वेदार्थसङ्ग्रह

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


(१)
अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने ।
निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥(१)

(२)
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदं इति ।
श्रुतिन्यायापेतं जगति विततं मोहनं इदं तमो येनापास्तं स हि विजयते यामुनमुनिः ॥(२)

(३)
अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयं अर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलः ।

(४)
अस्य जीवात्मनोऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तरयामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वं असि । अयं आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति स त आत्मान्तर्याम्यमृतः । एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । तं एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । ब्रह्मविदाप्नोति परं । तं एवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकं ।

(५)
जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदेऽपध्वस्ते स्वरूपभेदो वाचां अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपं इत्येतावदेव निर्देश्यं । तच्च सर्वेषां आत्मनां समानं ।

(६)
एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतः समस्तहेयप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपोऽनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर्निखिलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तम इत्यन्तर्यामिस्वरूपं । अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्तितदंशतद्विभूतितद्रूपतच्छरीरतत्तनुप्रभृतिभिः शब्दैस्तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।

(७)
तस्य वैभवप्रतिपादनपराणां एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रं एव ब्रह्म, तच्च नित्यमुक्तस्वप्रकाशस्वभावं अपि तत्त्वं अस्यादिसामानाधिकरण्यावगतजीवाइक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद्बद्धः, कश्चिन्मुक्त इत्यियं अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्ययं अर्थो मिथ्या । एकं एव शरीरं जीववन्निर्जीवानीतराणि, तच्छरीरं किं इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या  एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।

(८)
अपरे त्वपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतं अपि ब्रह्मैतेनैवाइक्यावबोधेन केनचिदुपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिताः ।

(९)
अन्ये पुनरैक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणं अविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं चेति प्रत्यवतिष्ठन्ते ।

(१०)
तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान्दोषानुदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगतस्वसंकल्पकृतजगदुदयविभवविलयादयस्तद्+ऐक्षत बहु स्यां प्रजायेयेत्यारभ्य सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादितास्तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्वसर्वप्रकारत्वसमाभ्यधिकनिवृत्तिसत्यकामत्वसत्यसंकल्पत्वसर्वावभासकत्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे तस्मिन्पक्षे विहन्यन्ते ।

(११)
अथ स्यातुपक्रमेऽप्येकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयं इति सजातीयविजातीयनिखिलभेदनिरसनेन निर्विशेषतैव प्रतिपादिता । एतच्छोधकानि प्रकरणान्तरगतवाक्यान्यपि सत्यं ज्ञानं अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानं आनन्दं इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वेऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानां अर्थवत्त्वादिति ।

(१२)
नैतदेवं । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति । सत्यत्वमिथ्यात्वयोरेकताप्रसक्तिर्वा । अपि त्वेकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।

(१३)
अयं अर्थः  श्वेतकेतुं प्रत्याह स्तब्धोऽस्युत तं आदेशं अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तानाचार्यान्प्रति तं अप्यादेशं पृष्टवानसीति । आदिश्यतेऽनेनेत्यादेशः । आदेषः प्रशासनं । एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यादिभिरैक्यर्थ्यात् । तथा च मानवं वचः  प्रशासितारं सर्वेषां इत्यादि । अत्राप्येकं एवेति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणादस्यैवाधिष्ठातृत्वं अपि प्रतिपाद्यते ।अतस्तं प्रशासितारं जगदुपादानभूतं अपि पृष्टवानसि येन श्रुतेन मतेन विज्ञातेनाश्रुतं अमतं अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्युक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं किं ब्रह्मापि त्वया श्रुतं इति हार्दो भावः । तस्य निखिलकारणतया कारणं एव नानासंस्थानविशेषसंस्थितं कार्यं इत्युच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतं अखिलं जगद्विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्यमतं मतं अविज्ञातं विज्ञातं स्यादिति पुत्रं प्रति पृष्टवान्पिता । तदेतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितं अजानन्पुत्रः परस्परविलक्षणेषु वस्तुष्वन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति  कथं नु बगवः स आदेश इति ।

(१४)
परिचोदितः पुनस्तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपं अपरिच्छेद्यमाहात्म्यं सत्यसंकल्पत्वमिश्रैरनवधिकातिशयासंख्येयकल्याणगुणगणैर्जुष्टं अविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिरत्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितं इति ।

(१५)
तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल्लोकदृष्टं कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तं आह  यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं इति । एकं एव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादिनानासंस्थानावस्थारूपविकारापन्नं नानानामधेयं अपि मृत्तिकासंस्थानविशेषत्वान्मृद्द्रव्यं एवेत्थं अवस्थितं न वस्त्वन्तरं इति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपं घटशरावादि सर्वं ज्ञातं एव भवतीत्यर्थः ।

(१६)
ततः कृत्स्नस्य जगतो ब्रह्मैककारणतां अजानन्पुत्रः पृच्छति  भगवांस्त्वेव मे तद्ब्रवीत्विति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणं इत्युपदिशन्स होवाच सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयं इति । अत्रेदं इति जगन्निर्दिष्टं । अग्र इति च सृष्टेः पूर्वकालः । तस्मिन्काले जगतः सदात्मकतां सदेवेति प्रतिपाद्य, तत्सृष्टिकालेऽप्यविशिष्टं इति कृत्वैकं एवेति सदापन्नस्य जगतस्तदानीं अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितं इति स्वव्यतिरिक्तनिमित्तकारणं अद्वितीयपदेन प्रतिषिद्धं ।

(१७)
तं आदेशं प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादावेव प्रशास्तितैव जगदुपादानं इति हृदि निहितं इदानीं अभिव्यक्तं । स्वयं एव जगदुपादानं जगन्निमित्तं च सत्तदैक्षत बहु स्यां प्रजायेयेति । तदेतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं अवाप्तसमस्तकामं अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहं एव बहु स्यां तदर्थं प्रजायेयेति स्वयं एव संकल्प्य स्वांशैकदेशादेव वियदादिभूतानि सृष्ट्वा पुनरपि सैव सच्छब्दाभिहिता परा देवतैवं ऐक्षत हन्ताहं इमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । अनेन जीवेनात्मनेति  जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशादेव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वं एवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वं इति च दर्शयति । एतदुक्तं भवति  जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । यस्यात्मा शरीरं इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर्मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति ।

(१८)
एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यतासच्छेषतादि सर्वं च सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेनाइतदात्म्यं इदं सर्वं तत्सत्यं इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वं एव सत्यं इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत्तस्य शरीरं तस्मात्त्वंशब्दवाच्यं अपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत्त्वं असीति जीवविशेष उपसंहृतं ।

(१९)
एतदुक्तं भवति । ऐतदात्म्यं इदं सर्वं इति चेतनाचेतनप्रपञ्चं इदं सर्वं इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितं इत्यर्थः । तदिदं ब्रह्मात्मकत्वं किं आत्मशरीरभावेनोत स्वरूपेणेति विवेचनीयं । स्वरूपेण चेद्ब्रह्मणः सत्यसङ्कल्पाद्यः  तदैक्षत बहु स्यं प्रजायेयेत्युपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तराद्विशेषतोऽवगतं अन्तःप्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानां अन्तःप्रविष्टोऽतः सर्वात्मा सर्वेषां जनानां आत्मा सर्वं चास्य शरीरं इति विशेषतो ज्ञायते ब्रह्मात्मकत्वं । य आत्मनि तिष्ठन्नात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति स त आत्मान्तर्याम्यमृत इति च । अत्राप्यनेन जीवेनात्मनेतीदं एव ज्ञायत इति पूर्वं एवोक्तं । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात्सर्वप्रकारं सर्वशब्दैर्ब्रह्मैवाभिधीयत इति तत्त्वं इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितं ।

(२०)
एवं अभिहिते सत्ययं अर्थो ज्ञायते  त्वं इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः । अतस्त्वं इति शब्दस्त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणं एवाचष्ट इति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात्तत्त्वं इति सामानाधिकरण्यप्रवृत्तयोर्द्वयोरपि पदयोर्ब्रह्मैव वाच्यं । तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारं आचष्टे । त्वं इति च तदेव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टं आचष्टे । तदेवं प्रवृत्तिनिमित्तभेदेनैकस्मिन्ब्रह्मण्येव तत्त्वं इति द्वयोः पदयोर्वृत्तिरुक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितं ।

(२१)
अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश्च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति । नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्युक्तं । नामरूपे व्याकरवाणीत्यत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद्वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते । वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते । एवं एव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान्स्वार्थान्बोधयन्ति । वैदिका एव सर्वे शब्दा वेदादवुद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान्पूर्ववत्सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन्नामतया प्रयुक्ताः । तदाह मनुः
सर्वेषां तु नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥
इति । संस्थाः संस्थानानि रूपाणीति यावत् । आह च भगवान्पराशरः
नाम रूपं भूतानां कृत्यानां प्रपञ्चनं ।
वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥
इति । श्रुतिश्च  सूर्याचन्द्रमसौ धाता यथापूर्वं अकल्पयदिति । सूर्यादीन्पूर्ववत्परिकल्प्य नामानि च पूर्ववच्चकार इत्यर्थः ।

(२२)
एवं जगद्ब्रह्मणोरनन्यत्वं प्रपञ्चितं । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततोऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत्सत्यं इत्युक्तं । यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वं ।

(२३)
शोधकवाक्यान्यपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधनेऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान्न निर्विशेषवस्तुसिद्धिः ।

(२४)
ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपं अपि प्रतिपादयन्ति । गवादिशब्दवत् । तदाह सूत्रकारः  तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत् । यावदात्मभावितत्वाच्च न दोष इति । ज्ञानेन धर्मेण स्वरूपं अपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथं इदं अवगम्यत इति चेद्यः सर्वज्ञः सर्वविदित्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारं अरे केन विजानीयादित्यादिश्रुतिशतसमधिगतं इदं । ज्ञानस्य धर्ममात्रत्वाद्धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश्च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टं एव ब्रह्म प्रतिपादयन्ति । तत्त्वं इति द्वयोरपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च ।

(२५)
नन्वैक्ये तात्पर्यनिश्चयान्न लक्षणादोषः । सोऽयं देवदत्त इतिवत् । यथा सोऽयं इत्यत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयं इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर्न घटत इति द्वयोर्पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन्नैतदेवं । सोऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर्भूत्वा संनिहितदेशस्थितिर्वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितयाइक्यप्रतिपादनं अविरुद्धं । देशद्वयविरोधश्च कालभेदेन परिहृतः । लक्षणायां अपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणं । एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एवोक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।

(२६)
एवं अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वं अविरुद्धं इति प्रतिपादितं । यथा भूतयोरेव हि द्वयोरैक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्राइक्यं न सामानाधिकरण्यार्थः  भिन्नप्रवृत्तिनिमित्तानां शब्दानां एकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यं इति हि तद्विदः । तथाभूतयोरैक्यं उपपादितं अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश्च न घटते । उपक्रमे हि तदैक्षत बहु स्यां इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वं अप्युक्तं । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।

(२७)
अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान्न निर्विशेषवस्तुनि शब्दः प्रमाणं । निर्विशेष इत्यादिशब्दास्तु केनचिद्विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषं अप्यनवबोधकत्वं एव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वादनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य ।

(२८)
अथ स्यात्नास्माभिर्निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणं इत्युच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस्तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रं अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतदेवं । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन्न । सोऽपि सविशेषं एव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश्च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धावप्येतत्स्वभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिरुच्यते ।

(२९)
ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयं एव प्रकाशते चेन्न तस्मिन्नन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपेऽवभासमाने सर्पत्वादिरध्यस्यते । अत एव हि भवद्भिराच्छादिकाविद्याभ्युपगम्यते । ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश्चेद्विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति ।

