्यति ।
आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ॥१३३॥
मुक्तेरभावित्वप्रसङ्गोऽस्माकमिष्ट एवेति शङ्कते ननु नेदम्इति ।
सामुक्तिः ॥१३३॥
तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ।
येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥१३४॥
परिहासमुखेन परिहरतितदिदम्इति ।
भवत्प्रवृत्तिविरुद्धं भवदीयं मुक्त्यभावित्वसाधनमिति भावः ॥१३४॥
अविद्याप्रतिबद्धत्वादथ सा नित्यसत्यपि ।
असतीवेति तद्व्यक्तिर्विद्याफलमुपेयते ॥१३५॥
हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ।
यथा तदेव हस्तस्थमवगम्योपशाम्यति ॥१३६॥
तथैव नित्यसिद्धात्मस्वरूपानवबोधतः ।
संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ॥१३७॥
अत्र परिहारं शङ्कते परःअविद्येति ।
अयं भावः  यद्यपि मुक्तिर्नित्यसिद्धा ब्रह्मविद्यया नोत्पाद्या, अथाप्यविद्याप्रतिबद्धायास्तिरोभूतायास्तस्या अभिव्यक्त्यर्थ एव सफले ब्रह्मविद्यापरिश्रमः, सत एवाप्रकाशमानत्वेनासत इव स्थितस्याभिव्यक्त्यर्थः प्रयत्नो यथा लोके सफलो दृष्टस्तथेति ॥ १३५॥१३६॥१३७॥
हन्त केयमभिव्यक्तिर्या विद्याफलमिष्यते ।
स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ॥१३८॥
संवित्किं सैव किं वाहं ब्रह्मास्मीतीति कीदृशी ।
यदि स्वरूपसंवित्सा, नित्यैवेति न तत्फलम् ॥१३९॥
अत्र यद्यप्येकाविद्यापक्षे शुकस्य ब्रह्मविद्ययैवाविद्याप्रतिबन्धनिवृत्तेरन्यदीयप्रयत्नवैफल्यं स्थितम् ।
अथापि दूषणान्तरमाहहन्तेत्यादिना ।
नानाविद्यापक्षसाधारणमिदम् ।
किमितरानपेक्षप्रकाशैकरूपस्य चित्तत्त्वस्य स्वरूपमेव विद्यासाध्याभिनिष्पत्तिः, प्रत्युताहं ब्रह्मास्मीति वृत्तिधीः साक्षात्काररूपेत्यर्थः ।
ब्रह्मास्मीतीत्यस्याग्रे वृत्तिधीरित्याहार्यम् ।
इति कीदृशीइत्येवं जिज्ञासितप्रकाराब्रह्मास्मीतीति वृत्तिधीरिति वा पाठः स्यात् ।
अपर इतिकारो विकल्पसमाप्तौ ।
आद्ये कल्पे दूषणमुच्यते यदीत्यर्धेन  ॥१३८॥१३९॥
अथ ब्रह्माहमस्मीति संवित्तिर्व्यक्तिरिष्यते ।
ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥१४०॥
द्वितीये दूषणमुच्यते अथेति ।
संवित्तिः  साक्षात्कारः ।
न हि ब्रह्मविद्यासाध्यं प्रकाशान्तरं मुक्तौ भवतेष्यते ।
तत्सैव तस्याः फलमिति वक्तव्यम् ।
तन्न संभवीति भावः ॥१४०॥
किञ्च सा तत्त्वमस्यादिवाक्यजन्या भवन्मते ।
उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ॥१४१॥
अत्र कल्पे दूषणान्तरं चाहकिञ्चेति ।
नित्यशुद्धबुद्धमुक्तात्मस्वभावस्याभिव्यक्तिर्वृत्तिरूपा चेत्तस्या उत्पादविनाशयोगित्वात्तन्निवृत्तौ पुनरविद्या समुन्मिषेदिति संसृतिभयानतिवृत्तिप्रसङ्ग इत्यर्थः ।
ननु पूर्वाविद्यां विनाश्य विद्या स्वयमपि नश्यति ।
अविद्यानिवृत्त्या च न पुनर्भवप्रसङ्ग इति चेत्; अत्र ब्रूमः  अनादिभावस्य नाशायोगात्तत्त्वसाक्षात्कारेणाविद्याया नात्यन्तिकोच्छेदः शक्यक्रियः ।
सावशेषोच्छेदे तु सूक्ष्मरूपेणावस्थितायास्तस्या अभिव्यक्तेर्निवृत्तौ पुनः स्थूलतयोन्मेषप्रसङ्गः ।
न चानादिभावरूपाया अपि मिथ्यात्वादेव आत्यन्तिकोच्छेदः क्रियते विद्ययेति वाच्यं, तन्मिथ्यात्व एव विगानात्; युक्तेराभासत्वाच्छास्त्रस्य चान्यपर्यायादिति दिकू ॥१४१॥
अपि च व्यवहारज्ञाः सति पुष्कलकारणे ।
कार्यं न जायते येन तमाहुः प्रतिबन्धकम् ॥१४२॥
इह किं तद्यदुत्पत्तुमुपक्रान्तं स्वहेतुतः ।
अविद्याप्रतिबद्धत्वादुत्पत्तिं न प्रपद्यते ॥१४३॥
न मुक्तिर्नित्यसिद्धत्वात्, न ब्रह्मास्मीतिधीरपि ।
न हि ब्रह्माय(ह)मस्मीति संवित्पुष्कलकारणम् ।
संसारिणस्तदास्तीति कथं सा प्रतिबध्यते ॥१४४॥
यतः सा कारणाभावादिदानीं नोपजायते ।
न पुनः प्रतिबद्धत्वादस्थाने तेन तद्वचः ॥१४५॥
( इत्येकजीववादे मुक्त्यर्थप्रवृत्तिवैयर्थ्यादिनिरूपणं ) अथाविद्यायाः नित्यमुक्तभावव्यक्तिप्रतिबन्धकत्ववचनमपि परेषामनुपपन्नमित्याहअपिचेति ।
सति पुष्कलकारणे कार्योत्पत्तेर्विघटकत्वं हि प्रतिबन्धकत्वम् ।
मुक्तेरनिष्पाद्यत्वात्तत्प्रतिबन्धकत्वमविद्याया न घटते ।
संसारिणश्च विषयप्रावण्यदसायां तत्त्वसाक्षात्कारपुष्कलकारणसम्पत्तेतेवासिद्ध्या तदनुदय इति न तत्रापि प्रतिबन्धकत्वं तस्या घटत इत्यर्थः ।
संविदः पुष्कलकारणमिति तत्पुरुषः ।
सिद्धान्ते तु विद्याप्रागभावरूपाया अविद्याया न विद्याप्रतिबन्धकत्वम् ।
कर्मणस्तु विद्यानुत्पत्तिप्रयोजकस्य निष्कामकर्मभिर्निरासे स्वकारणाद्विद्यानिष्पत्तिः ।
विद्यामाहात्म्याच्च बन्धककर्मनिवृत्तौ कर्मणा सङ्कुचितप्रसरणस्य स्वाभाविकमसङ्कुचितं प्रसरणं धर्मभूतज्ञानस्य सदा मुक्ताविति विशेषो बोध्यः ।
अत्र परे प्रत्यवतिष्ठेरन् नन्वस्मन्मतेऽपि वस्तुतत्त्वाविशदप्रकाशकरी नानाभ्रमहेतुरविद्यानादिरिष्यते ।
विद्यया तन्निवृत्तौ च स्वाभाविको विशदावभासः ।
विशदप्रकाशप्रतिरोधकरत्वादेव च प्रतिबन्धकत्ववाचोयुक्तिस्तस्या इति ।
तान्प्रति ब्रूमःविशदप्रकाशप्रतिरोधकत्वं किन्तदुत्पत्तिनिरोधकत्वं, उताहो तन्निवृत्तिकरत्वम् ।
ब्रह्मस्वरूपभिन्नत्वे विशदप्रकाशस्य ब्रह्मणः सविशेषत्वप्रसङ्गात्तदभिन्नत्वे वाच्येऽनुत्पाद्यत्वादेव तस्य तत्प्रतिरोधकत्वायोगान्नाद्यः कल्पः ।
द्वितीये च ब्रह्मस्वरूपस्यैव निवृत्तिप्रसङ्गः ।
वैशद्यमेव निवर्तते, प्रकाशस्त्वनुवर्तत इति च निर्विशेषवादिना वक्तुं न शक्यते ।
