TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

संवित्सिद्धि - २

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.
याचे लेखक आहेत यमुनाचार्य.

संवित्सिद्धि
एकं एवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ॥१॥
ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ॥२॥
अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः ॥३॥
किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ॥४॥
पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ॥५॥
पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ॥६॥
तद्विरुद्धं अथो वा स्यात्त्रिष्वप्यन्यन्न बाधते ॥७॥
अन्यत्वे सदृशत्वे वा द्वितीयं सिद्ध्यति ध्रुवम् ॥८॥
विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ॥९॥
ब्रह्म प्राप्नोति यस्मात्तद्द्वितीयेन विरुध्यते ॥१०॥
अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ॥११॥
द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ॥१२॥
ननु नञ् ब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् ॥१३॥
द्वितीयग्रहणं यस्मात्सर्वस्यैवोपलक्षणम् ॥१४॥
नैवं निषेधो न ह्यस्माद्द्वितीयस्यावगम्यते ॥१५॥
ततोऽन्यत्तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥१६॥
द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ॥१७॥
सत्यादिलक्षणोक्तीनां अपलक्षणता भवेत् ॥१८॥
अद्वितीये द्वितीयार्थ नास्तितामात्रगोचरे ॥१९॥
स्वनिष्ठत्वान्नञर्थस्य न स्याद्ब्रह्मपदान्वयः ॥२०॥
द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ॥२१॥
विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ॥२२॥
प्रसक्तं पूर्ववत्सर्वं बहुव्रीहौ समस्यति ॥२३॥
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥२४॥
ब्रह्म प्रत्यद्वितीयत्वात्स्वस्थास्तिष्ठन्त्यबाधिताः ॥२५॥
किंच तत्र बहुव्रीहौ समासे संश्रिते सति ॥२६॥
वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ॥२७॥
सत्यर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥२८॥
द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ॥२९॥
असत्त्वान्न ह्यसद्ब्रह्म भवेन्नापि विशेषणम् ॥३०॥
तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ॥३१॥
स्वप्रमाणबलात्सिद्धः श्रुत्या चाप्यनुमोदितः ॥३२॥
तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयं उच्यते ॥३३॥
द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ॥३४॥
समो वाभ्यदिको वास्य यो द्वितीयस्तु गण्यते ॥३५॥
यतोऽस्य विभवव्यूह कलामात्रं इदं जगत् ॥३६॥
द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् ॥३७॥
यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले ॥३८॥
इति तत्तुल्यनृपति निवारणपरं वचः ॥३९॥
न तु तद्भृत्यतत्पुत्र कलत्रादिनिषेधकम् ॥४०॥
तथा सुरासुरनर ब्रह्मब्रह्माण्डकोटयः ॥४१॥
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ॥४२॥
ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ताः ॥४३॥
विष्णोर्विभूतिमहिम समुद्रद्रप्सविप्रुषः ॥४४॥
कः खल्वङ्गुलिभङ्गेन समुद्रान्सप्तसङ्ख्यया ॥४५॥
गणयन्गणयेदूर्मि फेनबुद्बुदविप्रुषः ॥४६॥
यथैक एव सविता न द्वितीयो नभःस्थले ॥४७॥
इत्युक्त्या न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ॥४८॥
यथा प्रधानसङ्ख्येय सङ्ख्यायां नैव गण्यते ॥४९॥
सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थत्वत् ॥५०॥
तथा
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥५१॥
इति ब्रुवञ् जगत्सर्वं इत्थम्भावे न्यवेशयत् ॥५२॥
तथा  
एतावानस्य महिमा ततो ज्यायस्तरो हि सः ॥५३॥
यत्रान्यन्न विजानाति स भूमोदरं अन्तरम् ॥५४॥
कुरुतेऽस्य भयं व्यक्तं इत्यादिश्रुतयः पराः ॥५५॥
मेरोरिवाणुर्यस्येदं ब्रह्माण्डं अखिलं जगत् ॥५६॥
इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥५७॥
वाचारम्भणमात्रं तु जगत्स्थावरजङ्गमम् ॥५८॥
विकारजातं कूटस्थं मूलकारणं एव सत् ॥५९॥
अनन्यत्कारणात्कार्यं पावकाद्विस्फुलिङ्गवत् ॥६०॥
मृत्तिकालोहबीजादि नानादृष्टान्तविस्तरैः ॥६१॥
(च्फ़्. छाऊप्६.४६)
नाशकद्दग्धुं अनलस्तृणं मज्जयितुं जलम् ॥६२॥
(च्फ़्. केऊप्३.१४२८)
न वायुश्चलितुं शक्तस्तच्छक्त्याप्यायनादृते ॥६३॥
एकप्रधानविज्ञानाद्विज्ञातं अखिलं भवेत् ॥६४॥
(च्फ़्. छाऊप्६.१.३फ़्फ़्.)