(३०)
अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । निर्विकल्पकप्रत्यक्षेऽपि सविशेषं एव वस्तु प्रतीयते । अन्यथा सविकल्पके सोऽयं इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वाद्गोत्वादेर्निर्विकल्पतदशायां अपि ससंस्थानं एव वस्त्वित्थं इति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यं इति द्वितीयादिप्रत्ययाः सविकल्पका इत्युच्यन्ते । अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तं । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वं । प्रकारत्वादेव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्चेति न द्व्यात्मकत्वसिद्धिः ।

(३१)
अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर्निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यं । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं इति विकारनामधेययोर्वाचारम्भणमात्रत्वात् । यत्तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तदेव सत्यं अन्यदसत्यं इतीयं श्रुतिर्वदतीति चेन्नैतदुपपद्यते । एकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञातेऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकं एव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपं अवस्थितं चेत्तत्रैकस्मिन्विज्ञाते तस्माद्विलक्षणसंस्थानान्तरं अपि तदेवेति तत्र दृष्टान्तोऽयं निदर्शितः । नात्र कस्यचिद्विशेषस्य निषेधकः कोऽपि शब्दो दृश्यते । वाचारम्भणं इति वाचा व्यवहारेणारभ्यत इत्यारम्भणं । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश्चान्यः । घटशरावादिरूपेणावस्थितायास्तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश्चान्यद्दशाः । तथापि सर्वत्र मृत्तिकाद्रव्यं एकं एव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतदेव सत्यं इत्यनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद्वस्तु निषिध्यत इति पूर्वं एवायं अर्थः प्रपञ्चितः ।

(३२)
अपि च येनाश्रुतं श्रुतं इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद्यथा सोम्यैकेन मृत्पिण्डेनेत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवन्मृत्तिकाविकारस्य घटशरावादेरसत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धं इत्येतदपि सिषाधयिषितं इति चेत् । यथेति दृष्टान्तयोपादानं न घटते ।

(३३)
सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयं एवाद्वितीयं इत्यत्र सदेवैकं एवेत्यवधारणद्वयेनाद्वितीयं इत्यनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नेतदेवं । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोरप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सदेव सोम्येदं इत्यारब्धं । इदं अग्रे सदेवासीदिति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकं एवेति चास्य नानानामरूपविकारप्रहाणं । एतस्मिन्प्रतिपादितेऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शनेऽपि सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्यद्वितीयपदं अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वादेव ब्रह्मणः । काश्चन श्रुतयः प्रथमं उपादानकारणत्वं प्रतिपाद्य निमित्तकारणं अपि तदेवेति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश्च श्रुतयो ब्रह्मणो निमित्तकारणत्वं अनुज्ञायास्यैवोपादानतादि कथं इति परिचोद्य, सर्वशक्तियुक्तत्वादुपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति  किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेदुत्द्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुर्मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि । धारयन्निति सामान्यतो दृष्टेन विरोधं आशङ्क्य
ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः । अतः सदेव सोम्येदं अग्र आसीदित्यत्राप्यग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची कोऽपि शब्दो न दृश्यते । प्रत्युत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः । आसीदिति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर्भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश्चेत्यप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः ।

(३४)
यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तं अत एवासदेवेदं अग्र आसीदित्यारभ्यासत्कार्यवादनिषेधश्च क्रियते  कुतस्तु खलु सोम्यैवं स्यादिति । प्रागसत उत्पत्तिरहेतुकेत्यर्थः । तदेवोपपादयति  कथं असतः सज्जायेतेति । असत उत्पन्नं असदात्मकं एव भवतीत्यर्थः । यथा मृदुत्पन्नं घटादिकं मृदात्मकं । सत उत्पत्तिर्नाम व्यवहारविशेषहेतुभूतोऽवस्थाविशेषयोगः ।

(३५)
एतदुक्तं भवति । एकं एव कारणभूतं द्रव्यं अवस्थान्तरयोगेन कार्यं इत्युच्यत इत्येकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितं । तदसत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैरवयव्याख्यं कार्यं द्रव्यान्तरं एवोत्पद्यत इति कारणभूताद्वस्तुनः कार्यस्य वस्त्वन्तरत्वान्न तज्ज्ञानेनास्य ज्ञातता कथं अपि संभवतीति । कथं अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेरुपपादकत्वाद्द्रव्यान्तरादर्शनाच्चेति कारणं एवावस्थान्तरापन्नं कार्यं इत्युच्यत इत्युक्तं ।

(३६)
ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्येकं चिद्रूपं सत्यं एवाविद्याच्छादितं जगद्रूपेण विवर्तत इत्यविद्याश्रयत्वाय मूलकारणं सत्यं इत्यभ्युपगन्तव्यं इत्यसत्कार्यवादनिरासः । नैतदेवं । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वादित्युक्तं । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच्च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनं उपपन्नं, यस्य तु दोषश्चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्याश्रयेण तदुपपन्नं इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।

(३७)
शोधकेष्वपि सत्यं ज्ञानं अनन्तं ब्रह्म, आनन्दो ब्रह्मेत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनं अविरुद्धं इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वं एवोक्तं ।

(३८)
अथात आदेशो नेति नेतीति बहुधा निषेधो दृष्यत इति चेत् । किं अत्र निषिध्यत इति वक्तव्यं । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेति मूर्तामूर्तात्मकः प्रपञ्चः सर्वोऽपि निषिध्यत इति चेन्नैवं । ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर्तदेव निषेद्धुं अयुक्तं । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं इति न्यायात् । कस्तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयं एव वदति  प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषां एष सत्यं इति सत्यादिगुणगणस्य प्रतिपादितत्वात्पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः ।

(३९)
नेह नानास्ति किंचनेत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्युत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच्चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतं । सर्वास्वेवंप्रकारासु श्रुतिष्वियं एव स्थितिरिति न क्वचिदपि ब्रह्मणः सविशेषत्वनिषेधकवाची कोऽपि शब्दो दृश्यते ।

(४०)
अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच्चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्ययं अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणं । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशोऽविद्यातिरोहित इति बालिशभाषितं इदं । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद्विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस्तिष्ठतीति चेत् । सत्यां अप्यविद्यायां ब्रह्मणि न किंचित्तिरोहितं इति नानात्वं पश्यतीति भवतां अयं व्यवहारः सत्स्वनिर्वचनीय एव ।

(४१)
ननु च भवतोऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानं अवश्यं आश्रयणीयं । स्वरूपप्रकाशे सति स्वात्मन्याकारान्तराध्यासायोगात् । अतो भवतश्चायं समानो दोषः । किं चास्माकं एकस्मिन्नेवात्मनि भवदुदीरितं दुर्घटत्वं भवतां आत्मानन्त्याभ्युपगमात्सर्वेष्वयं दोषः परिहरणीयः ।

(४२)
अत्रोच्यते  स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छतां अस्माकं किं न सेत्स्यति । यथोक्तं भगवता द्वैपायनेन महाभारते
यो मां अजं अनादिं च वेत्ति लोकमहेश्वरं ।
द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयं आविश्य विभर्त्यव्यय ईश्वरः ॥
कालं च पचते तत्र न कालस्तत्र वै प्रभूः ।
एते वै निरयास्तात स्थानस्य परमात्मनः ॥
अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तं ।
क्रीडा हरेरिदं सर्वं क्षरं इत्यवधार्यतां ॥
कृष्ण एव हि लोकानां उत्पत्तिरपि चाप्ययः ।
कृष्णस्य हि कृते भूतं इदं विश्वं चराचरं ॥
इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वं इत्यर्थः ।
भगवता पराशरेणाप्युक्तं
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥
ज्ञानशक्तिबलाइश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥
एवं एष महाशब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥
एवंप्रकारं अमलं सत्यं व्यापकं अक्षयं ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदं ॥
कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥
इत्यादि । मनुनापि
प्रशासितारं सर्वेषां अणीयांसं अणीयसां ।
इत्युक्तं । याज्ञवल्क्येनापि
क्षेत्रस्येश्वरज्ञानाद्विशुद्धिः परमा मता ।
इति । आपस्तम्बेनापि  पूः प्राणिनः सर्व एव गुहाशयस्येति । सर्वे प्राणिनो गुहाशयस्परमात्मनः पूः  पुरं शरीरं इत्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।

(४३)
ननु च किं अनेनाडम्बरेण । चोद्यं तु न परिहृतं । उच्यते । एवं अभ्युपगच्छतां अस्माकं आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वं इदं परिहृतं । भवस्तु प्रकाश एव स्वरूपं इति प्रकाशो न धर्मभूतस्तस्य संकोचविकासौ वा नाब्युपगम्येते । प्रकाशप्रसारानुत्पत्तिं एव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत्तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वं एवोक्तं । अस्माकं त्वविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः । यथोक्तं
अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥
यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा ।
संसारतापानखिलानवाप्नोत्यतिसंततान् ॥
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥
इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।

(४४)
अपि चाच्छादिकाविद्या श्रुतिभिश्चाइक्योपदेशबलाच्च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश्च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोषः स्यादिति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश्चानादित्वेऽपि मिथ्यारूपत्वादेव ब्रह्मदृश्यत्वेनैवानादित्वात्तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच्च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वादनिर्मोक्ष एव ।

(४५)
अत एवेदं अपि निरस्तम् एकं एव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वं । तत्र स्वप्ने द्रष्टुः शरीरं एकं एव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वं एव । अनेनैकेनैव परिकल्पितत्वाज्जीवा मिथ्याभूता इति ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वादेकस्मिन्नपि शरीरे शरीरवज्जीवभावस्य च मिथ्यारूपत्वात्सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश्च मिथ्यारूप इत्येकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद्विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्नात्मसद्भावस्य च प्रबोधवेलायां अबाधितत्वानन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात्ते सर्वे मिथ्याभूताः स्वशरीरं एकं तस्मिञ् जीवभावश्च परमार्थ इति विशेषः ।

(४६)
अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयं । ऐक्यज्ञानं निवर्तकं निवृत्तिश्चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच्च सद्वासद्वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनरविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन्निवृत्तिस्तत्प्रागप्यविशिष्टं इति वेदान्तज्ञानात्पूर्वं एव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात्संसार इति भवद्दर्शनं विहन्यते ।

(४७)
किञ् च निवर्तकज्ञानस्याप्यविद्यारूपर्वात्तन्निवर्तनं केनेति वक्तव्यं । निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वादेव स्वयं एव विनश्यति दावानलविषनाशनविषान्तरवदिति चेन्न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात्तद्विनाशरूपा विद्या तिष्ठत्येवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यं एव । दावाग्न्यादीनां अपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव ।

(४८)
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता । अध्यासरूप इति चेन्न । तस्य निषेधतया निवर्तकज्ञानकर्मत्वात्तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एवेति चेन्न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपं उताध्यस्तं । अध्यस्तं चेदयं अध्यासस्तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्येव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वं एव हीयते । कस्यचित्कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन्निवर्तकज्ञानं अप्यनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमेऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतं इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्यस्यां एव छेदनक्रियायां अस्याश्छेदनक्रियायाश्छेत्तृत्वस्य च छेद्यान्तर्भाववचनवदुपहास्यं ।

(४९)
अपि च निखिलभेदनिवर्तकं इदं ऐक्यज्ञानं केन जातं इति विमर्शनीयं । श्रुत्यैवेति चेन्न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात्प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातं अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुरियं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुरियं न सर्प इत्युक्तेऽप्ययं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायां एव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेरपि भ्रान्तिमूलत्वं ज्ञातं इति । निवर्तकज्ञानस्य ज्ञातुस्तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वं उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर्मिथ्यात्वं आपततीति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत्त्वं अस्यादिवाक्यं न प्रपञ्चस्य बाधकं । भ्रान्तिमूलत्वाद्भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।