किञ्च विशदप्रकाशप्रतिरोधिकायां सत्यामविद्यायां कथं साक्षात्कारो भवेत्? सोऽप्यविशदश्चेत्प्राथमिकश्रावणज्ञानस्येवाविद्यानिवर्तकत्वायोगः ।
किञ्चाविद्यानिवृत्तौ विशदसाक्षात्कारः, तेनैव चाविद्यानिवृत्तिरित्यन्योन्याश्रयः ।
किञ्चाविद्यानिवृत्त्यनन्तरबाविनो विशदानुभवस्य प्रागसत्त्वे मुक्तेरनित्यत्वं, सत्त्वे च संसारानुपपत्तिः संसारानुपपत्तिः प्रसज्यते ।
नच निवृत्ताविद्यत्वमेव स्वरूपप्रकाशस्य स्वरूपप्रकाशस्य वैशद्यमिति वाच्यं, स्वप्रकाशमात्रवपुषि सदा विद्योतमाने निर्विशेषे चिन्मात्रे ब्रह्मणि अविद्यान्वयायोगात्प्रगपि वैशद्यस्यैवोपगन्तव्यत्वात् ।
दुर्घटत्वात्तत्र पदमञ्चत्यविद्येति चेत्तर्हि तत एव मुक्तावप्यविद्यान्वयप्रसक्तिरिति मुक्तस्यापि भयं भवेदेवेति ॥१४२॥१४३॥१४४॥१४५॥
किञ्चैको जीव इत्येतद्वस्तुस्थित्या न युज्यते ।
अविद्यातत्समाश्लेषजीवत्वादी मृषा हि ते ॥१४६॥
एकजीववादे दूषणान्युक्तानि ।
अथ तस्योपलम्भबाधितत्वमाहकिञ्चैक इति ।
एको वा जीवः परमार्थोनेष्यते ।
मिथ्याविद्याकल्पितत्वेन जीवभावस्य मिथ्यात्वात् ।
तथा च मिथ्याभूतस्यैकस्यानेकस्य वा जीवस्योपगमे न विशेषो विनाभिनिवेशादित्यर्थः ॥१४६॥
प्रातिभासिकमेकत्वं प्रतिभासपराहतम् ।
यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥१४७॥
एको जीव इति किमेकस्यैव प्रतिभासादुपगम्यते, आहोस्विन्नानात्वेन भासमानस्यापि तस्य युक्त्यैकत्वं निष्कृष्यत इति विकल्पमभिप्रेत्याद्यं कल्पं दूषयतिप्रादिभासिकम्इति ।
स्पष्टोर्ऽथः ॥१४७॥
आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ।
अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ॥१४८॥
नानाजीवभानस्य न व्यवहाहकाल एव बाध्यत्वं शुक्तिरूप्यादेरिवेत्याहआसंसारेति ।
तत्कृताःजीवभेदप्रयोज्याः ।
स्वप्नवृत्तविलक्षणाःस्वाप्नार्थव्यवहारविलक्षणाः ।
अयमाशयःयथा स्वाप्नार्थव्यवहाराणां स्वप्न एवासत्त्वं पाश्चात्यबाधान्निश्चीयते व्यवहारदशायामेव, नैवं तदैव जीवभेदप्रयुक्तव्यवहारभेदानां बाधो निश्चितः ।
किन्त्वन्यजीवकृतस्योपकारस्यापकारस्य वा सत्त्वप्रतीत्यैव आप्राज्ञादाबालगोपालं तदनुगुणप्रवृत्तिसंरम्भो दृश्यतेऽनुवर्तमान आप्रलयात् ।
व्यवहारकालेऽबाध्यत्वाच्च जीवभेदस्य व्यावहारिकत्वमेव परप्रक्रिययापि, न प्रातिभासिकत्वम् ।
जीवभेदोमिथ्या प्रतिभासमानत्वात्स्वाप्नपुंभेदवदित्यनुमानं च व्यवहारदशाबाध्यत्वेन सोपाधिकम् ।
तथा च सूत्रंवैधर्म्याच्च न स्वप्नादिवदितीति ॥१४८॥
तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् ।
प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ।
तत्तत्स्वात्मवदन्येऽपि देहिनोऽशक्यनिह्नवाः ॥१४९॥
उक्तेनैव हेतुना यौक्तिकैकत्वनिष्कर्षमपि निराकरोतितेनेति ।
तेनजीवभेदस्य व्यवहारकालाबाधेन ।
सर्वे जीवा अहमेव जीवत्वादहमिव, सर्वाणि शरीराणि मयैवात्मवन्ति शरीरत्वात्मच्छरीरवदिति जीवैक्ययुक्तिर्जीवभेदसाधकयुक्तिपराहतेत्यर्थः ।
जीवभेदयुक्तेः प्राबल्यं च व्यवहाराभाध्यविषयत्वादुपलम्भानुगुण्याच्चेति बोध्यम् ।
ननु का सा जीवनानात्वयुक्तिः ? तामाहप्रवृत्तिभेदेति ।
तत्तद्देहगतविलक्षणप्रवृत्तिभेदानुमिताः तत्तदनुगुणविरुद्धज्ञानसङ्कल्पप्रयत्नवन्तोऽन्ये देहिनोऽपि स स स्वात्मेव स्वशरीरप्रवृत्त्यनुगुणज्ञानादिमान्प्रत्यात्मसिद्धो न निह्नोतु शक्यन्ते इत्यर्थः ।
मितिवृत्तिग्रहणं सङ्कल्पस्याप्युपलक्षणम् ।
परशरीराणिसात्मकानि चेष्टावत्त्वात्स्वशरीरवदिति सात्मकत्वेऽनुमिते तदात्मनां स्वात्मभेदः परिशेषात्सिध्यति, परशरीरप्रवृत्तिहेतुभूतसङ्कल्पप्रयत्नस्य स्वासमवेतत्वे सति गुणत्वात्स्वभिन्नसमवेतत्वानुमानात् ।
स्वासमवेतत्वं च तस्य स्वस्य तदा भिन्नसङ्कल्पप्रवृत्तिमत्त्वादेव सुनिश्चेयमिति बोध्यम् ॥१४९॥
यथानुमेयाद्वह्न्यादेर(रा)नुमाना विलक्षणाः ।
प्रत्यक्षं ते (क्ष्यन्ते)तथान्येभ्यो जीवेभ्यो न पृथक्कथम् ॥१५०॥
साध्यानां परात्मनां निदर्शनीभूतस्वात्मभिन्नत्वे निदर्शनं प्रदर्शयतियथेति ।
आनुमानाः अनुमानप्रयोजकाः सपक्षदृष्टाः वह्नयोऽनुमेयात्पर्वतीयवह्नेर्यथा भिन्नाः व्याप्तिग्रहणकालेऽध्यक्षिताः, तथानुमेयेभ्यः परदेहस्थात्मभ्यः शरीरप्रवृत्तिचेतनसह्कल्पप्रयत्नपूर्वकत्वव्याप्तिग्रहकाले गृहीतं त्वदीयात्मस्वरूपं त्वच्छरीरप्रवृत्तिहेतुसङ्कल्पादिमद्भिन्नत्वेन कुतो न प्रत्यक्षं ? अपि तु प्रत्यक्षमेवेति यावत् ।
जीवानामैक्यसाधनं वह्नीनामैक्यसाधनवदप्रयोजकमुपलम्भबाधितं चेति हार्दम् ॥१५०॥
न चेञ्चेष्टाविशेषेण परो बोद्धानुमीयते ।
व्यवहारोऽवलुप्येत सर्वो लौकिकवैदिकः ॥१५१॥
परात्मसु साधकमुक्तम् ।
तदनुपगमे बाधकमप्याहन चेदिति ।
परदेहेषु परात्मनश्चेष्टाविशेषैरनुकूलप्रतिकूलोदासीनानूहित्वैव हि तत्तदनुगुणा व्यवहाराः दृष्टा लोके, जीवभेदप्रयुक्ता एव चाधिकार्यनधिकारिविभागादिव्यवहाराः शास्त्रीया दृष्टाः ।
तेषामुपरोधः प्रसज्यते जीवभेदानुपगम इति भावः ॥१५१॥
न चौपाधिकभेदेन मेयमातृविभागधीः ।
स्वशरीरेऽपि तत्प्रप्तेः शिरःपाण्यादिभेदतः ॥१५२॥
ननु संविन्मात्रमेकमेव नानोपाधियोगान्नानाजीवतया भाति ।
औपाधिकजीवभेदप्रयुक्त एव व्यवहारभेदः, स्वभावासङ्करश्च ।
उपाधिभेदोऽपि कल्पित तवेत्याशङ्कामनूत्या परिहरतिन चौपाधिकेति ।
मेयविभागनिर्देशो निदर्शनार्थः प्रासङ्गिकः ।
औपाधिकभेदेन व्यवस्थोपगमे शिरःपाणिपादोपाधिभेदेनापि तत्तदवच्छिन्नचितो भेदप्रसङ्गः ।