इत्यादिवेदवचन तन्मूलाप्तागमैरपि ॥६५॥
ब्रह्मात्मनात्मलाभोऽयं प्रपञ्चश्चिदचिन्मयः ॥६६॥
इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ॥६७॥
तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः ॥६८॥
व्यवहारास्तु लुप्येरंस्तथा स्याद्ब्रह्मधीरपि ॥६९॥
व्यावहारिकसत्यत्वान्मृषत्वेऽप्यविरुद्धता ॥७०॥
प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ॥७१॥
अतश्चोपनिषज्जात ब्रह्माद्वैतधिया जगत् ॥७२॥
न बाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् ॥७३॥
ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ॥७४॥
असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ॥७५॥
सदसत्त्वं तथैकस्य विरुद्धत्वादसम्भवि ॥७६॥
सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्गमे ॥७७॥
तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ॥७८॥
सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिजानते ॥७९॥
सत्त्वप्राप्तिं पुरःकृत्य नास्तीति प्रत्ययोदयात् ॥८०॥
सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास्तु प्रतिपेदिरे ॥८१॥
सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसङ्कटे ॥८२॥
विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः ॥८३॥
सदसद्भ्यां अनिर्वाच्यं प्रपञ्चं केचिदूचिरे ॥८४॥
सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ॥८५॥
घटादेरिति मन्वाना व्यवस्थां अपरे जगुः ॥८६॥
तदेवं वादिसंमर्दात्संशये समुपस्थिते ॥८७॥
निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥८८॥
घटस्वरूपे नास्तित्वं अस्तित्वं यद्यबूबुधत् ॥८९॥
स्यादेव युगपत्सत्त्वं असत्त्वं च घटादिषु ॥९०॥
इदानीं इदं अत्रास्ति नास्तीत्येवंविधा यतः ॥९१॥
देशकालदशाभेदादस्तिनास्तीति नो धियः ॥९२॥
अतो देशादिभेदेन सदसत्त्वं घटादिषु ॥९३॥
व्यवस्थितं निरस्तत्वाद्वादस्येह न सम्भवः ॥९४॥
ननु देशादिसम्बन्धः सत एवोपपद्यते ॥९५॥
न देशकालसम्बन्धादसतः सत्त्वं इष्यते ॥९६॥
सम्बन्धो द्व्याश्रयस्तस्मात्सतः सत्त्वं सदा भवेत् ॥९७॥
असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥९८॥
आद्यन्तवान्प्रपञ्चोऽतः सत्कक्ष्यान्तर्निवेश्यते ॥९९॥
उक्तं च
आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा ॥१००॥
इति
अतो निश्चितसद्भावः सदा सन्नभ्युपेयताम् ॥१०१॥
असतः सर्वदासत्त्वं जन्ययोगात्खपुष्पवत् ॥१०२॥
असत्त्वे न विशेषोऽस्ति प्रागत्यन्तासतोरिह ॥१०३॥
....................................................................
श्वेतकेतुं उपादाय तत्त्वं इत्यपि यच्छ्रुतम् ॥१०४॥
(च्फ़्. छाऊप्६.९.४)
षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ॥१०५॥
कार्पण्यशोकदुःखार्तश्चेतनस्त्वम्पदोदितः ॥१०६॥
सर्वज्ञः सत्यसङ्कल्पो निःसीमसुखसागरः ॥१०७॥
तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत्कथम् ॥१०८॥
त्वमर्थस्थे तटस्थे वा (तदर्थस्थे विभेदके) ॥१०९॥
गुणे तत्त्वम्पदश्रुत्योरैकार्थ्यं दूरवारितम् ॥११०॥
अज्ञत्वसर्ववेदित्व दुःखित्वसुखितादिके ॥१११॥
विशेषणे वा चिद्धातोरथवाप्युपलक्षणे ॥११२॥
विरुद्धगुणसङ्क्रान्तेर्भेदः स्यात्त्वंतदर्थयोः ॥११३॥
वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ॥११४॥
सोऽयं गौरितिवत्तत्त्वं पदयोरित्यपेशलम् ॥११५॥
देशकालदशाभेदादेकस्मिन्नपि धर्मिणि ॥११६॥