(५०)
ननु च स्वप्ने कस्मिंश्चिद्भये वर्तमाने स्वप्नदशायां एवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर्दृष्टा । तद्वदत्रापि संभवतीति । नैवं । स्वप्नवेलायां एव सोऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिरेव दृष्टेति न कश्चिद्विशेषः ।

(५१)
श्रवणवेलायां एव सोऽपि स्वप्न इति ज्ञातं एवेत्युक्तं । यदपि चेदं उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपं अपि शास्त्रं अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात्तनबाधादर्शनाद्ब्रह्म सुस्थितं एवेति । तदयुक्तं । शून्यं एव तत्त्वं इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यं इति चेत् । सदद्वितीयं ब्रह्मेति वाक्यं अपि भ्रान्तिमूलं इति त्वयैवोक्तं । पश्चात्तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः । सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश्च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर्वादानधिकार एव प्रतिपादितः । अधिकारोऽनभ्युपायत्वान्न वादे शून्यवादिनः । इति ।

(५२)
अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान्निर्दोषं शास्त्रं अनन्यथासिद्धं प्रत्यक्षस्य बाधकं इति चेत् । केन दोषेण जातं प्रत्यक्षं अनन्तभेदविषयं इति वक्तव्यं । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षं इति चेत् । हन्त तर्ह्यनेनैव दोषेण जातं शास्त्रं अपीत्येकदोषमूलत्वाच्छास्त्रप्रत्यक्षयोर्न बाध्यबाधकभावसिद्धिः ।

(५३)
आकाशवाय्वादिभूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षं । शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्टब्रह्मस्वरूपतदुपासनाद्याराधनप्रकारतत्प्राप्तिपूर्वकतत्प्रसादलभ्यफलविशेषतदनिष्टकरणमूलनिग्रहविशेषविषयं इति न शात्रप्रत्यक्षयोर्विरोधः । अनादिनिधनाविच्छिन्नपाटसंप्रदायताद्यनेकगुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यं अवश्यं अभ्युपगन्तव्यं इत्यलं अनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्तिजालतूलनिरसनेनेत्युपरम्यते ।

(५४)
द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्ब्रह्मण्येवोपाधिसंसर्गादौपाधिकाः सर्वे दोषा ब्रह्मण्येव भवेयुः । ततश्चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते ।

(५५)
यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद्वैलक्षण्यं परस्परभेदश्च दृश्यते  तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवं उपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । नैतदुपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश्छेदासंभवात्तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणोऽप्यच्छेद्यत्वाद्ब्रह्मैवोपाधिसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदेशोऽन्यस्मादाकाशप्रदेशाद्भिद्यत इच्चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद्घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद्ब्रह्मण्येव प्रदेशभेदानियमेनोपाधिसंसर्गादुपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच्च ब्रह्मण्येवोपाधिसंसर्गः क्षणे क्षणे बन्धमोक्षौ स्यातां इति सन्तः परिहसन्ति ।

(५६)
निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वेऽपीन्द्रियव्यवस्थावद्ब्रह्मण्यपि व्यवस्थोपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात्तस्य च प्रदेशान्तराभेदेऽपीन्द्रियव्यवस्थोपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत्स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्युपाधिसंयोगप्रदेशानियम एव ।

(५७)
आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वं अभ्युपगम्यापीन्द्रियव्यवस्थोकता । परमार्थतस्त्वाकाशो न श्रोत्रेन्द्रियं । वैकारिकादहंकारादेकादशेन्द्रियाणि जायन्त इति हि वैदिकाः । यथोक्तं भगवता पराशरेण
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ इति ।
अयं अर्थः । वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकारः । स च क्रमात्सात्त्विको राजसस्तामसश्च । तत्र तामसाद्भूतादेराकाशादीनि भूतानि जायन्त इति सृष्टिक्रमं उक्त्वा तैजसाद्राजसादहंकारादेकदशेन्द्रियाणि जायन्त इति परमतं उपन्यस्य सात्त्विकाहंकाराद्वैकारिकानीन्द्रियाणि जायन्त इति स्वमतं उच्यते  देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवं इन्द्रियाणां आहंकारिकाणां भूतैश्चाप्यायनं महाभारत उच्यते । भौतिकत्वेऽपीन्द्रियाणां आकाशादिभूतविकारत्वादेवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत्पुरुषाणां इन्द्रियाणि भवन्तीति ब्रह्मण्यच्छेद्ये निरवयवे निर्विकारे त्वनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानां एवायं पक्ष इति शास्त्रविदो न बहु मन्यन्ते । स्वरूपपरिणामाभ्युपगमादविकारत्वश्रुतिर्बाध्यते । निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् । केयं शक्तिरुच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणोऽनन्या कापीति । उभयपक्षेऽपि स्वरूपपरिणामोऽवर्जनीय एव ।

(५८)
तृतीयेऽपि पक्षे जीवब्रह्मणोर्भेदवदभेदस्य चाभ्युपगमात्तस्य च तद्भावात्सौभरिभेदवच्च स्वावतारभेदवच्च सर्वस्येश्वरभेदतात्सर्वे जीवगता दोषास्तस्यैव स्युः । एतदुक्तं भवति । ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्येकमृत्पिण्डारब्धघटशरावादिगतान्युदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वं ईश्वरगतं एव स्यात् ।

(५९)
घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितं एवं एव सुरपशुमनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत्सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्युक्तं । द्वयोरंशयोरीश्वराविशेषात् । द्ववंशौ व्यवस्थितविति चेत् । कस्तेन लाभः । एकस्यैवानेकांशेन नित्यदुःखित्वादंशान्तरेण सुखित्वं अपि नेश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन्हस्ते चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस्तस्यैवान्यस्मिन्हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश्च तद्वदेवेश्वरस्य स्यादिति ब्रह्माज्ञानपक्षादपि पापीयानयं भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात्संसारिणां अनन्तत्वेन दुस्तरत्वाच्च ।

(६०)
तस्माद्विलक्षणोऽयं जीवांश इति चेत् । आगतोऽसि तर्हि मदीयं पन्थानं । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्यादयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद्दोषः । प्रत्युत निखिलभुवननियमनादिर्महानयं गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तं ।

(६१)
अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान्न संभवतीत्युक्तं । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन्काले चैकस्मिन्देशे चैकस्य हि पदार्थस्य युगपत्सद्भावोऽसद्भावश्च विरुद्धः ।

(६२)
जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर्मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डेन च जातेरभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अश्वे महिशत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादेर्वस्तुसंस्थानतया वस्तुनः प्रकारत्वात्प्रकारप्रकारिणोश्च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश्चेत्यादि पूर्वं उक्तं ।

(६३)
सोऽयं इति बुद्धिः प्रकाराइक्यादयं अपि दण्डीति बुद्धिमत् । अयं च जात्यादिप्रकारो वस्तुनो भेद इत्युच्यते । तद्योग एव वस्तुनो भिन्नं इति व्यवहारहेतुरित्यर्थः । स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश्च भवति ।

(६४)
अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ताः । जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात्तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच्च । स्वरूपपरिणामदोषश्च पूर्वं एवोक्तः ।

(६५)
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीं अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । य आत्मनि तिष्ठन्नात्मनोऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । यः पृथिवीं अन्तरे संचरन्यस्य पृथिवी शरीरं यं पृथिवी न वेदेत्यादि  योऽक्षरं अन्तरे संचरन्यस्याक्षरं शरीरं अक्षरं न वेद  यो मृत्युं अन्तरे संचरन्यस्य मृत्युः शरीरं यं मृत्युर्न वेद  एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चानृतं च सत्यं अभवत् । अनेन जीवेनात्मनेत्यादि । पृथगात्मानं प्रेरितारं मत्वा जष्टस्ततस्तेनामृतत्वं एति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् । प्रधानक्षेत्रज्ञपतिर्गुणेशः । ज्ञाज्ञौ द्ववजवीशानीशवित्यादिश्रुतिशतैस्तदुपबृंहणैः
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलं ॥
यत्किंचित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥
अहं आत्मा गुडाकेश सर्वभूताशयस्थितः ॥
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानं अपोहनं च ॥
इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश्च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच्चिदचिदात्मकस्य वस्तुनस्तच्छरीरत्वावगमाच्च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच्शरीरशरीरिणोश्च धर्मभेदेऽपि तयोरसंकरात्सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर्मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वं । तस्य चैतस्मिन्पक्षे मुख्यता । तथा हि तत्त्वं इति सामानाधिकरण्ये तदित्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते । त्वं इति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यानिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं ब्रह्मोच्यते । इतरेषु पक्षेषु सामानाधिकरण्यहानिर्ब्रह्मणः सदेषता च स्यात् ।

(६६)
एतदुक्तं भवति । ब्रह्मैवं अवस्थितं इत्यत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेयेत्ययं अर्थः संपन्नो भवति । तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातं अवस्थितं इति ।

(६७)
ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वं जातिगुणयोरेव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वं अयुक्तं । उच्यते  द्रव्यस्यापि दण्डकुण्डलादेर्द्रव्यान्तरप्रकारत्वं दृष्टं एव । ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः । यथा दण्डी कुण्डलीति । अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रोच्यते  गौरश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणां एव देवदत्तो मनुष्यो जातः पुण्यविशेषेण यज्ञदत्तो गौर्जातः पापेन, अन्यश्चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टं ।

(६८)
अयं अर्थः  जातिर्वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस्तस्य तदपृथक्सिद्धेस्तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । यस्य पुनर्द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वं इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः । एवं एव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । तदेवैतत्सर्वं पूर्वं एव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितं ।

(६९)
अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वर्तिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यं अपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानादेव सर्वं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानं उपपन्नतरं । तदेवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वं उक्तं ।

(७०)
ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्वश्रुतिव्याकोपप्रसञ्गेन निवारितं । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितं । उपादानकारणत्वं च परिणामास्पदत्वं एव । कथं इदं उपपद्यते ।

(७१)
अत्रोच्यते  सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वं उक्तं । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश्च जीवनं अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः  वैषम्यनैर्घृण्ये न सापेक्षत्वान्न कर्मविभागादिति चेन्न  अनादित्वादुपपद्यते चाप्युपलभ्यते चेत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश्चानित्यत्वेऽभिहितः ।

(७२)
तथा प्रकृतेरप्यनादिता श्रुतिभिः प्रतिपदिता
अजां एकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपां ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां अजोऽन्यः ॥
इति प्रकृतिपुरुषयोरजत्वं दर्शयति । अस्मान्मायी सृजते विश्वं एतत्तस्मिंश्चान्यो मायया संनिरुद्धः  मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं इति प्रकृतिरेव स्वरूपेण विकारास्पदं इति च दर्शयति । गौरनाद्यन्तवती सा जनित्री भूतभाविनीति च । स्मृतिश्च भवति
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभवपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयं इतस्त्वन्यां प्रकृतिं विद्धि मे परां ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
प्रकृतिं स्वां अवष्टभ्य विसृजामि पुनः पुनः ।
मयाध्यक्षेण प्रकृतिः सूयते सचराचरं ॥
इत्यादिका ।

(७३)
एवं च प्रकृतेरपीश्वरशरीरत्वात्प्रकृतिशब्दोऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दोऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस्तद्विकाराणां अपि तथेश्वर एवात्मा । तदाह
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च ।
सा एव क्षोभको ब्रह्मन्क्षोभ्यश्च परमेश्वरः ॥
इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः । एवं एव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।

(७४)
तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थोऽपि स एवेति कार्यकारणयोरनन्यत्वं सर्वश्रुत्यविरोधश्च भवति । तदेवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस्तदापत्तिरेव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस्तथाविधस्थूलभाव एव जगतः सृष्टिरित्युच्यते । यथोक्तं भगवता पराशरेण
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । इति ।

(७५)
तस्मादीश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास्तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात्प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात्सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात्परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः ।