तथा च पादे मे वेदना, शिरसि सुखमित्यादिप्रतिसन्धानानुपत्तिरिति यावत् ॥१५२॥
त(य)था तत्र शिरःपाणिपादादौ वेदनोदये ।
अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ॥१५३॥
ननूपाधिभेदेऽप्यभेदाच्चितः प्रतिसन्धानमिति चेत्तत्राहतथेति ।
तथेत्यनिष्टसमुच्चयार्थः ।
यथेति वा स्यात् ।
वस्तुतः सर्वशरीरेषु चित ऐक्यात्सर्वगतसुखादिप्रतिसन्धानप्रसङ्ग इत्यर्थः ।
न च शरीरभेदस्यै वात्मभेदकत्वं, ननु करचरणादिभेदस्येति वाच्यं, सौभर्यादौ शरीरभेदेऽपि प्रतिसन्धानस्य दृष्टत्वात्तस्यापि भेदकत्वायोगात् ।
नच तत्तत्पुरुषीयकर्माधीनदेहस्यैव तत्तद्भोगावच्छेदक्त्वमिति व्यवस्था ।
सौभर्यादेर्युगपन्नानादेहयोगोऽपि तक्तर्मकृत एव ।
नत्वस्मदादेस्तथेति वाच्यं, औपाधिकात्मभेदवादे प्रतिकर्मव्यवस्थाया अपि दुर्घटत्वात्; उपाधेस्तदीयत्वं तत्कर्मणा, उपाधिव्यवस्थयैव च तत्कर्मव्यवस्थितिरिति परस्पराश्रयाच्चेति दिक् ।
अतो जीवभेदेनैव वास्तवेन भोगादिसाङ्कर्यं परिहार्यमित्याशयः ॥१५३॥
प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि ।
चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ॥१५४॥
ननु शरीरभेदेऽप्यात्मैक्यात्प्रतिसन्धाने जन्मान्तरेऽनुभूतस्यापि जन्मान्तरे प्रतिसन्धानं स्यादित्यत्राहप्रायणादिति ।
प्रबलदुःखानुभवस्य संस्कारप्रमोषकत्वं दृष्टं लोके प्रबलज्वराद्यर्दितस्याधीतविस्मरणादिना ।
जन्मभेदे च मरणनरकगर्भवासजन्मकालप्रभवक्लेशबाहुल्येन संस्कारविनाशात्पूर्वजन्मानुभूतस्मरणं जन्मान्तरे च जायत इत्यर्थः ।
कालदैर्घ्यस्यापि संस्कारप्रमोषकत्वमभिप्रेत्योक्तंञ्चिरातिवृत्ता इति ।
जीवनादृष्टबलात्तु संस्कारविशेषस्याविनष्टत्वं जातमात्र उद्भूतत्वम् च कल्प्यते ।
केषाञ्चित्तु पुण्यातिशयेन संस्काराप्रमोषात्पूर्वजन्माद्यविस्मरणमपि लोकशास्त्रसम्प्रतिपन्नमेवेति बोध्यम् ॥ १५४॥
युगपज्जायमानेषु ...... (सुखदुखादिषु स्फुटः) ।
आश्रयासङ्करस्तत्र कथमैकार्थ्यविभ्रमः ॥१५५॥
( इत्येकाविद्याकल्पितैकजीववादनिरासः ) युगपदिति ।
एकक्षण एव जायमानेषु नानासुखदुःखानुभवेषु कालदैर्घ्यादिसंस्कारप्रमोषकविरहेऽपि अस्मरणादि आत्मनामसङ्करातनक्यादेव व्यवस्थाप्यम् ।
तथा चैकात्म्यधियो भ्रान्तिरूपाया अपि नोदयावसरः, आत्मभेदस्यैव स्फुटप्रतिभानादितिभावः ।
एकमेकाविद्याकल्पितैकजीववादे दूषणानि प्रपञ्चितानि ॥१५५॥
न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः ।
जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ॥१५६॥
परवार्तानभिज्ञास्ते स्वस्वस्वप्नेकदर्शिनः ।
कथं प्रवर्तयेयुस्तां सङ्गाद्येकनिबन्धनाम् ॥१५७॥
नानाविद्याकल्पितनानाजीववादमपि दूषयतिन चेति ।
अविद्याकल्पिताश्चितो नानाजींवभेदाः ।
ते च स्वस्वाविद्याकल्पितं पदार्थजातं पश्यन्ति पृथक्पृथक्स्वप्न इव ।
व्यावहारिका अन्ये जीवा अन्येन न ज्ञायन्ते ।
स्वेन दृश्या जीवास्तु स्वाप्नवत्प्रातिभासिका एवेत्येतत्पक्षसारः ।
अत्र चान्यं जीवं तद्गुणदोषादि वा व्यावहारिकमन्यो जीवस्तथाभूतो न जानाति चेत्तर्हि तत्समागमादिप्रसङ्गाभावात्सहानुभूतयैकसाध्योऽनुवृत्तो लोकव्यवहारः कथं निर्वर्त्येतेत्यर्थः ।
स्वाविद्याकल्पितमेव पश्यन्तीत्युक्त्या परवार्तानभिज्ञत्वंव्यावहारिकजीवान्तरवृत्तानभिज्ञत्वं सिध्यति ।
न हि ते जीवान्तराविद्याकल्पिताः ।
किन्तु मूलाविद्याकल्पिता एव ।
लोकव्यवहारोऽपि प्रातिभासिक एवेति चेत्तर्हि एकजीववादोन्मेषः ।
तत्र च दोष उक्त एवेति हार्दम् ॥१५६॥१५७॥
किञ्च स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ।
त्वदभ्युपेता बाधेरन्संविदस्तेऽद्वितीयताम् ॥१५८॥
संविन्मात्रेऽविद्याकल्पितो मेयमातृभेद इति परमतं विस्तरेण प्रतिक्षिप्तमेतावता ।
अथ संविदि पराभिमतं निर्विशेषत्वं प्रतिक्षिपतिकिञ्चेत्यादिना ।
ते इत्यस्याग्रे मतामिति शेषः ।
भवदभिमतैरेव धर्मैः सविशेषत्वं संविदः प्रसज्यत इति भावः ॥१५८॥
संविदेव न ते धर्माः, सिद्धायामपि संविदि ।
विवाददर्शनात्तेषु ; तद्रूपाणां च भेदतः ॥१५९॥
स्वरूपाभेदात्तेषां न संविदः सधर्मत्वमिति शङ्कामनूद्य निराचष्टेसंविदेवेति ।
सम्प्रतिपन्नेऽपि संवित्स्वरूपे तन्नित्यत्वविभुत्वैकत्वस्वप्रकाशत्वादौ बौद्धनैयायिकमीमांसकादीनां विवादात्स्वरूपभेदाच्च तेषां धर्माणां संवित्तो न संप्रतिपन्नसंविदभिन्नत्वं तेषां युज्यत इत्यर्थः ।
स्वरूपभेदश्चात्मसिद्धौ निरूपितोऽनुसन्धेयः ॥१५९॥
न च ते भ्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः ।
तत्त्वावेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ॥१६०॥
नन्वेवमपि तेषामपरमार्थत्वात्परमार्थद्वितीयराहित्यं सुरक्षितमेवेति चेत्तत्राहन च ते इति ।
तवापि तत्त्वेदम्परश्रुत्यन्तसिद्धास्ते धर्मास्संविदो नित्यत्वादय इत्येव मतम् ।
तत्तैः सविशेषत्वं दुर्वारम् ।
तेषां बाधे तुल्यनयेन संविदोऽपि बाधः स्यादिति द्योत्यते तत्त्वावेदकेत्यादिना ॥१६०॥
आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ ।
ब्रह्मस्वरूपमेवेष्टं, तत्रापीदं विविच्यताम् ॥१६१॥
ब्रह्मस्वरूपाभेदस्यैव तद्धर्मेषु पराभिमतत्वात्तत्र प्राकारान्तरेणापि दूषणमाहआनन्देति ।
आनन्दशब्दो भावप्रधानः ।
महिमाविभुत्वम् ।
आदिपदादेकत्वादि ग्राह्यम् ।
अथेति यद्यर्थकम् ।
अव्ययानामनेकार्थत्वात् ॥१६१॥
ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः ।
अथवा तस्य ते, यद्वा त एव ब्रह्मसंज्ञिनः ॥१६२॥