विरुद्धद्वन्द्वसङ्क्रान्तेः सोऽयं गौरिति युज्यते ॥११७॥
स्वप्रकाशस्य चिद्धातोर्विरुद्धद्वन्द्वसङ्गतौ ॥११८॥
न व्यवस्थापकं किंचिद्देशकालदशादिके ॥११९॥
निर्धूतनिखिलद्वन्द्व स्वप्रकाशे चिदात्मनि ॥१२०॥
द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ॥१२१॥
एतेन सत्यकामत्व जगत्कारणतादयः ॥१२२॥
मा(योपाधौ) परेऽध्यस्ताः शोकमोहादयः पुनः ॥१२३॥
अविद्योपाधिके जीवे विभागेनेति यन्मतम् ॥१२४॥
क्षुद्रब्रह्मविदां एतन्मतं प्रागेव दूषितम् ॥१२५॥
चित्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः ॥१२६॥
पूर्वस्मिन्सर्वसङ्कर्यं परजीवाविभागतः ॥१२७॥
उत्तरस्मिन्नपि तथा विशिष्टं अपि चिद्यदि ॥१२८॥
चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः ॥१२९॥
विभिन्नं इव विभ्रान्तं विशिस्टं च (इति मन्यते) ॥१३०॥
तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ॥१३१॥
न हि दण्डिशिरस्छेदाद्देवदत्तो न हिंसितः ॥१३२॥
अचिदंशव्यपोहेन चिदेकपरिशेषता ॥१३३॥
अतस्तत्त्वं असीत्यादेरर्थ इत्यप्यसुन्दरम् ॥१३४॥
अब्रह्मानात्मताभावे प्रत्यक्चित्परिशिष्यते ॥१३५॥
तत्त्वम्पदद्वयं जीव परतादात्म्यगोचरम् ॥१३६॥
तन्मुख्यवृत्ति तादात्म्यं अपि वस्तुद्वयाश्रयम् ॥१३७॥
भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ॥१३८॥
अभेदाभेदिनोऽसत्ये बन्धे सति निरर्थकः ॥१३९॥
अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ॥१४०॥
भेदः परस्परानात्म्यं भावानां एवं एतयोः ॥१४१॥
स्वरूपं अभ्युपेत्यैव भेदाभेदविकल्पयोः ॥१४२॥
(बाधनम्) तेन वाग्बाधाद्विरोधेन निगृह्यसे ॥१४३॥
भिन्नाभिन्नत्वसम्बन्ध सदसत्त्वविकल्पनम् ॥१४४॥
प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ॥१४५॥
नीले नीलमतिर्यादृगुत्पले नीलधीर्हि सा ॥१४६॥
नीलं उत्पलं एवेदं इति साक्षाच्चकास्ति नः ॥१४७॥
यथा विदितसंयोग सम्बन्धेऽप्यक्षगोचरे ॥१४८॥
भेदाभेदादिदुस्तर्क विकल्पाधानविभ्रमः ॥१४९॥
तद्वत्तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके ॥१५०॥
श्रुतिदण्डेन दुस्तर्क विकल्पभ्रमवारणम् ॥१५१॥
निर्दोषापौरुषेयी च श्रुतिरत्यर्थं आदरात् ॥१५२॥
असकृत्तत्त्वं इत्याह तादात्म्यं ब्रह्मजीवयोः ॥१५३॥
ब्रह्मानन्दह्रदान्तस्थो मुक्तात्मा सुखं एधते ॥१५४॥
फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता ॥१५५॥
एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥१५६॥
....................................................................
किंच प्रपञ्चरूपेण का नु संविद्विवर्तते ॥१५७॥
न तावद्घटधीस्तस्यां असत्यां अपि दर्शनात् ॥१५८॥
न हि तस्यां अजातायां नष्टायां वाखिलं जगत् ॥१५९॥
नास्तीति शक्यते वक्तुं उक्तौ प्रत्यक्षबाधनात् ॥१६०॥
नाप्यन्यसंवित्तन्नाशेऽप्यन्येषां उपलम्भनात् ॥१६१॥
ननु संविदभिन्नैका न तस्यां अस्ति भेदधीः ॥१६२॥
घटादयो हि भिद्यन्ते न तु सा चित्प्रकाशनात् ॥१६३॥
घटधीः पटसंवित्ति समये नावभाति चेत् ॥१६४॥
नैवं घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ॥१६५॥
घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ॥१६६॥
तद्व्यावृत्तिपदेनापि किं सैवोक्ताथवेतरत् ॥१६७॥
सैव चेद्भासतेऽन्यच्चेन्न ब्रूमस्तस्य भासनम् ॥१६८॥
किंचास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ॥१६९॥
ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ॥१७०॥