(७६)
अयं एव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश्च । सर्वात्मनाधारतया नियन्तृतया शेषितया च  आप्नोतीत्यात्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च  अपृथक्सिद्धं प्रकारभूतं इत्याकारः शरीरं इति चोच्यते । एवं एव हि जीवात्मनः स्वशरीरसंबन्धः । एवं एव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वं ।

(७७)
तदाह श्रुतिगणः  सर्वे वेदा यत्पदं आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति । तस्यैकस्य वाच्यत्वादेकार्थवाचिनो भवन्तीत्यर्थः । एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि । देवा इन्द्रियाणि । देवमनुष्यादीनां अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषां इन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः । तथा च पौराणिकानि वचांसि
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती ।
वाच्ये हि वचसः प्रतिष्ठा ।
कार्याणां कारणां पूर्वं वचसां वाच्यं उत्तमं ।
वेदैश्च सर्वैरहं एव वेद्यः ।
इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टं अन्तर्यामिणं एवाचक्षते । हन्ताहं इमास्तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः । तथा च मानवं वचः
प्रशासितारं सर्वेषां अणीयांसं अणीयसां
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परं ॥
अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास्ते तेषां अपि व्यापकत्वात्तेभ्योऽपि सूक्ष्मतर इत्यर्थः  रुक्माभः आदित्यवर्णः  स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।
एनं एके वदन्त्यग्निं मारुतोऽन्ये प्रजापतिं ।
इन्द्रं एके परे प्रमाणं अपरे ब्रह्म शाश्वतं ॥
इति । एके  वेदा इत्यर्थः । उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वादग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत्तस्यैव वाचका भवन्तीत्यर्थः । तथा च स्मृत्यन्तरं
ये यजन्ति पित्Qन्देवान्ब्राह्मणान्सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुं एव यजन्ति ते ॥
इति । पितृदेवब्राह्मणहुताशनादिशब्दास्तन्मुखेन तदन्तरात्मभूतस्य विष्णोरेव वाचका इत्युक्तं भवति ।

(७८)
अत्रेदं सर्वशास्त्रहृदयम् जीवात्मानः स्वयं असंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास्तत्तत्कर्मानुरूपज्ञानसंकोचं आपन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविश्टास्तत्तद्देहोचितलब्धज्ञानप्रसरास्तत्तद्देहात्माभिमानिनस्तदुचितकर्माणि कुर्वाणास्तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिं अन्तरेण नोपपद्यत इति तदर्थः प्रथमं एषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकतां अपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीलकल्याणैकतानतया सकलेतरविसजातीयं अनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्पप्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति ।

(७९)
यथोक्तं
निर्वाणमय एवायं आत्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमला धर्मा प्रकृतेस्ते न चात्मनः ।
इति प्रकृतिसंसर्गकृतकर्ममूलत्वान्नात्मद्वरूपप्रयुक्ता धर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तं ।
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः ।
इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिरेषां ते पण्डिताः । तत्तत्प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस्तत्र तत्रात्यन्तविषमाकारे वर्तमानं आत्मानं समानाकारं पश्यन्तीति समदर्शिन इत्युक्तं । तदिदं आह
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥
इति । निर्दोषम् देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वं आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया समं इत्यर्थः ।

(८०)
तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनुप्रभृतिभिः शब्दैस्तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वं एवोक्तं ।

(८१)
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मां एव ये प्रपद्यन्ते मायां एतां तरन्ति ते ॥
इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात्संसारान्मोक्षो भगवत्प्रपत्तिं अन्तरेण नोपपदयत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश्च ।
मया ततं इदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥
न च मत्स्थानि भूतानि पश्य मे योगं ऐश्वरं ॥
इति सर्वशक्तियोगात्स्वाइश्वर्यवैचित्र्यं उक्तं । तदाह
विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत् ।
इति  अनन्तविचित्रमहाश्चर्यरूपं जगन्ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितोऽहं इत्यर्थः । तदिदं आह
एकत्वे सति नानात्वं नानात्वे सति चैकता ।
अचिन्त्यं ब्रह्मणो रूपं कुतस्तद्वेदितुं अर्हति ॥
इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्वन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन्नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितोऽपि सन्ननवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस्तदक्षरे परमे व्योमन्नित्यादिश्रुतिसिद्ध एक एवातिष्ठते ।

(८२)
ब्रह्मव्यतिरिक्तस्य कस्यचिदपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश्च न घटते । तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश्चेत्येकस्यैव विचित्रानन्तरूपता च पुनरप्यनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद्विरोधचिन्ता न युक्तेत्यर्थः । यथोक्तं
शक्तयः सर्वभावानां अचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता ॥इति ।
एतदुक्तं भवति  सर्वेषां अग्निजलादीनां भावानां एकस्मिन्नपि भावे दृष्टैव शक्तिस्तद्विजातीयभावान्तरेऽपीति न चिन्तयितुं युक्ता जलादावदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर्यथा दृश्यते, एवं एव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तं इति । अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थः तदाह
जगदेतन्महाश्चर्यं रूपं यस्य महात्मनः ।
तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः ॥
इति ।

(८३)
तदेतन्नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमादवधारितं । तथा हि  प्रमाणान्तरापरिदृष्टापरिमितपरिणामानेकतत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणोऽनेकविधाः श्रुतयो वदन्ति  निरवद्यं निरञ्जनं विज्ञानं आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणं इत्यादिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयोऽभिदधति । नेह नानास्ति किंचन  मृत्योः स मृत्युं आप्नोति य इह नानेव पश्यति यत्र त्वस्य सर्वं आत्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजातीयादित्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः । यः सर्वज्ञः सर्ववित्यस्य ज्ञानमयं तपः सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते  सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि  अपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सोऽपिपासः सत्यकामः सत्यसंकल्प इति सर्वस्मिञ् जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्विदं ब्रह्म तज्जलानिति  ऐतदात्म्यं इदं सर्वम् एकः सन्बहुधा विचार इत्यादिका ब्रह्मसृष्टं जगन्नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा  भोक्ता भोग्यं प्रेरितारं च मत्वा  प्रजापतिरकामयत प्रजाः सृजेयेति  पतिं विश्वस्यात्मेश्वरम् श्वास्तं शिवं अच्युतं
तं ईश्वराणां परं महेश्वरं तं देवतानां परं च दैवतम् सर्वस्य वशी सर्वस्येशान इत्यादिका ब्रह्मणः सर्वस्मादन्यत्वं सर्वस्येशितव्यं ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा  एष त आत्मान्तर्याम्यमृतः  यस्य पृथिवी शरीरम् यस्यापः शरीरम् यस्य तेजः शरीरं इत्यादि यस्याव्यक्तं शरीरम् यस्याक्षरं शरीरम् यस्य मृत्युः शरीरं यस्यात्मा शरीरं इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चनेति ।

(८४)
नानारूपाणां वाक्यानां अविरोधो मुख्यार्थापरित्यागश्च यथा संभवति तथा वर्णनीयं । वर्णितं च  अविकारश्रुतयः स्वरूपपरिणामपरिहारादेव मुख्यार्थाः । निर्गुणवादाश्च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः । नानात्वनिषेधवादाश्चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्विति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितं इति सुरक्षिताः । सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमादेव सुरक्षितं । ज्ञानानन्दमात्रवादि च सर्वस्मादन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानं एवेति स्वप्रकाशतया स्वरूपं अपि ज्ञानं एवेति च प्रतिपादनादनुपालितं । ऐक्यवादाश्च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनादेव सुस्थिताः ।

(८५)
एवं च सत्यभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः कोऽयं अर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात्सर्वं समर्थितं । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितं इत्यभेदः समर्थितः । एकं एव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितं इति भेदाभेदौ । अचिद्वस्तुनश्चिद्वस्तुनश्चेश्वरस्य च स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेदः समर्थितः ।

(८६)
ननु च तत्त्वं असि श्वेतकेतो तस्य तावदेव चिरं इत्यैक्यज्ञानं एव परमपुरुषार्थलक्षणमोक्षसाधनं इति गम्यते । नैतदेवं । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वं एतीत्यात्मानं प्रेरितारं चान्तर्यामिणं पृथग्मत्वा ततः पृथक्त्वज्ञानाद्धेतोस्तेन परमात्मना जुष्टोऽमृतत्वं एतीति साक्षादमृतत्वप्राप्तिसाधनं आत्मनो नियन्तुश्च पृथग्भावज्ञानं एवेत्यवगम्यते ।

(८७)
ऐक्यवाक्यविरोधादेतदपरमार्थसगुणब्रह्मप्राप्तिविषयं इत्यभ्युपगन्तव्यं इति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद्विपरीतं कस्मान्न भवति ।
एतदुक्तं भवति । द्वयोर्तुल्ययोर्विरोधे सत्यविरोधेन तयोर्विषयो विवेचनीय इति । कथं अविरोध इति चेत् । अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज्जीवात्मनस्तत्प्रकारं ब्रह्मैव त्वं इति शब्देनाभिधीयते । तथैव ज्ञातव्यं इति तस्य वाक्यस्य विषयः । एवंभूताज्जीवात्तदात्मतयावस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वादनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सोऽनुसंधेय इत्यस्य वाक्यस्य विषय इत्ययं अर्थः पूर्वं असकृदुक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनोऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वं इत्यादयः स्वभावाः, भोक्तुर्जीवात्मनश्चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश्च परमात्मोपासनान्मोक्षश्चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानं इति परस्य ब्रह्मस्त्रिविधावस्थानं ज्ञातव्यं इत्यर्थः ॥

(८८)
तत्त्वं असीति सद्विद्यायां उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश्च फलं इत्यभियुक्तैः पूर्वाचार्यैर्व्याख्यातं । यथोक्तं वाक्यकारेण  युक्तं तद्गुणकोपासनादिति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता  यद्यपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत्तथाप्यन्तर्गुणां एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति । सच्चित्तः सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसानुधावेतपहतपाप्मत्वादिकल्याणगुणगणं दैवताद्विभक्तं यद्यपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् । तथाप्यन्तर्गुणां एव देवतां भजते  देवतास्वरूपानुबन्धित्वात्सकलकल्याणगुणगणस्य केनचिद्परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतः सगुणं एव ब्रह्म तत्रापि प्राप्यं इति सद्विद्यादहरविद्ययोर्विकल्प इत्यर्थः ।

(८९)
ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वं एवेत्युक्तं । एवं च सति विधिनिषेधशास्त्राणां अधिकारी न दृश्यते । यः स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान्न कुर्यादिति विधिनिषेधयोग्यः । न चैष दृश्यते । सर्वस्मिन्प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितं । तथा च श्रूयते  एष एव साधु कर्म कारयति ते यं एभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तं यं अधो निनीषतीति । साध्वसाधुकर्मकारयितृत्वान्नैर्घृण्यं च ।

(९०)
अत्रोच्यते  सर्वेषां एव चेतनानां चिच्छक्तियोगः प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतदाहितशक्तिः सन्प्रवृत्तिनिवृत्त्यादि स्वयं एव कुरुते । एवं कुर्वाणं ईक्षमाणः परमात्मोदासीन आस्ते । अतः सर्वं उपपन्नं । साध्वसाधुकर्मणोः कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणं । यस्तु सर्वं स्वयं एवातिमात्रं आनुकूल्ये प्रवृत्तस्तं प्रति प्रीतः स्वयं एव भगवान्कल्याणबुद्धियोगदानं कुर्वन्कल्याणे प्रवर्तयति । यः पुनरतिमात्रं प्रातिकूल्ये प्रवृत्तस्तस्य क्रूरां बुद्धिं ददन्स्वयं एव क्रूरेष्वेव कर्मसु प्रेरयति भगवान् । यथोक्तं भगवता
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ।
ददामि बुद्धियोगं तं येन मां उपयान्ति ते ॥
तेषां एवानुकम्पार्थं अहं अज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रं अशुभानासुरीष्वेव योनिषु ॥ इति ।