विकल्पयति परमतंब्रह्मेतीति ।
किमानन्दत्वादयो ब्रह्मस्वरूपमात्रं, उत तन्निष्ठा धर्माः, आहोस्वित्तेषामेव प्रत्येकं ब्रह्मसंज्ञा, समुदितानां वेति विकल्पः ॥१६२॥
आद्ये तत्तत्पदाम्नानवैयर्थ्यं वेदलोकयोः ।
पूर्वोक्तनीत्याभेदश्च, जगज्जन्मादिकारणम् ॥१६३॥
अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ।
द्वितीये सैव तैरेव ब्रह्मणः सद्वितीयता ॥१६४॥
आद्ये इति ।
अत्यन्ताभेदेऽनतिरिक्तार्थकत्वात्आनन्दो ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्मेत्यादौ सहपाठस्यानर्थक्यं प्रसज्यते ।
न हि घटः कलश इति सहपाठः ।
ब्रह्मस्वरूपैक्यासम्भवं च तेषु धर्मेषु स्मारयतिपूर्वोक्तेति ।
द्वितीये कल्पे तु ब्रह्मणः सविशेषत्वप्रसङ्ग इत्याहद्वितीयइति ।
सैवभवदभिमतविरुद्धैव ॥१६३॥१६४॥
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात्पदे पदे ।
तत्समूहोऽथवा ब्रह्म तरुवृन्दवनादिवत् ॥१६५॥
तृतीये प्रत्येकसमुदायकोट्योः प्रत्येककोटिं दूषयतितृतीये इति ।
प्रत्येकशो ब्रह्मत्वमित्यत्र नाना ब्रह्म प्रसज्यते सत्यं ब्रह्म, ज्ञानं ब्रह्म, अनन्तं ब्रह्म, आनन्दो ब्रह्मेति ; खण्डो मुण्डः पूर्णशृङ्गोगौरित्यत्रेवेत्यर्थः ।
तन्मात्रत्वात्तत्तन्मात्रस्वरूपत्वाद्ब्रह्मणः ।
सत्यत्वादिसमुदायो ब्रह्मेत्यत्र दोषमाहतत्समूहइति ।
विनाशवदिति मुद्रितः पाठोऽशुद्धः ।
तरुवृन्दस्य वनत्ववत्सत्यादिसमुदायस्य ब्रह्मत्वे, समुदायस्य समुदाय्यनन्यत्वे प्रत्येकपक्षोक्तदूषणानतिवृत्तिः, अतिरिक्तत्वे सांशत्वं गुणत्वं च प्रसज्यते ब्रह्मण इति भावः ॥१६५॥
प्रकर्षश्च प्रकाशश्च भिन्नावेवार्कवर्तिनौ ।
तेन न क्वापि वाक्यार्थो विभागोऽस्ति निदर्शनम् ॥१६६॥
ननु सत्यादिवाक्यमखण्डार्थपरं स्वरूपलक्षणवाक्यत्वात्, दिवा दिवि प्रकृष्टप्रकाशः सूर्यः, निशि च तथाभूतश्चन्द्र इतिवदिति निर्विशेषब्रह्मसिद्धिरित्यत्राहप्रकर्षश्चेति ।
दृष्टान्तोऽपि न केवलरव्यादिस्वरूपमात्रपरः, किन्तु रव्यादिव्यपदेशगोचरार्थस्यासाधारणाकारप्रदर्शनपर इति निर्विशेषाद्वैतरूपोऽखण्डः समानाधिकरणवाक्यार्थो निदर्शनभूतो नैवास्तीतिभावः ।
क्वापिक्वचिदपि समानाधिकरणवाक्ये ।
अविभागःअखण्डः ॥१६६॥
जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ।
ज्ञानानन्दादिशब्दानां न सतस्सद्वितीयता ॥१६७॥
अत्र शङ्कते परःजाड्येति ।
ज्ञानादिपदं न ज्ञानत्वादिविशेषं प्रतिपादयति ।
किन्तु जडत्वाद्यपोहमेव ।
अपोहस्तु व्यावृत्तिरभावोऽधिकरणस्वरूपमेवेति न ब्रह्मणः सविशेषत्वप्रसङ्गः ।
जडादितत्तत्पदार्थप्रतियोगिकव्यावृत्तिस्वरूपत्वबोधनेन चार्थवत्ता पदानामिति शङ्कितुराशयः ।
नेत्यतः पूर्वमतश्चेति योज्यम् ।
परपक्षानुवादकः श्लोकोऽयम् ॥१६७॥
अपोहाः किं न सन्त्येव, सन्तो वा, नोभयेऽपि वा ।
सत्त्वे सत्सद्वितीयं स्यात्जडाद्यात्मकतेतरे (ता परे) ॥१६८॥
अत्र विकल्प्य दोषमाहअपोहा इति ।
नोभयेन सन्तो नाप्यसन्तः, सदसद्विलक्षणा इति यावत् ।
अपोहानां सत्त्वे दोषमाहसत्त्वे इति ।
अपोहानां सत्त्वे तैः सतः सद्वितीयता स्यादित्यर्थः ।
असत्त्वे दूषणंञ्जडाद्यात्मकेति ।
जाड्याद्यपोहानामभावे जाड्यादिप्रसङ्ग इति यावत् ।
सत्त्वसत्सद्वितीयः स्वाज्जडाद्यात्मकतेतरेइति ।
मुद्रितपाठोऽशुद्धः ॥१६८॥
सदसद्व्यतिरेकोक्तिः पूर्वमेव पराकृता ।
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥१६९॥
तृतीयं प्रतिक्षिपतिसदसदिति ।
सद्व्यतिरेकेऽसत्त्वं, असद्व्यतिरेके च सत्त्वं व्यवस्थितमिति सदसद्भिन्नत्वं कस्यापि न सम्भवतीति पूर्वमेवोक्तमित्यर्थः ।
दूषणान्तरमाहतथात्व इति ।
अपोहानां ब्रह्मस्वरूपत्वे सदसद्विलक्षणत्वे च ब्रह्मणः सदसद्विलक्षणत्वं प्रसज्यते प्रपञ्चस्येवेति भावः ॥१६९॥
किञ्चापोह्यजडत्वादिविरुद्धार्थासमर्पणे ।
नैव तत्तदपोह्येत तदेकार्थैः पदैरिव ॥१७०॥
दूषणान्तरमाहकिञ्चेति ।
जडादिव्यावर्तकधर्मबोधनमन्तरा जडादिव्यावृत्तिर्न प्रतिपादयितुं शक्यते सत्यादिपदैर्जडादिपर्यायपदैरिवेति व्यावर्तकधर्मबोधकत्वमवर्जनीयम् ।
तथाच तैर्धर्मैः सविशेषत्वं ब्रह्मणो दुर्वारमित्यर्थः ।
तत्तत्जडत्वादि, अपोह्येतव्यावर्त्येत ॥१७०॥
प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ।
सैवाभाव इतीहापि सद्भिस्ते सद्वितीयता ॥१७१॥
( इति सविशेषत्वोपपादनेन संविदो निर्विशेषत्वनिरसनं ) ननु व्यावर्तकधर्मवत्त्वं न बोध्यते ।
किन्तु जडादिव्यावृत्तिरूपत्वमेव बोध्यते ज्ञानादिपदैर्ब्रह्मणः ।
तन्न जडत्वादिप्रसङ्ग इति चेत्तत्राहप्रतियोगिनीति ।
योग्ये प्रतियोगिन्यनुपलभ्यमानेऽधिकरणमात्रज्ञानमेव तदभाव इति ज्ञानविशेषरूपत्वादभावस्य ज्ञानविशेषरूपैः सत्यादिपदलक्ष्यार्थैरभावैर्भावरूपैः सविशेषता ब्रह्मणः प्रसज्यत इत्यर्थः ।
अभावस्य ज्ञानविशेषरूपत्वमिति मतविशेषेणेदम् ।
यद्वा भावान्तरमात्रधीरिति उपलभ्यमानं भावान्तरमित्यर्थे पर्यवसन्नम् ।
योग्ये प्रतियोगिन्यनुपलभ्यमाने तत्राधिकरणे यद्भावान्तरमुपलभ्यते तदेव प्रतियोगिव्यपेक्षयाभावव्यपदेशभागिति अधिकरणवृत्तिधर्मान्तररूपत्वादभावानां तैः सविशेषत्वं प्रसज्यत इति भावः ।
द्वव्येऽभावो धर्मरूपः ।
धर्मस्य तु स्वपरनिर्वाहकत्वेन स्वरूपमेवाभावः, सति सम्भवे धर्मान्तरं वेति यथोपलम्भं व्यवस्था ।
यस्मिन्प्रतीयमाने इतरारोपो न घटते, तस्यैव तदभावरूपत्वम् ।
सत्स्वरूपे प्रतीयमान एव भेदानामध्यासाच्च तत्र तस्यैव नेतराभावरूपत्वं सम्भवि ।