न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः ॥१७१॥
घटादिवेद्यभेदोऽपि केवलं भ्रमलक्षणः ॥१७२॥
यदा तदा तदायत्तो धीभेदावग्रहोदयः ॥१७३॥
कुतः कुतस्तरां तस्य परमार्थत्वसम्भवः ॥१७४॥
किंच स्वयम्प्रकाशस्य स्वतो वा परतोऽपि वा ॥१७५॥
प्रागभावादिसिद्धिः स्यात्स्वतस्तावन्न युज्यते ॥१७६॥
स्वस्मिन्सति विरुद्धत्वादभावस्यानवस्थितेः ॥१७७॥
स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसम्भवात् ॥१७८॥
अनन्यगोचरत्वेन चितो न परतोऽपि च ॥१७९॥
किंच वेद्यस्य भेदादेर्न चिद्धर्मत्वसम्भवः ॥१८०॥
रूपादिवदतः संविदद्वितिया स्वयम्प्रभा ॥१८१॥
अतस्तद्भेदं आश्रित्य यद्विकल्पादिजल्पितम् ॥१८२॥
तदविद्याविलासोऽयं इति ब्रह्मविदो विदुः ॥१८३॥
हन्त ब्रह्मोपदेशोऽयं श्रद्दधानेषु शोभते ॥१८४॥
वयं अश्रद्दधानाः स्मो ये युक्तिं प्रार्थयामहे ॥१८५॥
प्रतिप्रमातृविषयं परस्परविलक्षणाः ॥१८६॥
अपरोक्षं प्रकाशन्ते सुखदुःखादिवद्धियः ॥१८७॥
सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ॥१८८॥
न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च संमतः ॥१८९॥
यदि सर्वगता नित्या संविदेवाभ्युपेयते ॥१९०॥
ततः सर्वं सदा भायान्न वा किंचित्कदाचन ॥१९१॥
तदानीं न हि वेद्यस्य सन्निधीतरकारिता ॥१९२॥
व्यवस्था घटते वित्तेर्व्योमवद्वैभवाश्रयात् ॥१९३॥
नापि कारणभेदेन नित्यायास्तदभावतः ॥१९४॥
न च स्वरूपनानात्वात्तदेकत्वपरिग्रहात् ॥१९५॥
ततश्च बधिरान्धादेः शब्दादिग्रहणं भवेत् ॥१९६॥
गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ॥१९७॥
ननु नः संविदो भिन्नं सर्वं नाम न किंचन ॥१९८॥
अतः सर्वं सदा भायादित्यकाण्डेऽनुयुज्यते ॥१९९॥
इदं आख्याहि भोः किं नु नीलादिर्न प्रकाशते ॥२००॥
प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥२०१॥
आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ॥२०२॥
यतः पदपदार्थादि न किंचिदवभासते ॥२०३॥
द्वितीये संविदोऽद्वैतं व्याहन्येत समीहितम् ॥२०४॥
यद्ययं विविधाकार प्रपञ्चः संविदात्मकः ॥२०५॥
सापि संवित्तदात्मेति यतो नाना प्रसज्यते ॥२०६॥
न चाविद्याविलासत्वाद्भेदाभेदानिरूपणा ॥२०७॥
सा हि न्यायानलस्पृष्टा जाटुषाभरणायते ॥२०८॥
तथा हि यद्यविद्येयं विद्याभावात्मिकेष्यते ॥२०९॥
निरुपाख्यस्वभावत्वात्सा न किंचिन्नियच्छति ॥२१०॥
अर्थान्तरं अविद्या चेत्साध्वी भेदानिरूपणा ॥२११॥
अर्थानर्थान्तरत्वादि विकल्पोऽस्या न युज्यते ॥२१२॥
विद्यातोऽर्थान्तरं चासाविति सुव्याहृतं वचः ॥२१३॥
अथार्थान्तरभावोऽपि तस्यास्ते भ्रान्तिकल्पितः ॥२१४॥
हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ॥२१५॥
किंच शुद्धाजडा संविदविद्येयं तु नेदृशी ॥२१६॥
तत्केन हेतुना सेयं अन्यैव न निरूप्यते ॥२१७॥
अपि चेयं अविद्या ते यदभावादिरूपिणी ॥२१८॥
सा विद्या किं नु संवित्तिर्वेद्यं वा वेदिताथवा ॥२१९॥
वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ॥२२०॥
न हि ज्ञानादृतेऽज्ञानं अन्यतस्ते निवर्तते ॥२२१॥
संविदेवेति चेत्तस्या ननु भावादसम्भवः ॥२२२॥
किंचेयं तद्विरुद्धा वा न तस्याः क्वापि सम्भवः ॥२२३॥
यतोऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥२२४॥
अभावोऽन्यो विरुद्धो वा संविदोऽपि यदीष्यते ॥२२५॥
तदानीं संविदद्वैत प्रतिज्ञां दूरतस्त्यज ॥२२६॥
किंचासौ कस्य जीवस्य को जीवो यस्य सेति चेत् ॥२२७॥