(९१)
सोऽयं परब्रह्मभूतः पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपःशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतिवन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः । तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपादैः  उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति । ज्ञानयोगकर्मयोगसंस्कृतान्तःकरणस्येत्यर्थः । तथा च श्रुतिः ।
विद्यां चाविद्यां च यस्तद्वेदोभ्यं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतं अश्नुते ॥
इति । अत्राविद्याशब्देन विद्येतरत्वाद्वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते विद्याशब्देन च भक्तिरूपापन्नं ध्यानं उच्यते । यथोक्तं
इजाय सोऽपि सुबहून्यज्ञाञ् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यां अधिष्ठाय तर्तुं मृत्युं अविद्यया ॥
इति । तं एवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । य एनं विदुरमृतास्ते भवन्ति । ब्रह्मविदाप्नोति परं । सो यो ह वै तत्परं वेद ब्रह्म वेद ब्रह्मैव भवतीत्यादि । वेदनशब्देन ध्यानं एवाभिहितं । निदिध्यासितव्य इत्यादिनाइकार्थ्यात् । तदेव ध्यानं पुनरपि विशिनष्टि  नायं आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यं एवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां इति । भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् ।

(९२)
एतदुक्तं भवति  योऽयं मुमुक्षुर्वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्नेवानुध्याने निरवधिकातिशया प्रीतिर्जायते तदैव तेन लभ्यते परः पुरुष इति । यथोक्तं भगवता
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
भक्त्या त्वनन्यया शक्योऽहं एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥
भक्त्या मां अभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरं ॥
इति । तदनन्तरं तत एव भक्तितो विशत इत्यर्थः । भक्तिरपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृण्यावहज्ञानविशेष एवेति । तद्युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव । यथोक्तं भगवता पराशरेण
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥
इति । निखिलजगदुद्धारणायावनितलेऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयं एवैतदुक्तवान्
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
यतः प्रवृत्तिर्भूतानां येन सर्वं इदं ततं ।
स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः ॥
इति । यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।

(९३)
बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकरनिदर्शितोऽयं पन्थाः । अनेन चार्वाकशाक्याउलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभिः सह निरस्ताः । वेदावलम्बिनां अपि यथावस्थितवस्तुविपर्ययस्ताडृशां बाह्यसाम्यं मनुनैवोक्तं
यो वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वस्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥
इति । रजस्तमोभ्यां अस्पृष्टं उत्तमं सत्त्वं एव येषां स्वाभाविको गुणस्तेषां एव वैदिकी रुचिर्वेदार्थयाथात्म्यावबोधश्चेत्यर्थः ।

(९४)
यथोक्तं मात्स्ये
संकीर्णाः सात्त्विकाश्चैव राजसास्तामसास्तथा ।
इति । केचिद्ब्रह्मकल्पाः संकीर्णाः केचित्सत्त्वप्रायाः केचिद्रजःप्राया केचित्तमःप्राया इति कल्पविभागं उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तं
यस्मिन्कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ।
तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥
इति । विशेषतश्चोक्तं
अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।
राजसेषु च माहात्म्यं अधिकं ब्रह्मणो विदुः ॥
सात्त्विकेषु च कल्पेषु माहात्म्यं अधिकं हरेः ।
तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिं ॥
संकीर्णेषु सरस्वत्याः ....................... ॥
इत्यादि । एतदुक्तं भवति  आदिक्षेत्रज्ञत्वाद्ब्रह्मणस्तस्यापि केषुचिदहस्सु सत्त्वमुद्रिकं केषुचिद्रजः केषुचित्तमः । यथोक्तं भगवता
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥
इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणोऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्वहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तं एव पुराणं यथार्थं तद्विरोध्यन्यदयथार्थं इति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितं इति विज्ञायत इति ।
सत्त्वादीनां कार्यं च भगवतैवोक्तं
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानं एव च ॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥
यथा धर्मं अधर्मं च कार्यं चाकार्यं एव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्मं धर्मं इति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥
इति ।
सर्वान्पुराणार्थान्ब्रह्मणः सकाशादधिगम्यैव सर्वाणि पुराणानि पुराणकाराश्चक्रुः । यथोक्तं
कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥
इति ।

(९५)
अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथं इति चेत् । तात्पर्यनिश्चयादविरोधः पूर्वं एवोक्तः । यदपि चेदेवं विरुद्धवद्दृश्यते  प्राणं मनसि सह कारणैर्नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वं इदं, ब्रह्मविष्णुरुद्रास्ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येयः  यस्मात्परं नापरं अस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ततो यदुत्तरतरं तदरूपं अनामयं य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखं एवापियन्ति
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः ॥
यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥
इत्यादि नारायणः परं ब्रह्मेति च पूर्वं एव प्रतिपादितं, तेनास्य कथं अविरोधः ।

(९६)
अत्यल्पं एतत्
वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिताः ।
वेदाः साङ्गा हरिं प्राहुर्जगज्जन्मादिकारणं ॥
जन्माद्यस्य यतः  यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञानस्व तद्ब्रह्मेति जगज्जन्मादिकारणं ब्रह्मेत्यवगम्यते । तच्च जगत्सृष्टिप्रलयप्रकरणेष्ववगन्तव्यं । सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयं इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रैत्पादितं ब्रह्मेत्यवगतं । अयं एवार्थः  ब्रह्म वा इदं एकं एवाग्र आसीदिति शाखान्तरे ब्रह्मशब्देन प्रतिपदितः । अनेन सच्छब्देनाभिहितं ब्रह्मेत्यवगतं । अयं एवार्थस्तथा शाखान्तर आत्मा वा इदं एक एवाग्र आसीन्नान्यत्किंचन मिषदिति सद्ब्रह्मशब्दाभ्यां आत्मैवाभिहित इत्यवगम्यते । तथा च शाखान्तर एको ह वै नारायण आसीन्न ब्रह्म नेशानो नेमे द्यावपृथिवी न नक्षत्राणीति सद्ब्रह्मात्मादिपरमकारणवादिभिः शब्दैर्नारायण एवाभिधीयत इति निश्चीयते ।



(९७)
यं अन्तः समुद्रे कवयो वयन्तीत्यादि  नैनं ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशः ॥ न संदृशे तिष्ठति रूपं अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिक्ल्प्तो य एवं विदुरमृतास्ते भवन्तीति सर्वस्मात्परत्वं अस्य प्रतिपाद्य, न तस्येशे कश्चनेति तस्मात्परं किं अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाविति तेनैकवाक्यतां गमयति । तच्च महापुरुषप्रकरणं ह्रीश्च ते लक्ष्मीश्च पत्न्याविति च नारायण एवेति द्योतयति ।

(९८)
अयं अर्थो नारायणानुवाके प्रपञ्चितः । सहस्रशीर्षं देवं इत्यारभ्य स ब्रह्म स शिवः सेन्द्रः सोऽक्षरः परमः स्वराडिति । सर्वशाखासु परतत्त्वप्रतिपादनपरानक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस्तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषतां तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोरपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितं । इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरं अन्यत्किंचिदप्यत्र न विधीयते ।

(९९)
अस्मिन्वाक्ये प्रतिपादितस्य सर्वस्मात्परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविदाप्नोति परं इत्यादिषूपासनादि विधीयते । अतः प्राणं मनसि सह करणैरित्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातं उपसंहृत्य तं एव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।

(१००)
पतिं विश्वस्येति न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते । कश्च ध्येय इत्यारभ्य कारणं तु ध्येय इति कार्यस्याध्येयतापूर्वककारणैकध्येयतापरत्वाद्वाक्यस्य । तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते ।

 

(१०१)
यदपि ततो यदुत्तरं इत्यत्र पुरुषादन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तदपि यस्मात्परं नापरं अस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्यस्मादपरम् यस्मादन्यत्किंचिदपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थः । अणीयस्त्वम् सूक्ष्मत्वं । ज्यायस्त्वम् सर्वेश्वरत्वं । सर्वव्यापित्वात्सर्वेश्वरत्वादस्यैतद्व्यतिरिकितस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थः । यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिदिति पुरुषादन्यस्य कस्यापि ज्यायस्त्वं निषिद्धं इति तस्मादन्यस्य परत्वं न युज्यत इति प्रत्युक्तं ।

(१०२)
कस्तर्ह्यस्य वाक्यस्यार्थः । अस्य प्रकरणस्योपक्रमे तं एव विदित्वातिमृत्युं एति नान्यः पन्था विद्यतेऽयनायाइति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात्परं नापरं अस्ति किंचित्तेनेदं पूर्णं पुरुषेण सर्वं इत्येतदन्तेन सर्वस्मात्परत्वं प्रतिपादितं । यतः पुरुषतत्त्वं एवोत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तदेवारूपं अनामयं य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखं एवापियन्तीति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकं उपसंहृतं । अन्यथोपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवं अच्युतं इत्यादिना ज्ञातं एव । पुरुष एव शिवशब्दाभिधेय इत्यनन्तरं एव वदति  महान्प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तक इति । उक्तेनैव न्यायेन न सन्न चासच्छिव एव केवल इत्यादि सर्वं नेयं ।

(१०३)
किंच न तस्येशे कश्चनेति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोरणीयानित्यस्मिन्ननुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितयोपास्यत्वं उक्तं । अयं अर्थः  सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिरकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवोऽप्यकारविकारभूतः स्वप्रकृतावकारे लीनः । तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेशवर इत्यर्थः । यथोक्तं भगवता
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ॥
अक्षरणां अकारोऽस्मि  ॥
इति । अ इति ब्रह्मेति च श्रुतेः । अकारो वै सर्वा वागिति च । वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टं । अतो ब्रह्मणोऽकारवाच्यताप्रतिपादनादकारवाच्यो नारायण एव महेश्वर इति सिद्धं ।

(१०४)
तस्यैव सहस्रशीर्षं देवं इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात्परत्वं प्रपञ्चितं । अनेनानन्यपरेण प्रतिपादितं एव परतत्त्वं अन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तदेवेत्यवगम्य इति शास्त्रदृष्त्या तूपदेशो वामदेववदिति सूत्रकारेण निर्णीतं । तदेतत्परं ब्रह्म क्वचिद्ब्रह्मशिवादिशब्दादवगतं इति केवलब्रह्मशिवयोर्न परत्वप्रसङ्गः । अस्मिन्ननन्यपरेऽनुवाके तयोरिन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् । क्वचिदाकाशप्राणादिशब्देन परं ब्रह्माभिहितं इति भूताकाशप्राणादेर्यथा न परत्वं । यत्पुनरिदं आशङ्कितं अथ यदिदं अस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यं इत्यत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य तदन्तर्वर्तिनः कस्यचित्तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते । अस्याकाशस्य नामरूपयोर्निवोढृत्वश्रवणात्पुरुषसूक्ते पुरुषस्य नामरूपयोः कर्तृत्वदर्शनाच्चाकाशपर्यायभूतात्पुरुषादन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्यनधीतवेदानां अदृष्टशास्त्राणां इदं चोद्यं ।

(१०५)
यतस्तत्र श्रुतिरेवास्य परिहारं आह । वाक्यकारश्च  दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा व विजिज्ञासितव्यं इति चोदिते यावान्वा अयं आकाशस्तावानेषोऽन्तर्हृदय आकाश इत्यादिनास्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन्कामाः समाहिता इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितं इति परमपुरुषवत्परमपुरुषगुणाष्टकस्यापि पृथिविजिज्ञासितव्यताप्रतिपादयिषया तस्मिन्यदन्तस्तदन्वेष्टव्यं इत्युक्तं इति श्रुत्यैव सर्वं परिहृतं ।