न चाविद्ययाविशदं भासमाने सति भेदभ्रमः ।
अविद्यानिवृतौ विशदं भासमाने तु न स इति विशदस्वरूपस्याभावरूपत्वं सम्भवतीति वाच्यम् ।
वैशद्यस्य स्वरूपत्वे पूर्वमप्यविद्यादिभेदारोपायोगात् ।
स्वरूपातिरिक्तत्वे तु तस्यैवाभावरूपत्वं न स्वरूपस्येति प्रसङ्गात् ।
किञ्च निर्विशेषे स्वप्रकाशे वस्तुनि विशादाविशदभानमेव दुर्वचम् ।
सविशेषे तु कतिपयाकारेण भानमविशदं, सर्वाकारभानं विशदमिति विशेषः ।
किञ्च ब्रह्मणो द्रव्यत्वे सधर्मकत्वं, अद्रव्यत्वे तु कस्यचिद्धर्मरूपत्वं प्रसज्यते ।
द्रव्याद्रव्यविलक्षणत्वं तु न सम्भवीत्यादिकमनुसन्धेयमत्र ।
इहापीत्यपिना सत्यादिपदानामपोहलक्षणायामपि न निर्विशेषत्वसिद्धिः ।
लक्षणाकल्पनायास एव विशिष्यच इति द्योत्यते ।
एवमपोहरूपाणामपि सत्यत्वादीनां सदसदनिर्वचनीयत्वं निरस्तम् ॥१७१॥
भूतभौतिकभेदानां सदसद्व्यतिरेकिता ।
कुतोऽवसीयते किं नु प्रत्यक्षादेरुतागमात् ॥१७२॥
प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथायथम् ।
व्यवच्छिन्दन्ति जायन्त इति  या (ता) वत्स्वसाक्षिकम् ॥१७३॥
अथ प्रपञ्चस्यापि प्रसङ्गात्सदसदनिर्वचनीयत्वं परमतं निरस्यति भूते त्यादिना ।
प्रत्यक्षादीनी ति ।
स्वस्वप्रमेयं यथायथं तत्तदसाधारणाकारतो  विजातीयसजातीयान्तरव्यत्तमवगमयन्ति प्रत्यक्षादीनीति प्रसिद्धम् ।
तदसाधारणाकारेण सद्भाव एव वस्तूनां प्रमाणानितानि, न तु सदसदनिर्वचनीयत्व इति  भावः ॥१७३॥
यथाग्रतः स्थिते नीले नीलिमान्यकथा न, धीः ।
एकाकारा, न हि तथा स्फटिके धवके मतिः ॥१७४॥
क्षीरे मधुरधीर्यादृक्नैव निभ्बकषायधीः ।
व्यावहाराश्च नियताः सर्वे लौकिकवैदिकाः ॥१७५॥
एतदेवोपपादयति यथेति ।
नीले नीलमतिः, स्फटिके धवलमतिश्च नैकविषया, किन्तु परस्परव्यावृत्तगुणविषयैव ;  तथा क्षीरे मधुरधीः, निम्बे कषायधीश्च ।
तथा चार्थभेदालम्बनत्वं ज्ञानानां स्थितमिति भावः ।
नीले नीलबुद्धिरेकाकारा एकविषया ।
तत्र नीले न  नीलान्यगुणप्रसङ्गः ।
धवलमतिस्तु ततो भिद्यते भिन्नाकारेत्यर्थः ।
नैवेत्यस्याग्रे तादृगिति आक्षिप्यते ।
नैवमिति वा पाठः स्यात् ।
तत्तद्वस्त्वसाधारणाकारभेदेऽबाधितप्रतीतिमुक्त्वा व्यवहारमपि तादृशमुपन्यस्यति प्रमाणतया व्यवहारा  इति ।
अबाधितप्रत्यक्षादिप्रमाणतन्मूलव्यवहारबलाद्वस्तूनां तत्तदसाधारणाकारेण सत्त्वमेवोपेयमिति भावः ॥१७४ ॥१७५॥
सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ।
सा चेदस्ति तस्या मूलं कल्प्यतां कार्यभूतया ॥१७६॥
शङ्कात्रानूद्यते सत्यमिति ।
परिहरति न त दिति ।
साघु इति शेषः ।
कार्यबलात्तदनुगुणं मूलमबाधितप्रतीतीनां यथार्थ्यव्यवस्थापकमनुमीयतामिति भावः ॥१७६॥
क्ल्प्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ।
यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः ॥१७७॥
ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।
भेदेतरेतराभावविवेकाग्रहणेन सः ॥१७८॥
अदुष्टेन्द्रियादेरेव मितियाथार्थ्ये हेतुत्वमन्वयव्यतिरेकसिद्धं नापलप्यं चेत्याह क्ल्प्त मिति ।
वस्तुभेदो निर्दुष्टेन्द्रियरूपेण प्रत्यक्षप्रमाणेनैव गृह्यते इति यावत् ।
अत्र शङ्कते यौगपद्ये ति ।
व्यवच्छेदो भेदग्रहणं ।
विधानं स्वरूपग्रहणम् ।
प्रात्यक्षिकप्रमितेर्युगपदेवाधिकरणतन्निष्ठभेदोभयग्राहित्वं न सम्भवति, अधिकरणग्रहणस्य प्रतियोगिग्रणनैरपेक्ष्यात्, भेदग्रहणस्य तु तत्सापेक्षत्वात् ।
प्रथममधिकरणस्वरूपं गृहीत्वाथं भेदं गृह्णातीति क्रमोऽपि न सम्भवति, प्रमितेः क्षणिकत्वाद्विरम्य व्यापारायोगाद्वा ।
स्वरूपभेदयोस्तद्ग्रहणयोश्चैक्यमपि न सम्भवति ।
अतः स्वरूपग्रहस्यैव प्रत्यक्षप्रमितिरूपत्वं, भेदग्रहस्य तु भ्रान्तिलक्षणत्वमेवेति भावः ।
शङ्कां प्रतिक्षिपतीमां इती त्यादिना ।
भेदोऽन्योन्याभावः, इतरेतराभावः  अन्यस्मिन्नन्यस्य संसर्गाभावः ।
यद्वा भेदः  संसार्गाभावभेदः प्रागभावादिः ।
इतरेराभावः  भेदः ।
तयोः स्वरूपयाथात्म्याज्ञानप्रयुक्तो निरुक्तविधः परेषां भ्रम इत्यर्थः ॥१७७ ॥१७८॥
स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् ।
भेदव्याहारहेतुः स्यात्प्रतियोगिव्यपेक्षया ॥१७९॥
भेदस्य याथात्म्यं तावदाह स्वरूपमेवे ति ।
स्वरूपं  स्वासाधारणाकारः ।
तदेव गृह्यमाणां प्रतियोगिस्मरणसहकारेणेतरस्माद्भेदव्यवहारनिदानं, यथा कम्बुग्रीवादिमत्त्वमेव घटस्य पटाद्भेद इति भावः ॥१७९॥
यथा तन्मात्रधीर्नानानास्तिव्याहारसाधनी ।
ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥१८०॥
अत्र निदर्शनं यथेति ।
यथा भूतलस्वरूपज्ञानमेव घटाद्यनुपलम्भे सति  तत्तत्स्मरणसहकारि घटादिशून्यताव्यवहारसाधनं मतमभावस्याधिकरणस्वरूपत्ववादिनां तथेत्यर्थः ।
सिद्धान्ते त्वधिकरणवृत्तिधर्मविशेषरूपत्वं भेदादेरिति विवेकः ।
एकस्यैव प्रितयोगिभेदेन नानाव्यवहारसाधनत्वं निदर्शनमुखेन द्रढयति ह्रस्वे ति ।
एकत्रैव षडङ्गुलिमिते वस्तुनि तदपेक्षयादीर्घम् पादर्थान्तरमपेक्ष्य ह्रस्वव्यवहारं ह्रस्वं तदपेक्ष्य दीर्घव्यवहारं च तद्वस्तुज्ञानमेव तत्तत्प्रतियोगिस्मरणसहकारेण जनयति हीति भावः ॥१८०॥
एवं व्यवस्थितानेकप्रकाराकरवत्तया ।
प्रत्यक्षस्य प्रपञ्चस्य तद्भावोऽशक्यनिह्नवः ॥१८१॥
एव  मिति ।
स्वरूपलक्षणस्य भेदस्याद्यक्षण एव धर्मिग्रहणे ग्रहसम्भवाद्भेदव्यवहार एव प्रतियोगिस्मरणस्यापेक्षितत्वाच्च नानाकारविभिन्नपदार्थस्वरूपस्य तत्त्वं प्रत्यक्षप्रमाणप्रमितं नापलपनार्हमिति भावः ।