नन्वेवं असमाधानं अन्योन्याश्रयणं भवेत् ॥२२८॥
नर्ते जीवादविद्या स्यान्न च जीवस्तया विना ॥२२९॥
न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ॥२३०॥
ब्रह्मणश्चेन्न सर्वज्ञं कथं तद्बम्भ्रमीति ते ॥२३१॥
अविद्याकृतदेहात्म प्रत्ययाधीनता न ते ॥२३२॥
ब्रह्मसर्वज्ञभावस्य तत्स्वाभाविकताश्रुतेः ॥२३३॥
भेदावभासगर्भत्वादथ सर्वज्ञता मृषा ॥२३४॥
तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ॥२३५॥
यथा शब्दान्तराभ्यास सङ्ख्याद्याः शास्त्रभेदकाः ॥२३६॥
भेदावभासगर्भाश्च यथार्थास्तादृशी न किम् ॥२३७॥
सर्वज्ञे नित्यमुक्तेऽपि यद्यज्ञानस्य सम्भवः ॥२३८॥
तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ॥२३९॥
सर्वज्ञत्वादिवचन प्रामाण्यं व्यावहारिकम् ॥२४०॥
तात्त्विकं तु प्रमाणत्वं अद्वैतवचसां इति ॥२४१॥
नियामकं न पश्यामो निर्बन्धात्तावकादृते ॥२४२॥
आश्रयप्रतियोगित्वे परस्परविरोधिनी ॥२४३॥
कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ॥२४४॥
प्रत्यक्त्वेनाश्रयो ब्रह्म रूपेण प्रतियोगि चेत् ॥२४५॥
(एम्.; प्रत्यक्तत्वेनाश्रयो Eद् ।उन्मेत्रिचल्)
रूपभेदः कुतस्त्योऽयं यद्यविद्याप्रसादजः ॥२४६॥
ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः ॥२४७॥
अवस्तुत्वादविद्यायाः (नैतत्तद्दूषणं यदि) ॥२४८॥
वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥२४९॥
(स्वसाध्यस्य पुरः)काराद्दोषोऽन्योन्यसमाश्रयः ॥२५०॥
न वस्तुत्वादवस्तुत्वादित्यतो नेदं उत्तरम् ॥२५१॥
किंच विद्या न चेद्(वस्तु व्यवहारः कुतस्त्वयम्) ॥२५२॥
(न चैष व्योम)पुष्पादि व्यवहारवदिष्यते ॥२५३॥
नाप्यवस्त्विति चो(क्तिस्ते वस्तुतां तत्र साधयेत्) ॥२५४॥
(निषिध्यते) समस्तेन नञा वस्त्विति चेत्(न तत्) ॥२५५॥
समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते ॥२५६॥
प्रतिप्रसूतं व्यस्तेन पुनस्तदिति वस्तुता ॥२५७॥
अतो न वस्तु ना(वस्तु याविद्या तद्बले सति) ॥२५८॥
(भेदो) न कश्चकास्तिति विवक्षीर्मा स्म जातुचित् ॥२५९॥
किंच प्रपञ्चनिर्वाह जननी येयं आश्रिता ॥२६०॥
अविद्या सा किं एकैव नैका वा तदिदं वद ॥२६१॥
तदाश्रयश्च संसारी तथैको नैक एव वा ॥२६२॥
सा चेदेका ततः सैका शुकस्य ब्रह्मविद्यया ॥२६३॥
पूर्वं एव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ॥२६४॥
स्यान्मतं नैव ते सन्ति वामदेवशुकादयः ॥२६५॥
यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ॥२६६॥
मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ॥२६७॥
दृश्यत्वान्मामकस्वप्न दृश्यभेदप्रपञ्चवत् ॥२६८॥
यत्पुनर्ब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ॥२६९॥
वाक्यं तत्स्वाप्नमुक्त्युक्ति युक्त्या प्रत्यूह्यतां इति ॥२७०॥
नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ॥२७१॥
प्रपञ्चं साधयत्यन्यः कथं प्रत्युच्यते त्वया ॥२७२॥
त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ॥२७३॥
स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ॥२७४॥
इत्यन्योन्यविरुद्धोक्ति व्याहते भवतां मते ॥२७५॥
मुखं अस्तीति यत्किंचित्प्रलपन्निव लक्ष्यसे ॥२७६॥
यथा च स्वाप्नमुक्त्युक्ति सदृशी तद्विमुक्तिगीः ॥२७७॥
तथैव भवतोऽपीति व्यर्थो मोक्षाय ते श्रमः ॥२७८॥
यथा तेषां अभूतैव पुरस्तादात्मविद्यया ॥२७९॥
मुक्तिर्भूतोच्यते तद्वत्परस्तादात्मविद्यया ॥२८०॥
अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ॥२८१॥
सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥२८२॥
ननु नेदं अनिष्टं मे यन्मुक्तिर्न भविष्यति ॥२८३॥
आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ॥२८४॥
तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ॥२८५॥
येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥२८६॥
अविद्याप्रतिबद्धत्वादथ सा नित्यसत्यपि ॥२८७॥
असतीवेति तद्व्यक्तिर्विद्याफलं उपेयते ॥२८८॥
हस्तस्थं एव हेमादि विस्मृतं मृग्यते यथा ॥२८९॥
यथा तदेव हस्तस्थं अवगम्योपशाम्यते ॥२९०॥
तथैव नित्यमुक्तात्म स्वरूपानवबोधतः ॥२९१॥
संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ॥२९२॥
हन्त केयं अभिव्यक्तिर्या विद्याफलं इष्यते ॥२९३॥
स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ॥२९४॥
संवित्किं सैव किंवाहं ब्रह्मास्मीतिति किदृशी ॥२९५॥
यदि स्वरूपसंवित्सा नित्यैवेति न तत्फलम् ॥२९६॥
अथ ब्रह्माहं अस्मीति संवित्तिर्व्यक्तिरिष्यते ॥२९७॥
ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥२९८॥
किंच सा तत्त्वं अस्यादि वाक्यजन्या भवन्मते ॥२९९॥
उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ॥३००॥
अपि च व्यवहारज्ञाः सति पुष्कलकारणे ॥३०१॥
कार्यं न जायते येन तं आहुः प्रतिबन्धकम् ॥३०२॥
इह किं तद्यदुत्पत्तुं उपक्रान्तं स्वहेतुतः ॥३०३॥
अविद्याप्रतिबद्धत्वादुत्पत्तिं न प्रपद्यते ॥३०४॥
न मुक्तिर्नित्यसिद्धत्वान्न ब्रह्मास्मीति धीरपि ॥३०५॥
न हि ब्रह्माहं अस्मीति संवित्पुष्कलकारणम् ॥३०६॥
संसारिणस्तदास्तीति कथं सा प्रतिबध्यते ॥३०७॥
यतः सा कारणाभावादिदानीं नोपजायते ॥३०८॥
न पुनः प्रतिबद्धत्वादस्थाने तेन तद्वचः ॥३०९॥
किंचैको जीव इत्येतद्वस्तुस्थित्या न युज्यते ॥३१०॥
अविद्यातत्समाश्लेष जीवत्वादि मृषा हि ते ॥३११॥
प्रातिभासिकं एकत्वं प्रतिभासपराहतम् ॥३१२॥
यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥३१३॥
आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ॥३१४॥
अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ॥३१५॥
तेन यौक्तिकं एकत्वं अपि युक्तिपराहतम् ॥३१६॥
प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ॥३१७॥
तत्तत्स्वात्मवदन्येऽपि देहिनोऽशक्यनिह्नवाः ॥३१८॥
यथानुमेयाद्वह्न्यादेरनुमाना (?) विलक्षणाः ॥३१९॥
प्रत्यक्षं (?) ते तथान्येभ्यो जीवेभ्यो न पृथक्कथम् ॥३२०॥
न चेच्चेष्टाविशेषेण परो बोद्धानुमीयते ॥३२१॥
व्यवहारोऽवलुप्येत सर्वो लौकिकवैदिकः ॥३२२॥
न चौपाधिकभेदेन मेयमातृविभागधीः ॥३२३॥
स्वशरीरेऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥३२४॥
यथा तत्र शिरःपाणि पादादौ वेदनोदये ॥३२५॥
अनुसन्धानं एकत्वे तथा सर्वत्र ते भवेत् ॥३२६॥
प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि ॥३२७॥
चिरातिवृत्ताः प्राग्जन्म भोगा न स्मृतिगोचराः ॥३२८॥
युगपज्जायमानेषु (सुखदुःखादिषु स्फुटः) ॥३२९॥
आश्रयासङ्करस्तत्र कथं ऐकार्थ्यविभ्रमः ॥३३०॥
न च प्रातिस्विकाविद्या कल्पितस्वस्वदृश्यकैः ॥३३१॥
जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ॥३३२॥
परवार्तानभिज्ञास्ते स्वस्वस्वप्नैकदर्शिनः ॥३३३॥
कथं प्रवर्तयेयुस्तां सङ्गाद्येकनिबन्धनाम् ॥३३४॥
....................................................................