(१०६)
एतदुक्तं भवति  किं तदत्र विद्यते यदनेष्टव्यं इत्यस्य चोद्यस्य तस्मिन्सर्वस्य जगतः स्रष्टृत्वं आधारत्वं नियन्तृत्वं शेषित्वं अपहतपाप्मत्वादयो गुणाश्च विद्यन्त इति परिहार इति । तथा च वाक्यकारवचनम् तस्मिन्यदन्तरिति कामव्यपदेश इति । काम्यन्त इति कामाः । अपहतपाप्मत्वादयो गुणा इत्यर्थः । एतदुक्तं भवति  यदेतद्दहराकाशशब्दाभिधेयं निखिलजगदुदयवैभवलयलीलं परं ब्रह्म तस्मिन्यदन्तर्निहितं अनवधिकातिशयं अपहतपाप्मत्वादिगुणाष्टकं तदुभयं अप्यन्वेष्टव्यं विजिज्ञासितव्यं इति । यथाह  अथ य इहात्मानं अनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवन्तीति ।

(१०७)
यः पुनः कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोरनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वतः स्वलीलया जगदुपकाराय स्वेच्छावतार इत्यवगन्तव्यः । यथा लीलया देवसंख्यापूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहेऽवतारः ।

(१०८)
सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वं एवोक्तं । यत्पुनरथर्वशिरसि रुद्रेण स्वसर्वाइश्वर्यं प्रपञ्चितं तत्सोऽन्तरादन्तरं प्राविशदिति परमात्मप्रवेशादुक्तं इति श्रुत्यैव व्यक्तं । शास्त्रदृष्ट्या तूपदेशो वामदेववदिति सूत्रकारेणैवंवादिनां अर्थः प्रतिपादितः । यथोक्तं प्रह्लादेनापि
सर्वगत्वादनन्तरस्य स एवाहं अवस्थितः ।
मत्तः सर्वं अहं सर्वं मयि सर्वं सनातने ॥
इत्यादि । अत्र सर्वगत्वादनन्तस्येति हेतुरुक्तः । स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वगः परमात्मेति सर्वे शब्दाः सर्वशरीरं परमात्मानं एवाभिदधतीत्युक्तं । अतोऽहं इति शब्दः स्वात्मप्रकारप्रकारिणं परमात्मानं एवाचष्टे । अत इदं उच्यते । आत्मेत्येव तु गृह्णीयात्सर्वस्य तन्निष्पत्तेरित्यादिनाहंग्रहणोपासनं वाक्यकारेण कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मैवेति सर्वस्य तन्निष्पत्तेरित्युक्तं । आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रकारेण च । महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाह
तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।
इति । रुद्रस्य ब्रह्मणश्चान्येषां च देहिनां परमेश्वरो नारायणोऽन्तरात्मतयावस्थित इति । तथा तत्रैव
विष्णुरात्मा भगवतो भवस्यामिततेजसः ।
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ॥
इति । तत्रैव
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥
इति । अन्तरात्मतयावस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकरावित्यर्थः ।

(१०९)
निमित्तोपादानयोस्तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः  प्रकृतिश्च  प्रतिज्ञादृष्टान्तानुपरोधादित्यादि वेदवित्प्रणीतसूत्रविरोधात् । सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति  ब्रह्मवनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः  ब्रह्माध्यतिष्ठद्भुवनानि धारयन् सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि  न तस्येशे कश्चन तस्य नाम महद्यशः  नेह नानास्ति किंचन  सर्वस्य वशी सर्वस्येशानः  पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं उतामृतत्त्वस्येशानः  नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच्च ।

(११०)
इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोरिदं एव परतत्त्वं इत्यवगम्यते । यथा महाभारते
कुतः सृष्टं इदं सर्वं जगत्स्थावरजङ्गमं ।
प्रलये च कं अभ्येति तन्तो  ब्रूहि पितामह ॥
इति पृष्टो
नारायणो जगन्मूर्तिरनन्तात्मा सनातन ।
इत्यादि च वदति
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवं ॥
इति च । प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायां इदं एव पर्याप्तं इत्यविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्यवगम्यते । तज्जन्मादिकारणं किं इति प्रश्नपूर्वकं विष्णोः सकाशाद्भूतं इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तं इति सर्वसंमतं । तथा तत्रैव
प्रकृतिर्या ख्याता व्यक्ताव्यक्तस्वरूपिणी ।
पुरुषश्च+प्युभावेतौ लीयेते परमात्मनि ॥
परमात्मा च सर्वेषां आधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥
इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतयायं एव गीयत इत्यर्थः । यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस्तथेदं वैष्णवं च पुराणं
सोऽहं इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यति ॥
यन्मयं च जगद्ब्रह्मन्यतश्चैतच्चराचरं ।
लीनं आसीद्यथा यत्र लयं एष्यति यत्र च ॥
इति  परं ब्रह्म किं इति प्रक्रम्य
विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितं ।
स्थितिसंयमकर्तासौ जगतोऽस्य जगच्च सः ॥
परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदस्तीति केवलं ॥
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥
तद्ब्रह्म परं नित्यं अजं अक्षयं अव्ययं ।
एकस्वरूपं च सदा हेयाभावाच्च निर्मलं ॥
तदेव सर्वं एवैतद्व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितं ॥
स सर्वभूतप्रकृतिं विकारान्गुणादिदोषांश्च मुने व्यतीतः ।
अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः ।
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥
तेजोबलाइश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलं एकरूपं ।
संदृश्यते वाप्यधिगम्यते वा तज्ज्ञानं अज्ञानं अतोऽन्यदुक्तं ॥
इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तं ।

(१११)
अन्यानि सर्वाणि पुराणान्येतदविरोधेन नेयानि । अन्यपरत्वं च तत्तदारम्भप्रकारैरवगम्यते । सर्वात्मना विरुद्धांशस्तामसत्वादनादरणीयः ।

(११२)
नन्वस्मिन्नपि
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्नुशिवात्मिकां ।
स संज्ञा याति भगवानेक जनार्दनः ॥
इति त्रिमूर्तोसाम्यं प्रतीयते । नैतदेवं । एक एव जनार्दन इति जन अर्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते । जगच्च स इति पूर्वोक्तं एव विवृणोति  स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वत्यंप्रभुः ॥
इति च स्रष्टृत्वेनावस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन्निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात्सृज्यसंहार्यभूताद्वस्तुनः स्रष्टृसंहर्त्रोर्जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकां इति विभूतिं । अत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदं अनन्तरं एवोच्यते
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् ॥
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः ।
सर्गादिकं ततोऽस्यैव भूतस्थं उपकारकं ॥
स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ इति ।

(११३)
अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथं उपपद्यत इत्याशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतोऽव्यय इति स्वयं एवोपपादयति । स एव सर्वेश्वरः परब्रह्मभूतो विष्णुरेव सर्वं जगदिति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतोऽव्यय इति हेतुरुक्तः । सर्वभूतानां अयं आत्मा विश्वशरीरो यतोऽव्यय इत्यर्थः । वक्ष्यति च  सत्सर्वं वै हरेस्तनुरिति ।
एतदुक्तं भवति । अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर्विश्वशरीरतया तादात्म्यविरुद्धं इत्यात्मशरीरयोश्च स्वभावा व्यवस्थिता एव । एवंभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्टब्रह्मादिदेवतिर्यङ्मनुष्येषु तत्तत्समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः । तदेतद्ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्ववतार इति च षष्टेऽंशे शुभाश्रयप्रकरणे सुव्यक्तं उक्तं । अस्य देवादिरूपेणावतारेष्वपि न प्राकृतो देह इति महाभारते  न भूतसंघसंस्थानो देहोऽस्य परमात्मनः । इति प्रतिपादितः । श्रुतिभिश्च  अजायमानो बहुधा विजायते  तस्य धीराः परिजानन्ति योनिं इति । कर्मवश्यानां ब्रह्मादीनां अनिच्छतां अपि तत्तत्कर्मानुगुणप्रकृतिपरिणामरूपभूतसंघसंस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयं । अयं तु सर्वेश्वरः सत्यसंकल्पो भगवानेवंभूतशुभेतरजन्माकुर्वन्नपि स्वेच्छया स्वेनैव निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतोऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमतां अग्रेसरा जानन्तीत्यर्थः ।


(११४)
तदेतन्निखिलजगन्निमित्तोपादानभूताज्जन्माद्यस्य यतः  प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात्परस्माद्ब्रह्मणः परमपुरुषादन्यस्य कस्यचित्परतरत्वं परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात्तु  बुद्ध्यर्थः पादवत्स्थानविशेषात्प्रकाशादिवतुपपत्तेश्च  तथान्यप्रतिषेधातनेन सर्वगतत्वमायां आदिशब्दादिभ्य इति सूत्रकारः स्वयं एव निराकरोति ।

(११५)
मानवे च शास्त्रे
प्रादुरासीत्तमोनुदः सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यं अपासृजत् ॥
तस्मिञ् जज्ञे स्वयं ब्रह्म
इति ब्रह्मणो जन्मश्रवणात्क्षेत्रज्ञत्वं एवावगम्यते । तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणः
अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥
इति नामनिर्देशाच्च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयादशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात्क्षेत्रज्ञत्वं निश्चीयते ।

(११६)
यदपि कैश्चिदुक्तम् सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्य
कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयं । व्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद्व्यवहारस्य च कार्यबुद्धिमूलत्वात्कार्यरूप एव शब्दार्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणं इति । अत्रोच्यते । प्रवर्तकवाक्यव्यवहार एव शब्दानां अर्थबोधकत्वशक्त्यवधारणं कर्तव्यं इति किं इयं राजाज्ञा । सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणं अत्यन्तसुकरं । तथा हि  केनचिद्धस्तचेष्टादिनापवरके दण्डः स्थित इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित्तज्ज्ञापने प्रवृत्तोऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद्धस्तचेष्टां इमां जानन्पार्श्वस्थोऽन्यः प्राग्व्युत्पन्नोऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्यस्य शब्दस्य प्रयोगदर्शनादस्यार्थस्यायं शब्दो बोधक इति जानातीति किं अत्र दुष्करं । तथा बालस्तातोऽयं इयं मातायं मातुलोऽयं मनुष्योऽयं मृगश्चन्द्रोऽयं अयं च सर्प इति मातापितृप्रभृतिभिः शब्दैः शनैः शनैरङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस्तैरेव शब्दैस्तेष्वर्थेषु स्वात्मनश्च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्वर्थेषु तेषां शब्दानां अङ्गुल्या निर्देशपूर्वकः प्रयोगः सम्बन्धान्तराभावात्संकेतयितृपुरुषाज्ञानाच्च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनरप्यस्य शब्दस्यायं अर्थ इति पूर्ववृद्धैः शिक्षितः सर्वशब्दानां अर्थं अवगम्य स्वयं अपि सर्वं वाक्यजातं प्रयुङ्क्ते । एवं एव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं
च जानातीति कार्यार्थैव व्युत्तिपत्तिरित्यादिनिर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात्सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्येव ।

(११७)
अपि च कार्यार्थ एव व्युत्पत्तिरस्तु । वेदान्दवाक्यान्यप्युपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद्रात्रिसत्रप्रतिष्ठानादिवदपगोरणशतयातनासाध्यसाधनभाववच्च कर्योपयोगितयैव सर्वं बोधयन्ति । तथा+हि  ब्रह्मविदाप्नोति परं इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते  परप्राप्तिकामो ब्रह्म विद्यादित्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गतं एव जगत्स्रष्टृत्वं संहर्तृत्वं आधारत्वं अन्तरात्मत्वं इत्याद्युक्तं अनुक्तं च सर्वं इति न किंचिदनुपपन्नं ।

(११८)
एवं च सति मन्त्रार्थवादगता ह्यविरुद्धा अपूर्वाश्चार्थाः सर्वे विधिशेषतयैव सिद्धा भवन्ति । यथोक्तं द्रमिडभाष्ये  ऋणं हि वै जायत इति श्रुतेरित्युपक्रम्य यद्यप्यवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिरुपपद्यत इति । एतदुक्तं भवति  सर्वो ह्यर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश्चादृष्टरूपान्गुणान्सहस्रशो वदन्सहस्रशः कर्मणि प्राशस्त्यबुद्धिं उत्पादयति । तेषां असद्भावे प्राशस्त्यबुद्धिरेव न स्यादिति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावं एव बोधयतीति । अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः ।