असाधारणाकाररूपस्य भेदस्य स्वपरनिर्वाहकत्वान्नानवस्था ।
तत्प्रागभावस्तत्पूर्वावस्थारूपः ।
ध्वंसस्तदुत्तरावस्थारूपः ।
तदत्यन्ताभावस्तदधिकरणस्वभावविशेषात्मकः ।
सामयिकाभावः ।
कालविशेषावच्छिन्नतत्तदधिकरणस्वरूपात्मकः ।
एषां च तत्तत्प्रतियोग्युपरक्तत्वेन व्यवहारे पुनस्तत्तत्प्रतियोगिस्मरणापेक्षेति विवेकोऽत्र बोध्यः ॥१८१॥
आगमः कार्यनिष्ठत्वादीदृशेर्ऽथे न तु प्रमा ।
प्रामाण्येऽप्यन्वयायोग्यपदार्थत्वान्न बोधकः ॥१८२॥
एवं भेदप्रपञ्चस्य सत्त्व एव प्रत्यक्षं प्रमाणं, न सदसदनिर्वचनीयत्व इति स्थापितम् ।
शास्त्रस्यापि न तत्र प्राणाण्यमित्याह आगम इति ।
आगमः  शास्त्रम्, कार्यनिष्ठत्वात् कार्यार्थप्रतिपादनतत्परत्वात्, ईदृशेषर्ऽथे कार्यानन्वयिनि सिद्धे प्रपञ्चानिर्वचनीयत्वादौ, न प्रमा  न  प्रमाणम् ।
मीमांसकमतेनेदम् ।
सिद्धान्तिमतेनाप्याह प्रामाण्येऽपीति ।
सिद्धार्थे शास्त्रस्य प्रमाणभावे सत्यपि शास्त्रस्य प्रमाणशब्दमात्रस्य वा नानिर्वचनीयत्वादौ प्रमाणत्वं, न सन्नाप्यसन्नित्यादेरनन्वितार्थकत्वेन शब्दबोधाजनकत्वादित्यर्थः ।
तत्तत्प्रतिपादकतयेव प्रतीयमानोऽपि सन्दर्भोऽविरुद्धार्थपरतया नेय इति हार्दम् ॥१८२॥
नासत्प्रतीतेः, बाधाच्च न सदित्यपि यन्न तत् ।
प्रतीतेरेव सत्किं न, बाधान्नासत्कुतो जगत्? ।
तस्मादविद्ययैवेयमविद्या भवताऽश्रिता ॥१८३॥
अथानुमानस्यापि सदसदनिर्वचनीयत्वे न प्रमाणत्वमित्याह नास दिति ।
प्रपञ्चः सदसद्भिन्नः प्रतीयमानत्वे सति बाध्यमानत्वादिति युक्तिरपि न सती, प्रपञ्च सदसत्त्ववान्तत एवेत्याभास समानयोगक्षेमत्वादिति भावः ।
निरुपाधिकसत्त्वासत्त्वयोर्विरोधोऽत्रा भिप्रेतः ।
तस्मा दिति ।
अनिर्वचनीयत्वस्याप्राणाणिकत्वात्तदुपपादकाविद्याकल्पनं भवदज्ञानकार्यमेवेत्यर्थः ॥१८३॥
किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ।
मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयमञ्जसा ॥१८४॥
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् ।
पारमार्थ्यैऽपि तेनैव तवाद्वैतं विहन्यते ॥१८५॥
(इति प्रपञ्चस्य सदसद्व्यतिरेकित्वरूपमिथ्यात्वनिरसनं ) प्रमाणाभावाद्दूषितं सदसदनिर्वचनीयत्वरूपं मिथ्यात्वं प्रकारान्तरेणापि दूषयति किञ्चेति ।
भेदमिथ्यात्वस्य मिथ्यात्वे भेदस्य सत्यत्वं सिद्धम् ।
भेदमिथ्यात्वस्य सत्यत्वे ब्रह्मभिन्नस्यापि कस्यचित्सत्यत्वोपगमादपसिद्धान्तोऽद्वैतव्याघातश्चेत्यर्थः ।
नच भेदमिथ्यात्वं सत्यं ब्रह्मस्वरूपमेवेति नाद्वैतहान्यादीति वाच्यं ॥
तथासति ब्रह्मणो मिथ्यावस्तुगुणत्वप्रसङ्गादित्यन्यत्र विस्तरः ॥१८४॥१८५॥
सर्वाण्येव प्रमाणानि स्वं स्वमर्थं यथोदितम् ।
असतोर्ऽथान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति न ॥१८६॥
एवं मिथ्यात्वं निरस्य भेदप्रपञ्चस्य सत्यत्वं व्यवस्थापयन्पराभिमतं सदद्वैतं प्रतिक्षेप्तुमुपक्रमते सर्वाण्येवेति ।
यथोदित मित्यत्र यथायथ मिति स्याद्वा ।
यथोदितमित्यस्य न प्रत्यक्षादेरनिर्वचनीयप्रत्यायकत्वमति पूर्वनिरूपितानतिक्रमेणेत्यर्थः ॥१८६॥
तथाहीह घटोऽस्तीति येयं धीरुपजायते ।
सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥१८७॥
स्वस्वप्रमेयस्यासतोऽभावाद्भावान्तरेभ्यश्च व्यावृत्ताकारताप्रत्यायकत्वं प्रमाणानां प्रसिद्धमिति यदुक्तं, तदेवोपपादयति तथा हीहे ति ।
इहेदानीं घटोऽस्तीति प्रतीतिस्तदानीं तत्र स्वासाधारणाकारेण घटस्य सत्तामेवावगाहते, नाभावं नासत्तां, न वा पटत्वाद्यर्थान्तरधर्मवत्तामित्यर्यर्थः ।
तथा चासद्व्यावृत्तं सदन्तरव्यावृत्तं च वस्तुनः सन्तं घटादिकमेव प्रतिपादयन्ति प्रतीतयः घटोऽस्ति, पटोऽस्तीत्यादय इति सन्नानात्वमेव सिध्यति, न सदद्वैतमिति भावः ॥१८७॥
नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ।
अर्थान्तरं वा, तन्मात्रे सदद्वैतं प्रसज्यते ।
अर्थान्तरत्वे सिद्धं तत्सदसद्भ्याम् विलक्षणम् ॥१८८॥
अत्र चोदयति  नन्वस्तीति ।
घटपटादिपदेनापि अस्तीत्युक्तं सन्मात्रमुच्यते चेत्सिद्धं सद्द्वैतम् ।
स्तोर्ऽथान्तरं चेत्तेन बोध्यते तर्हि घटादेरापतितं सदसद निर्वाच्य त्वम् प्रतीतिबलाच्चासद्व्यावृत्तिरिति भावः ॥१८८॥
यद्येवमस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ।
घटवत्सदसद्भ्यामनिर्वाच्यं तवापतेत् ॥१८९॥
एत द्दूषयति यद्येवमिति ।
अस्ति ब्रह्मे त्युपनिषत्प्रतिपाद्यमपि ब्रह्मतुल्यनयात्सदसदनिर्वचनीयं प्रसज्यते इत्यर्थः ॥१८९॥
आनन्दसत्यज्ञानादिनिर्देशौरेव वैदिकैः ।
ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं समर्थितः ॥१९०॥
एवं सर्वत्र समानाधिकरणवाक्येऽनभिमतविरुद्धाकारप्रसङ्ग इत्याह आनन्देति ।
आनन्दो ब्रह्मेत्यादौ आनन्दादिमात्रं ब्रह्मपदेनोच्यते चेत्पदान्तराम्नानवैयर्थ्यं, तदतिरिक्तबोधने त्वानन्दानानन्दविलक्षणत्वादि ब्रह्मणः प्रसज्यत इत्यर्थः ।
आनन्दपदेनानानन्दव्यावृत्तिः ब्रह्मपदेन चानन्दव्यावृत्तिर्भवेदिति यावत् ॥
अतथाभावः  अनानन्दत्वादिः ॥१९०॥
सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ।
यद्यथाकिञ्चिदुच्येत तत्सर्वस्य तथा भवेत् ॥१९१॥
परस्यानिष्टान्तरं च प्रसञ्जयति सदस दिति ।
सदसद्व्यतिरिक्तः प्रपञ्च इत्यपि स्वार्थात्प्रच्यवेत ।
निरुक्तरीत्या सदसद्व्यतिरिक्तान्यत्वमेव प्रपञ्चस्य सिध्येदिति भावः ।
य  दिति ।