किंच स्वयम्प्रकाशत्व विभुत्वैकत्वनित्यताः ॥३३५॥
त्वदभ्युपेता बाधेरन्संविदस्तेऽद्वितीयताम् ॥३३६॥
संविदेव न ते धर्माः सिद्धायां अपि संविदि ॥३३७॥
विवाददर्शनात्तेषु तद्रूपाणां च भेदतः ॥३३८॥
न च ते भ्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः ॥३३९॥
तत्त्वावेदकवेदान्त वाक्यसिद्धा हि ते गुणाः ॥३४०॥
आनन्दस्वप्रकाशत्व नित्यत्वमहिमाद्यथ ॥३४१॥
ब्रह्मस्वरूपं एवेष्टं तत्रापिदं विविच्यताम् ॥३४२॥
ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः ॥३४३॥
अथवा तस्य ते यद्वा त एव ब्रह्मसंज्ञिनः ॥३४४॥
आद्ये तत्तत्पदाम्नान वैयर्थ्यं वेदलोकयोः ॥३४५॥
पूर्वोक्तनीत्या भेदश्च जगज्जन्मादिकारणम् ॥३४६॥
अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ॥३४७॥
द्वितीये सैव तैरेव ब्रह्मणः सद्वितीयता ॥३४८॥
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात्पदे पदे ॥३४९॥
तत्समूहोऽथवा ब्रह्म तरुवृन्दवनादिवत् ॥३५०॥
प्रकर्षश्चप्रकाशश्च भिन्नावेवार्कवर्तिनौ ॥३५१॥
तेन न क्वापि वाक्यार्थोऽविभागोऽस्ति निदर्शनम् ॥३५२॥
जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ॥३५३॥
ज्ञानानन्दादिशब्दानां न सतः सद्वितीयता ॥३५४॥
अपोहाः किं न सन्त्येव सन्तो वा नोभयेऽपि वा ॥३५५॥
सत्त्वे सत्सद्वितीयं स्याज्जडाद्यात्मकतेतरे ॥३५६॥
सदसद्व्यतिरेकोक्तिः पूर्वं एव पराकृता ॥३५७॥
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥३५८॥
किं चापोह्यजडत्वादि विरुद्धार्थासमर्पणे ॥३५९॥
नैव तत्तदपोह्येत तदेकार्थैः पदैरिव ॥३६०॥
प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ॥३६१॥
सैवाभाव इतीहापि सद्भिस्ते सद्वितीयता ॥३६२॥
....................................................................
भूतभौतिकभेदानां सदसद्व्यतिरेकिता ॥३६३॥
कुतोऽवसीयते किं नु प्रत्यक्षादेरुतागमात् ॥३६४॥
प्रत्यक्षादीनि मानानि स्वं स्वं अर्थं यथायथम् ॥३६५॥
व्यवच्छिन्दन्ति जायन्त इति यावत्स्वसाक्षिकम् ॥३६६॥
यथाग्रतः स्थिते नीले नीलिमान्यकथा न धीः ॥३६७॥
एकाकारा न हि तथा स्फटिके धवले मतिः ॥३६८॥
क्षीरे मधुरधीर्यादृङ्नैव निम्बकषायधीः ॥३६९॥
व्यवहाराश्च नियताः सर्वे लौकिकवैदिकाः ॥३७०॥
सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ॥३७१॥
सा चेदस्ति तया मूलं कल्प्यतां कार्यभूतया ॥३७२॥
क्ल्प्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ॥३७३॥
यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः ॥३७४॥
ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ॥३७५॥
भेदेतरेतराभाव विवेकाग्रहणेन सः ॥३७६॥
स्वरूपं एव भावानां प्रत्यक्षेण परिस्फुरत् ॥३७७॥
भेदव्याहारहेतुः स्यात्प्रतियोगिव्यपेक्षया ॥३७८॥
यथा तन्मात्रधीर्नाना नास्तिव्याहारसाधनी ॥३७९॥
ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥३८०॥
एवं व्यवस्थितानेक प्रकाराकारवत्तया ॥३८१॥
प्रत्यक्षस्य प्रपञ्चस्य तद्भावोऽशक्यनिह्नवः ॥३८२॥
आगमः कार्यनिष्ठत्वादीदृशेऽर्थे न तु प्रमा ॥३८३॥
प्रामाण्येऽप्यन्वयायोग्य पदार्थत्वान्नन्बोधकः ॥३८४॥
नासत्प्रतीतेर्बाधाच्च न सदित्यपि यन्न तत् ॥३८५॥
प्रतीतेरेव सत्किं न बाधान्नासत्कुतो जगत् ॥३८६॥
तस्मादविद्ययैवेयं अविद्या भवताश्रिता ॥३८७॥
किंच भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ॥३८८॥
मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयं अञ्जसा ॥३८९॥
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दूरपह्नवम् ॥३९०॥
(दुरपह्नवम्?)