(११९)
अपि च कार्यवाक्यार्थवादिभिः किं इदं कार्यत्वं नामेति वक्तव्यं । कृतिभावभाविता कृत्युद्देश्यता चेति चेत् । किं इदं कृत्युद्देश्यत्वं । यदधिकृत्य कृतिर्वर्तते तत्कृत्युद्देश्यत्वं इति चेत् । पुरुषव्यापाररूपायाः कृतेः कोऽयं अधिकारो नाम । यत्प्राप्तीच्छया कृतिं उत्पादयति पुरुषः तत्कृत्युद्देश्यत्वं इति चेद्धन्त तर्हीष्टत्वं एव कृत्युद्देश्यत्वं । अथैवं मनुषे इष्टस्यैव रूपद्वयं अस्ति । इच्छाविषयतया स्थितिः पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वं इति सोऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः । तथा हीच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिं अन्तरेणासिद्धिरेव प्रेरकत्वं । तत एव प्रवृत्तेः । इच्छायां जातायां इष्टस्य स्वप्रयत्नोत्पत्तिं अन्तरेणासिद्धिः प्रतीयते चेत्ततश्चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया । तस्मादिष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किं पि न दृष्यते । अथोच्यते  इष्टताहेतुश्च पुरुषानुकूलता । तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वं इति चेत् । नैवं । पुरुषानुकूलं सुखं इत्यनर्थान्तरं । तथा पुरुषानुकूलं दुःखपर्यायं । अतः सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति ।
ननु च दुःखनिवृत्तेरपि सुखव्यतिरिक्तायाः पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखं आत्मप्रतिकूलं दुःखं इति हि सुखदुःखयोर्विवेकः । तत्रात्मानुकूलं सुखं इष्टं भवति । तत्प्रतिकूलं दुःखं चानिष्टं । अतो दुःखसंयोगस्यासह्यतया तन्निवृत्तिरपीष्टा भवति । तत एवेष्टतासाम्यादनुकूलताभ्रमः । तथा हि  प्रकृतिसंसृष्टस्य संसारिणः पुरुषस्यानुकूलसंयोगः प्रतिकूलसंयोगः स्वरूपेणावस्थितिरिति च तिस्रोऽवस्थाः । तत्र प्रतिकूलसंबन्धनिवृत्तिश्चानुकूलसंबन्धनिवृत्तिश्च स्वरूपेणावस्थितिरेव । तस्मात्प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिरपीष्टा भवति । तत्रेष्टतासाम्यादनुकूलताभ्रमः ।

(१२०)
अतः सुखरूपत्वादनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्यार्थविशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वं अपूर्वत्वं च प्रतीयते । स्वर्गकामो यजेतेत्यत्र कार्यस्य क्रियातिरिक्ता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयादेव भवन्ति । न च वाच्यं यजेतेत्यत्र प्रथमं नियोगः स्वप्रधानतयैव प्रतीयते स्वर्गकामपदसमभिव्याहारात्स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्येति । यजेतेति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते । स्वर्गकामपदसमभिव्याहारादेव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वं अपूर्वत्वं चेत्यादि । तच्च स्वर्गसाधनत्वप्रतीतिनिबन्धनं । समभिव्याहृतस्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनं एव कार्यं लिङादयोऽभिदधतीति लोकव्युत्पत्तिरपि तिरस्कृता । एतदुक्तं भवति  समभिव्यहृतपदान्तरवाच्यार्थान्वययोग्यं एवेतरपदप्रतिपाद्यं इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमनन्तरं एव प्रतीयते । तच्च स्वर्गसाधनरूपं । अतः क्रियावदनन्यार्थतापि विरोधादेव परित्यक्तेति । अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवासयोग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते । प्रथमं गङ्गापदेन गङ्गार्थः स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति । एवं अत्र अपि यजेतेत्येतावन्मात्रश्रवणे कार्यं अनन्यार्थं स्मृतं इति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते । कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यं अनन्यार्थं प्रतीतं इत्येतदपि न संगच्छते । व्युत्पत्तिकाले गवानयनादिक्रियाया दुःखरूपाया इष्टविशेषसाधनतयैव कार्यताप्रतीतेः । अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं
नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश्च । करीर्या वृष्टिकामो यजेय्तेत्यादिषु सिद्धेऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते । यद्यप्यस्मिञ् जन्मनि वृष्ट्यादिसिद्धेरनियमस्तथाप्यनियमादेव नियोगसिद्धिरवश्याश्रयणीया । तस्मिन्ननुकूलतापर्यायसुखानुभूतिर्न दृश्यते । एवं उक्तरीत्या कृतिसाध्येष्टत्वातिरेकि कृत्युद्देश्यत्वं न दृश्यते ।

(१२१)
कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वं इति चेत् । किं इदं शेषित्वं किं च शेषत्वं इति वक्तव्यं । कार्यं प्रति संबन्धी शेषः । तत्प्रतिसंबन्धित्वं शेषित्वं इति चेत् । एवं तर्हि कार्यत्वं एव शेषित्वं इत्युक्तं भवति । कार्यत्वं एव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वं इति चेत् । कोऽयं परोद्देशो नामेति । अयं एव हि विचार्यते । उद्देश्यत्वं नामेप्सितत्वसाध्यत्वं इति चेत् । किं इदं ईप्सितत्वं । कृतिप्रयोजनत्वं इति चेत्पुरुषस्य कृत्यारम्भप्रयोजनं एव हि कृतिप्रयोजनं । स चेच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव । अयं एव हि सर्वत्र शेषशेषिभावः । परगतातिशयाधानेच्छोपादेयत्वं एव यस्य स्वरूपं स शेषः परः शेषी । फलोत्पत्तीच्छया यागादेस्तत्प्रयत्नस्य चोपादेयत्वं यागादिसिद्धीच्छयान्यत्सर्वं उपादेयं ।

(१२२)
एवं गर्भदासादीनां अपि पुरुषविशेषातिशयाधानोपादेयत्वं एव स्वरूपं । एवं ईश्वरगतातिशयाधानेच्छयोपादेयत्वं एव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपं इति सर्वं ईश्वरशेषत्वं एव सर्वस्य चेश्वरः शेषीति सर्वस्य वशी सर्वस्येशानः पतिं विश्वस्येत्याद्युक्तं । कृतिसाध्यं प्रधानं यत्तत्कार्यं अभिधीयत इत्ययं अर्थः श्रद्दधानेष्वेव शोभते ।

(१२३)
अपि च स्वर्गकामो यजेतेत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते । साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयोऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते । यथा भोक्तुकामो देवदत्तगृहं गच्छेदित्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणादेव प्रागज्ञातं अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते । एवं अत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम् यजेतेति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धेः कर्तृत्वकल्पनं एव हि नियोज्यत्वं । यथोक्तं
       नियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते ।
इति । यष्टृत्वानुगुणं तद्बोधृत्वं इति चेत् । देवदत्तः पचेदिति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणं इति गमने कर्तृत्वकल्पनं न युज्यते ।

(१२४)
किं च लिङादिशब्दवाच्यं स्थायिरूपं किं इत्यपूर्वं आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेरिति चेत् । कात्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानां इयं अनुपपत्तिः । सर्वैः कर्मभिराराधितः परमेश्वरो भगवान्नारायणस्तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति । यथाहुर्वेदविदग्रेसरा द्रमिडाचार्याः  फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर्यागदानहोमादिभिरिन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितं इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवं आरिराधयिषन्ति, स हि कर्मभिराराधितस्तेषां इष्टानि फलानि प्रयच्छतीत्यर्थः । तथा च श्रुतिः  इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिरिति । इष्टापूर्तं इति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते । तद्विश्वं बिभर्ति  इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थितः परमपुरुषः स्वयं एव बिभर्ति स्वयं एव स्वीकरोति । भुवनस्य नाभिः  ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः  तैस्तैः कर्मभिराराधितस्तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिरित्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयोऽयं एवेत्याह  तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा इति । यथोक्तं भगवता
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुं इच्छति ।
तस्य तस्याचलां श्रद्धां तां एव विदधाम्यहं ॥
स तस्य श्रद्धया युक्तस्तस्याराधनं ईहते ।
लभते च ततः कामान्मयैव विहितानिह तान् ॥ इति ।
यां यां तनुं इतीन्द्रादिदेवताविशेषास्तत्तदन्तर्यामितयावस्थितस्य भगवतस्तनवः शरीराणीत्यर्थः ।
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
इत्यादि । प्रभुरेव चेति सर्वफलानां प्रदाता चेत्यर्थः । यथा च
यज्ञैस्त्वं इज्यसे नित्यं सर्वदेवमयाच्युत ।
यैः स्वधर्मपरैर्नाथ नरैरादाधितो भवान् ।
ते तरन्त्यखिलां एतां मयां आत्मविमुक्तये ॥
इति । सेतिहासपुराणेषु सर्वेष्वेव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस्तैः कर्मभिराराधितः पुरुषोत्तमस्तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितं । एवं हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तं इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैरित्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्वन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति  देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानां इन्द्रादीनां यागादिसंबन्ध इत्युक्तं भवति । यथोक्तं भगवता
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं ।
इति । तस्मादग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किं अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनं । एवं च सति लिङादेः कोऽयं अर्थः परिगृहीतो भवति । यज देवपूजायां इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोऽभिदधतीति न किंचिदनुपपन्नं । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकं अन्ये वदन्ति । लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति ।

(१२५)
अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति । वायव्यं श्वेतं आलभत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुं एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः कापि दृश्यत इति फलसाधनत्वावगतिरौपादानिकीत्यपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थः । तस्माद्ब्राह्मणाय नापगुरेतेत्यत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतं अनादृत्य किं इत्युपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिं अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनं इति श्रूयते तदेतद्युष्मासु दृश्यते । शतयातनासाधनत्वं अपि नादृष्टद्वारेण । चोदितान्यनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्यां एव भवन्ति । एष ह्येवानन्दयति  अथो सोऽभयं गतो भवति  अथ तस्य भयं भवति  भीषास्माद्वातः पवते भीषोदेति सूर्यो भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः  इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः  एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः
प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति । यथोक्तं द्रमिडभाष्ये  तस्याज्ञया धावति वायुर्नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्तीति । तत्संकल्पनिबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात्स भगवान्वर्धयेत विद्वान्कर्मदक्ष इति च ।

(१२६)
परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस्तत्प्रसादात्तत्प्राप्तिपर्यन्तानि सुखान्यभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस्तन्निग्रहादेव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवता
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकं अनुष्ठेयं विधाय
मयि सर्वाणि कर्माणि संन्यस्य
इति सर्वस्य कर्मणः स्वाराधनतां आत्मनां स्वनियाम्यतां च प्रतिपाद्य
ये मे मतं इदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतं ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥
इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान्विनिन्द्य पुनरपि स्वाज्ञानुपालनं अकुर्वतां आसुरप्रकृत्यन्तर्भावं अभिधायाधमा गतिश्चोक्ता
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रं अशुभानासुरीष्वेव योनिषु ॥
आसुरीं योनिं आपन्ना मूढा जन्मनि जन्मनि ।
मां अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिं ॥ इति ।
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्य्पाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदं अव्ययं ॥
इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तं । अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्यादिति सर्वं एकशास्त्रं इति वेदवित्सिद्धान्तः ।