यत्किञ्चिदपि वस्तु यथा  येन प्रकारेणोच्यते, तस्य सर्वस्य तथा  त्वदुपदर्शितरीत्या तत्प्रकारराहित्यं प्रसज्यता इत्यर्थः ॥१९१॥
तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।
तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ॥१९२॥
घटोऽस्तीत्यादौ सत्तामात्रस्य विशेष्यत्वं, तत्र घटादेर्भेदस्यारोपितत्वं च पराभिमतं प्रतिक्षिपन्निव स्वाभिमतार्थं प्रतिपादयति तस्मादिति ।
स्पष्टोर्ऽथः ॥१९२॥
सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।
स्वैःस्वैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ।
सा सत्ता न स्वतन्त्रऽन्या तत्राद्वैतकथा कथम् ॥१९३॥
(इति सदद्वैतनिरासेन भेदप्रपञ्चस्य पारमार्थिकत्वसमर्थनं ) सजातीये ति ।
विजातीय सजातीयान्तरव्यावर्तकेन स्वस्वासाधारणाकारेण तस्य तस्य पदार्थस्य या स्थितिः  कालसम्बन्धः प्रमाणसम्बन्धो वा, सा तत्तत्पदार्थस्य सत्ता ।
सा च प्रतिपदार्थं व्यवस्थिता, धात्वर्थत्वात्कर्तृपरतन्त्रा च ।
तत्सत्तायां स्वतन्त्रत्वमद्वैतं च भवदभिमतं नैव युक्तमिति भावः ॥१९३॥
न च नानाविधाकारप्रतीतिः शक्यनिह्नवा ।
न वेद्यं वित्तिधर्मः स्यादिति यत्प्रागुदीरितम् ॥१९४॥
तेनापि साधितं किञ्चित्संविदोऽस्ति न वा त्वया ।
अस्ति चेत्पक्षपातः स्यात्न चेत्ते विफलः श्रमः ॥१९५॥
एवं प्रमेयभूतसन्नानात्वं व्यवस्थाप्य प्रमितिनानात्वमपि व्यवस्थापयति पराभिमतचिदद्वैतनिरासेन नचेति ।
विषयाश्रयविशेषैः प्रत्यक्षादिस्वगतविशेषैश्चानुभूयमानं संविन्नानात्वमपि न क्षेप्तुं शक्यमित्यर्थः ।
अत्र परैः संविदो निर्विशेषत्वे प्रोक्तमनुमानमनूद्य प्रतिक्षिपति न वेद्य मिति ।
संविदि निर्विशेषत्वरूपः साध्यधर्म उपगम्यते  न वा, उपगम्यते चेन्निर्निमित्त एकस्मिन्धर्मे पक्षपातस्ते प्रसज्यते  एको धर्म उपदम्यते, अन्ये प्रामाणिका अपि नोपदम्यन्त इतीत्यर्थः ।
तथा चाभ्युपगतनिर्विशेषत्वविरोधप्रसङ्ग इति हार्दम् ।
पक्षबाधःस्या दिति पाठान्तरम् ।
नोपेयते चेत्साध्यधर्मः, तर्हि तत्साधनार्थसंरम्भवैयर्थम् प्रसज्यत इत्यर्थः ॥१९४ ॥१९५॥
अतःस्वरसविस्पष्टदृष्टभेदास्तु संविदः ।
यथारथादिभिर्वाह्यै (यथावस्थायिभिर्बाह्यैर्) नैक्यं यान्ति घटादिभिः  ॥१९६॥
अत इति ।
यथा रथादिभिर्वाह्यैर्नैक्यं याती ति पूर्वमुद्रितपाठोऽशुद्धः ।
अतः  संविन्निर्विशेषत्वाद्यनुमानप्रतिक्षेपात्, स्वरस्तो विषयाश्रयस्वगतविशेषैर्विशिष्टा विलक्षणत्वेन स्फुटं प्रतीयमानाः संविदः यथावस्थितैर्वबाह्यैर्घटादिभिरर्थैर्नैक्यं यान्तीत्यर्थः ।
वेद्यवेदित्रोर्वित्त्यभेदमतं प्रतिक्षेप्तुमयमुपक्षेपः ॥१९६॥
सहोपलम्भनियमो न खल्वैकैकसंविदा ।
नचेदस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥१९७॥
सहोपलम्भनियम इति ।
एतच्छ्लोकस्योत्तरार्धं न चास्ति चितिसामान्यं सर्वसंवेदनास्पद मिति वा न चिदस्ति ससामान्यं सर्वसंवेदनास्पद मिति वा सम्भाव्यते ।
संविदा सहैवोपलभ्यमानत्वाज्ज्ञेयज्ञात्रोस्तदभेद इति न युक्तं, तत्तत्संवेदनविशेषेण सहोपलम्भनियमाभावात्, एकं ज्ञानं विना ज्ञानान्तरेणाप्यर्थोपलब्धेः ।
विशेषेण सहोपलम्भस्य  व्यभिचारेऽपि चित्सामान्येन सहोपलम्भनियमोऽस्तीति चेत्, तदपि न सम्यक्, विशेषव्यतिरिक्तस्य चित्सामान्यस्यैवानुवृत्तस्य सर्वविषयविज्ञानविषयस्याभावदित्यर्थः ।
यथामुद्रितपाठे त्वयमर्थः  सहोपलम्भनियमो न सिद्धयति चेत्सर्वं ससामान्यविसेषं ज्ञातृज्ञेयात्मकं ज्ञेयजातं ज्ञानभिन्नतयास्त्येवेत्यर्थः ।
एवं मितिमातृमेयभिदायाथार्थ्यं समर्थितं भवति ।
अयं श्लोकः सहोपलम्भनियमा दित्यादिना प्रपञ्च स्फुटमञ्चती  त्यन्तेन अनूद्यमानपरपक्ष प्रतिक्षेपभागे सुसङ्गतः ।
तस्मादुपलभ्यमानसंवित्सिद्धिभागान्तिमश्लोकानन्तरं संयोजनीयः ।
अयं च श्लोको ज्ञेयज्ञात्रोः संविदैक्यसाध कसहोपलम्भनियमरूपहेतोरसिद्धिप्रतिपादक इति ध्येयम् ॥१९७॥
सहोपलम्भनियमान्नान्योर्ऽथः संविदो भवेत् ।
यदेतदपराधीनस्वप्रकाशं तदेव हि ।
स्वयभ्प्रकाशताशब्दमिति वृद्धाः प्रचक्षते ॥१९८॥
यस्मिन्नभासमानेऽपि यो नामार्थो न भासते ।
नासावर्थान्तरस्त(रं त) स्मान्मिथ्येन्दुरिव चन्द्रतः ॥१९९॥
अभासमाने विज्ञाने न चात्मार्थावभासनम् ।
इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ॥२००॥
अत्र निरसनीयमतानुवादः सहोपलम्भनियमा  दित्यादिना ।
अर्थप्रकाशे नियमेन संविदो  भानासिद्ध्यर्थं तस्याः स्वप्रकाशत्वमाह यदेतदिति ।
स्वयम्प्रकाशताप्रवृत्तिनिमित्तकः शब्दो यस्य तत्स्वयंप्रकाशताशब्दं स्वयंप्रकाशशब्दवाच्यम् ।
अनेन सहोपलम्भनियमः सिद्धः ।
यस्मि न्निति ।
संवित्प्रकाशाभावेर्ऽथस्यापि न प्रकाश इति संवित्प्रकाशाभावव्यापकाभावप्रतियोगिप्रकाशस्यार्थस्य संविदनन्यत्वं सिध्यति, बिम्बाप्रकोशेऽप्रकाशमानस्य प्रतिबम्बस्येव बिम्बानन्यत्वमित्यर्थः ।
अभासमान इति ।
आत्मा  ज्ञाता, अर्थ  ज्ञेयम् ।
संविद्विवर्तत्वम संविदधिष्ठानकारोपविषयत्वम् प्रपञ्चः  वेद्यवेदितृप्रपञ्चः, अञ्जतिच्छति,   प्राप्नोतीति यावत् ।
अधिष्ठानसत्तातिरिक्तसत्ताशून्यत्वलक्षणं संविदनन्यत्वं प्रपञ्चस्य विवक्षितम् ।
नीलपीतादिबाह्यकारो वासनाकल्पितो ज्ञाने इति योगाचारपक्षः, नीलापीताद्यर्थोऽविद्याकल्पितस्तत्रेति मायिपक्षश्च निराचिकीर्षितोऽत्रेति बोध्यम् ॥१९८ ॥१९९ ॥२००॥
संरक्ष्यमाणभेदास्ते नानुमानानुवर्तिनः ॥२०१॥
एतत्पक्षं प्रतिक्षिपति मैव मित्यादिना ।