पारमार्थ्येऽपि तेनैव तवाद्वैतं विहन्यते ॥३९१॥
सर्वान्येव प्रमाणानि स्वं स्वं अर्थं यथोदितम् ॥३९२॥
असतोऽर्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति नः ॥३९३॥
तथा हीह घटोऽस्तीति येयं धीरुपजायते ॥३९४॥
सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥३९५॥
नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ॥३९६॥
अर्थान्तरं वा तन्मात्रे सदद्वैतं प्रसज्यते ॥३९७॥
अर्थान्तरत्वे सिद्धं तत्सदसद्भ्यां विलक्षणम् ॥३९८॥
यद्येवं अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ॥३९९॥
घटवत्सदसत्त्वाभ्यां अनिर्वाच्यं तवापतेत् ॥४००॥
आनन्दसत्यज्ञानादि निर्देशैरेव वैदिकैः ॥४०१॥
ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं समर्थितः ॥४०२॥
सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ॥४०३॥
यद्यथा किं चिदुच्येत तत्सर्वस्य तथा भवेत् ॥४०४॥
तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ॥४०५॥
तत्तत्पदार्थसंस्थान पारमार्थ्यावबोधिनी ॥४०६॥
सजातियविजातीय व्यवच्छेदनिबन्धनैः ॥४०७॥
स्वैः स्वैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ॥४०८॥
सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥४०९॥
....................................................................
न च नानाविधाकार प्रतीतिः शक्यनिह्नवा ॥४१०॥
न वेद्यं वित्तिधर्मः स्यादिति यत्प्रागुदीरितम् ॥४११॥
तेनापि साधितं किंचित्संविदोऽस्ति न वा त्वया ॥४१२॥
अस्ति चेत्पक्षबाधः स्यान्न चेत्ते विफलः श्रमः ॥४१३॥
अतः स्वरसविस्पष्ट दृष्टभेदास्तु संविदः ॥४१४॥
यथावत्स्थायिभिर्बाह्यैर्नैक्यं याति घटादिभिः ॥४१५॥
सहोपलम्भनियमान्नान्योऽर्थः संविदो भवेत् ॥४१६॥
यदेतदपराधीन स्वप्रकाशं तदेव हि ॥४१७॥
स्वयम्प्रकाशताशब्दं इति वृद्धाः प्रचक्षते ॥४१८॥
यस्मिन्नभासमाने हि यो नामार्थो न भासते ॥४१९॥
नासावर्थान्तरस्तस्मान्मिथ्येन्दुरिव चन्द्रतः ॥४२०॥
अभासमाने विज्ञाने न चात्मार्थावभासनम् ॥४२१॥
इति संविद्विवर्तत्वं प्रपञ्चः स्फुटं अञ्चति ॥४२२॥
(मन्द) मैवं परिभव (?) प्रत्यक्षेण बलीयसा ॥४२३॥
संरक्ष्यमानभेदास्ते नानुमानानुवर्तिनः ॥४२४॥
तथा हीदं अहं वेद्मीत्यन्योन्यानात्मना स्फुटम् ॥४२५॥
त्रयं साक्षाच्चकास्तीति सर्वेषां आत्मसाक्षिकम् ॥४२६॥
प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते ॥४२७॥
न हि वह्नेरनुष्णत्वं द्रव्यत्वादनुमीयते ॥४२८॥
किं च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः ॥४२९॥
तवापि न हि संवित्तिः स्वात्मना सह भासते ॥४३०॥
सहोपलम्भनियमो न खल्वेकैकसंविदा ॥४३१॥
न चेदस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥४३२॥
नीलाद्युपप्लवापेत स्वच्छचिन्मात्रसन्ततिः ॥४३३॥
स्वापादौ भासते नैवं अर्थः संवेदनात्पृथक् ॥४३४॥
तेन संवेदनं सत्यं संवेद्योऽर्थस्त्वसन्निति ॥४३५॥
तदेतदपरामृष्ट स्ववाग्बाधस्य जल्पितम् ॥४३६॥
सहोपलम्भनियमो येनैवं सति हीयते ॥४३७॥
यस्मादृते यदाभाति भाति तस्मादृतेऽपि तत् ॥४३८॥
घटादृतेऽपि निर्भातः पटादिव घटः स्वयम् ॥४३९॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:17.2970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गलोब

  • पु. गळाठा ; दुर्दशा . ' ते समई नाश जाला तो कोठवर त्याहावा . सारांश वस्त्रहीन सर्व जाले . तेव्हां फार गलोब जाला । ' - बोधले बखर ३ . ३५४ . ( ध्व ) 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.