एवं ज्ञातृज्ञेयलक्षणार्थान्मा स्म परिभवः, न प्रतिक्षिपेरित्यर्थः ।
प्रतिक्षेपेषां कुतो न घटते ? तत्राह प्रत्यक्षेणे, ति ।
बलवत्तरप्रत्यक्षप्रमाणसंरक्ष्यमाणा एते न त्वदीयसंविदैक्यानुमानानुवर्तिनो ज्ञातृज्ञेयभेदा इत्यर्थः ।
बलीयस्त्वं च प्रत्यक्षस्योपजीव्यत्वेन ।
अर्थेषु संविदैक्यसाधनार्थं हि अर्थानां संविदश्च स्वरूपग्रहणं तावदपेक्षितम् ।
तत एव च मिथस्तेषां भेदोऽपि सिद्ध इति प्रत्यक्षबाधितमनुमानं न प्रवर्तत इत्यर्थः ।
अत्र ज्वालाभेदानुमानवैषम्यप्रकारो विवृत आत्मसिद्धौ, तत एवानुसन्धेयः ॥२०१॥
तथा हीदमहं वेद्मीत्यन्योन्यानात्मना स्फुटम् ।
त्रयं साक्षाच्चाका स्तीति सढर्वेषामात्मसाक्षिकम् ॥२०२॥
तथा हि ति ।
अन्योन्यानात्मना  परस्परभिन्नत्वेन, त्रयं ज्ञातृज्ञेयज्ञानलक्षणपदार्थत्रयम् ।
अत्र श्रीपरशरभट्टार्यश्रीसूक्तिरनुसन्धेया अहमिदमभिवेद्मीत्यात्मबित्त्योर्विभेदे स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु ।
प्रमितिरपि मृषा स्यातन्मेयमिथ्यात्ववादे यदि तदपि सहेरन्दीर्धमस्मन्मतायुः इति ॥२०२॥
प्रत्यक्षप्रतिपश्रं च नानुमानं प्रवर्तते ।
न हि वह्नेरनुष्णत्वं द्रव्यत्वादनुमीयते ॥२०३॥
प्रत्यक्षेति ।
प्रतिपक्षं  विरुद्धम् ।
वह्नेरनुष्णत्वानुमानमिव प्रत्यक्षबाधितमर्थज्ञात्रोः संविदैक्यानुमानं भवदीयमिति प्रोक्तं भवति ॥२०३॥
किञ्च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः ।
तवापि न हि संवित्तिः स्वात्मना सह भासते ॥२०४॥
कञ्चि साहित्यं भेदनियतं ज्ञानार्थयोर्हेतुघटकं तदभेदसाधने विरुद्धमित्याह किञ्चे ति ।
संवित्संविदा सहोपलभ्यत इति हि तवापि न सम्मतम् ।
तत्संविदा  तत्संविदा सहोपलभ्यमानमर्थजातं नियमेन तद्भिन्नमेव भवेदिति यावत् ॥२०४॥
नीलाद्युपप्लवापेतस्वच्छचिन्मात्रसन्ततिः ।
स्वापादौ भासते, नैवमर्थः संवेदनात्पृथक् ॥
तेन संवेदनं सत्यं संवेद्योर्ऽथस्त्वसन्निति ॥२०५॥
अत्र शङ्कते नीलाद्युपप्लवे ति ।
अर्थोपरागमन्तरा ज्ञानं भासते स्वापादौ ।
नैवमर्थो  ज्ञानाद्विना कदापि भासते ।
तत्प्रतिबिम्बस्येवार्थजातस्यमिथ्यात्वम् संविदि कल्पितस्येति भावः ॥२०५॥
तदेतदपरामृष्ट स्ववाग्बाधस्य जल्पितम् ।
सहोपलम्भनियमो येनैवं सति हीयते ॥२०६॥
परिहरति तदेतदिति ।
अर्थं विना संविदो भाने तां विनार्ऽथस्यापि भानं सिद्धिप्रायमिति  सहोपलम्भनिरूपभवदुक्तहेत्वसिद्धिरिति पूर्वापरस्ववचनविरोधमपि न परामृष्टवान्भवानेवंवदन्निति  यावत् ॥२०६॥
यस्मादृते  यदाभाति भाति य(त) स्मादृतेऽपि तत् ।
घटादृतेऽपि निर्भातः पटादिव घटः स्वयम् ॥२०७॥
(इति चिदद्वैतनिरासेन मितिमातृमेयभिदायाथार्थ्यसमर्थनं ) ( एतावानेव संविस्तिद्धिभाग उपलभ्यते ) इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीमद्भगवद्यामुनमुनिसमनुगहीते सिद्धित्रये संवित्सिद्धिः ॥
हेत्वसिद्धिमेवोपपादयति यस्मादिति ।
निर्भात इति शत्रन्तात्पञ्चमी ।
निर्भातादित्यर्थः ।
घटादृते भातातत्पटादृते  भानं घटस्य यथा सिध्यति, तथार्ऽथं विनाभाताज्ज्ञानाद्विना भानसर्थस्य सिध्यतीति सहोपलम्भनियमो ननीलदितद्धियां सिध्यतीत्यर्थः ।
ननु ज्ञानेनैवार्थप्रकाशस्य वाच्यत्वाज्ज्ञानस्य च स्वप्रकाशत्वाज्ज्ञानभानं विनारंऽथभानं न युज्यत इति चेदेवमपि सहोपलम्भनियमो न युज्यत एव ज्ञानविशेषेण ज्ञानसामान्येन वा, पूर्वत्र व्यभिचारातुत्तरत्र परमतेऽसिद्धश्चे ।
इदमर्थ एव सहोपलम्भनियम  इति १९७ तमः श्लोकः, स चात्रानुसन्धेय इति प्रागेवोक्तम् ।
एवं मितिमातृमेयभिदायाथात्म्यं न निह्नोतुं शक्यत इति व्यवस्थापि तमत्रेति ध्येयम् ॥२०७॥   ७॥
(व्या ०) ग्रन्थभागोऽग्रिमः क्वापि नेत समुपलभ्यते ।
व्याख्यानं विहितं यावदुपलब्धस्य सारतः ॥
श्रीभाष्यकारवारवंशकृतावतारः श्रीभाष्यभावविशदीकरणप्रवीणः ।
प्रज्ञानिधिर्गुरुवरो मम भूतपुर्यां रामानुजार्य उरुकीर्तीरयं समिन्धे ॥
तत्पादपङ्कजनिषेवणलब्धबोधः कृष्णार्यसंज्ञगुरुतातपदाश्रितोऽहम् ।
अण्णङ्गरार्य इति च प्रथिताभिधानो व्याख्याभिमामकरवं प्रतिवादिभीकृत गुरुपादप्रसादेन यामुनोक्त्यर्णवे तरिः ।
व्यख्येयं विहिता रम्या तुष्टये गुरुपादयोः ॥
यद्यत्र तु गुणाः केचित्ते त्वाचार्यप्रसादजाः ।
मामकीनाः पुनर्देषा इति ध्येयं विवेकिभिः ॥
वचः कुसुमहारोऽयं श्रीवक्षसि समर्प्यते ।
लक्ष्मीनारायणोऽनेन प्रीयतां पुरुषोत्तमः ॥
ऋतुव्योमखनेत्रा (२००६) ङ्के वैक्रमेऽब्दे कृतिस्त्वियम् ।
आषाढपौर्णमास्यां संपूर्णा वृत्तालये पुरे ॥

इति श्रीनगपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वय
भूषणाविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यरुत्ररत्रेन चतुस्तन्त्रीपा
रावरपारीणदिगन्तविश्रन्तकीर्तिदयामूर्तिश्रीमद्भाष्यकार
दिव्यवंशावतीर्णश्रीभूतपुरीनिवासरसिकविद्वत्सार्व
भोमहारीतश्रीमदासूरिरामानुजाचार्यदेशि
केन्द्रचरणकमलवरिवस्यासंमधिगतपदवाक्य
प्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.
अण्णङ्गराचार्येण न्यायव्याकरण
शिरोमणिनोभयवेदान्तविदुषा
प्रमीतं संवित्सिद्धर्व्याख्यानं
सिद्धाञ्जनम् संपूर्णं
विजयतान्तमां ॥

Translation - भाषांतर
N/A

References :

संवित्सिद्धि

Last Updated : 2016-11-11T12:48:17.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

challenging job

  • आव्हानात्मक काम 
  • आव्हानात्मक कामगिरी 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site