(१२७)
तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्तिबलाइश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूपदिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवाइश्वर्यशीलाद्यनवधिकमहिममहिसीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश्च सहस्रशः श्रुतयः सन्ति । वेदाहं एतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । य एषोऽन्तरादित्ये हिरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकं एवं अक्षिणी । य एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमयोऽमृतो हिरण्मयः  मनोमय इति मनसैव विशुद्धेन गृह्यत इत्यर्थः  सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि  विद्युद्वर्णात्पुरुषादित्यर्थः  नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा  मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युदिवाभातीत्यर्थः । मनोमयः प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वं इदं अभ्यात्तोऽवाक्यानादरः । माहारजनं वास इत्याद्याः । अस्येशाना जगतो विष्णुपत्नी । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ।तद्विष्णोः परमं
पदं सदा पश्यन्ति सूरयः । क्षयन्तं अस्य रजसः पराके । यदेकं अव्यक्तं अनन्तरूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । योऽस्याध्यक्षः परमे व्योमन् । तदेव तदु भव्यमा इदं तदक्षरे परमे व्योमन्नित्यादिश्रुतिशतनिश्चितोऽयं अर्थः ।

(१२८)
तद्विष्णोः परमं पदं इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात्सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्तीति विज्ञायते । ये सूरयस्ते सदा पश्यन्तीति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षेऽप्यनेकविधानं न संभवतीति चेत् । न । अप्राप्तत्वात्सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तम् तद्गुणास्ते विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टा इति । यथा यदाग्नेयोऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानं अप्राप्तं प्रतिपादयतीति न कश्चिद्विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश्च प्रकरणपथिताश्चाप्रकरणपथिताश्च स्वार्थं सर्वं यथावस्थितं एवाप्राप्तं अविरुद्धं ब्राह्मणवद्बोधयन्तीति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रं । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रं । नियुक्तार्थप्रकाशनां च देवतादिष्वप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणं एव । नेयं श्रुतिर्मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्तीत्येकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्यर्थाः कार्यपरत्वेऽपि सिद्ध्यन्तीत्युक्तं । किं पुनः सिद्धवस्तुन्येव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वं उपपन्नं । ननु चात्र तद्विष्णोः
परमं पदं इति परस्वरूपं एव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदं इत्यादिष्वव्यतिरेकदर्शनात् । नैवं । क्षयन्तं अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन्नित्यादिषु परमस्थानस्यैव दर्शनं । तद्विष्णोः परमं पदं इति व्यतिरेकनिर्देशाच्च । विष्ण्वाख्यं परमं पदं इति विशेषणादन्यदपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तदिदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।

(१२९)
एतदुक्तं भवति  क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपं । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानं ।
सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते ।
गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥
इत्यत्र प्रकृतिवियुक्तात्मस्वरूपं ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदं ।
इत्यत्र भगवत्स्वरूपं । त्रीण्यप्येतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वं इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वादेव परमं पदं । इतरयोरपि भगवत्प्राप्तिगर्भत्वादेव परमपदत्वं । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर्भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनं ।

(१३०)
अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथं अवगम्यत इति चेत् ।
अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ।
यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥
संसारतापानखिलानवाप्नोत्यतिसंततान् ।
तया तिरोहितत्वाच्च
इत्यादिवचनात् ।

(१३१)
परस्थानप्राप्तिरपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तं । क्षयन्तं अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसोऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिं अतिक्रम्य स्थिते स्थाने क्षयन्तम् वसन्तं इत्यर्थः । अनेन त्रिगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः परस्ताद्विष्णोर्वासस्थानं इति गम्यते । वेदाहं एतं
पुरुषं महान्तं आदित्यवर्णं तमसः परस्तादित्यत्रापि तमःशब्देन सैव प्रकृतिरुच्यते । केवलस्य तमसोऽनवस्थानादेव । रजसः पराके क्षयन्तं इत्यनेनैकवाक्यत्वात्तमसः परस्ताद्वसन्तं महान्तं आदित्यवर्णं पुरुषं अहं वेदेत्ययं अर्थोऽवगम्यते । सत्यं ज्ञानं अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्निति तत्स्थानं अविकाररूपं परमव्योमशब्दाभिधेयं इति च गम्यते । अक्षरे परमे व्योमन्नित्यस्य स्थानस्याक्षरत्वश्रवणात्क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्यवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परं पदं इत्यत्रापि विप्रासो  मेधाविनः, विपन्यवः  स्तुतिशीलाः, जागृवांसः  अस्खलितज्ञानास्त एवास्खलितज्ञानास्तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।

(१३२)
एतेषां परिजनस्थानादीनां सदेव सोम्येदं अग्र आसीदित्यत्र ज्ञानबलाइश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात्सदेवैकं एवाद्वितीयं इति ब्रह्मान्तर्भावोऽवगम्यते । एषां अपि कल्याणगुणैकदेशत्वादेव सदेव सोम्येदं अग्र आसीदित्यत्रेदं इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच्च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्यपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः  नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्यपि विकारास्पदत्वेनास्थिरत्वाद्तद्विपरीतं स्थिरत्वं एषां सत्यपदेनोच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्वनन्तेषु सत्स्वप्यपूर्वाणां अपरिमितानां अर्थानां अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानां अचेतनानां स्थिराणां अस्थिराणां च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।

(१३३)
इतिहासपुराणयोर्वेदोपबृंहणयोश्चायं अर्थ उच्यते
तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥
इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे
व्यक्तं एष महायोगी परमात्मा सनातनः ।
अनादिमध्यनिधनो महतः परमो महान् ॥
तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥
शारा नानाविधाश्चापि धनुरायतविग्रहं ।
अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥
विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥
श्रीमद्वैष्णवपुराणे
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वैरूप्यं रूपं अन्त्यद्धरेर्महत् ॥
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुं ॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये ।
तेषां तत्परं स्थानं यद्वै पश्यन्ति सूरयः ॥
कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥
महाभारते च
दिव्यं स्थानं अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर्गम्यमाद्यं ।
गच्छ प्रभो रक्ष चास्मान्प्रपन्नान्कल्पे कल्पे जायमानः स्वमूर्त्या ॥
कालः स पचते तत्र न कालस्तत्र वै प्रभुः ।
इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश्च वदति  अन्तस्तद्धर्मोपदेशादिति

(१३४)
योऽसावादित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश्चारुतरातम्रकरतलानुरक्ताङ्गुलीभिरलंकृतस्तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गोऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधोऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतोऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर्लावण्यामृतपूरिताशेषचराचरभूतजातोऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस्त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्यवगम्यते । तद्धर्मोपदेशात्स एष सर्वेषां लोकानां ईष्टे सर्वेषां कामानाम् स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः  अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तम् विश्वतः परमं नित्यं विश्वं नारायणं हरिम्
 । पतिं विश्वस्यात्मेश्वरं इत्यादिवाक्यप्रतिपादिताः ।

(१३५)
वाक्यकारैश्चैतत्सर्वं सुस्पष्टं आह  हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल्लोककामेशोपदेशात्तथोदयात्पाप्मनां इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् स्यात्तद्रूपं कृतकं अनुग्रहार्थं तच्चेतनानां ऐश्वर्यादित्युपासितुरनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियं अन्तःकरणप्रत्यक्षं तन्निर्देशादिति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात्स्वरूपभूतगुणास्तथेदं अपि रूपं श्रुत्या स्वरूपतया निर्देशात्स्वरूपभूतं इत्यर्थः । भाष्यकारेणैतद्व्याख्यातम् अञ्जसैव विश्वसृजो रूपं तत्तु न चक्षुषा ग्राह्यं मनसा त्वकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य्रूपाया देवताया रूपं उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः  वेदाहं एतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तादिति प्रकरणान्तरनिर्देशाच्च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच्चन्द्रमुखवत्, न मयडत्र विकारं आदाय प्रयुज्यते, अनारभ्यत्वादात्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशादपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्मेत्यवगम्यत एवं आदित्यवर्णं पुरुषं इत्यादिनिर्देशात्स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथास्येशना जगतो विष्णुपत्नी  ह्रीश्च ते लक्ष्मीश्च पत्न्यौ  सदा पश्यन्ति सूरयः  तमसः परस्तात्क्षयन्तं अस्य
रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशादेव तथैव सन्तीत्यवगम्यते । यथाह भाष्यकार  यथाभूतवादि हि शास्त्रं इति ।

(१३६)
एतदुक्तं भवति  यथा सत्यं ज्ञानं अनन्तं ब्रह्मेति निर्देशात्परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित्परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च  तं एव भान्तं अनुभाति सर्वं तस्य भासा सर्वं इदं विभातीत्यादिनिर्देशान्निरतिशयासंख्येयाश्च गुणाः सकलेतरविलक्षणाः । तथादित्यवर्णं इत्यादिनिर्देशाद्रूपपरिजनस्थानादयश्च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।

(१३७)
वेदाः प्रमाणं चेद्विध्यर्थवादमन्त्रगतं सर्वं अपूर्वं अविरुद्धं अर्थजातं यथावस्थितं एव बोधयन्ति । प्रामाण्यं च वेदानां औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्युक्तं । यथाग्निजलादीनां औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनां इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत्संकेतमूलं शब्दस्य बोधकत्वं इति वक्तुं शक्यं । अनाद्यनुसंधानाविच्छेदेऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद्वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत्कल्पयितुं युक्तं । तेषु च साक्षाद्वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्वनाद्यनुसंधानाविच्छेदेऽपि संकेताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी । अतोऽग्न्यादीनां दाहकत्वादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्च शब्दस्यापि बोधकत्वशक्तिराश्रयणीया ॥

(१३८)
ननु चेनिन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किं इत्यपेक्षते, लिङ्गादिवदिति उच्यते  यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दोऽप्यर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दोऽप्यर्थविशेषस्य लिङ्गं इत्यनुमानं स्यात्नैवं । शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वं इति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदेऽपि संकेताज्ञानाद्बोधकत्वशक्तिरेवेति निश्चीयते ।

(१३९)
एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानां उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस्ते पौरुषेयाः शब्दा इत्युच्यन्ते । यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदापौरुषेयास्ते च वेदा इत्य्+उच्यन्ते । एतदेव वेदानां अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तं एव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वं । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात्फलविशेषं च बोधयन्ति । परमपुरुषवत्तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यं एव । वेदानां अनन्तत्वाद्दुरवगाहत्वाच्च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणीतिहासपुराणानि च चक्रुः । लौकिकाश्च शब्दा वेदराशेरुद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत्प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश्चेच्छन्दस्यैवं भाषायां एवं इति लक्षणभेदः कथं उपपद्यते । उच्यते  तेषां एव शब्दानां तस्यां एवानुपूर्व्यां वर्तमानां तथैव प्रयोगः । अन्यत्र प्रयुज्यमानानां अन्यथेति न कश्चिद्दोषः ।

(१४०)
एवं इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणोऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातोऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर्नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितं । सर्वं खल्विदं ब्रह्म  ऐतदात्म्यं इदं सर्वम् तत्त्वं असि श्वेतकेतो
एनं एके वदन्त्यग्निं मरुतोऽन्यो प्रजापतिं ।
इन्द्रं एके परे प्राणं अपरे ब्रह्म शाश्वतं ॥
ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च ।
त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देव देवकीपुत्र एव ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वं ओंकारः परंतपः ।
ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलं ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥
इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तं । सत्यसंकलपं परं ब्रह्म स्वयं एव बहुप्रकारं स्यां इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन्प्रलीनं स्वयं एव विभज्य तस्माद्भूतसूक्ष्माद्वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिदधिष्ठितैर्महाभूतैरन्योन्यसंसृष्टैः कृत्स्नं जगद्विधाय स्वयं अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारं अवतिष्ठते । यदिदं महाभूतसूक्ष्मं वस्तु तदेव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दाभिदेयः । सोऽकामयत बहु स्यां प्रजायेयेति  तत्सृष्ट्वा तदेवानुप्रविशत्तदनुप्रविश्य सच्च त्यच्चाभवन्निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यं अभवदिति पूर्वोक्तं सर्वं अनयैव श्रुत्या व्यक्तं ।

(१४१)
ब्रह्मप्राप्त्युपायश्च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिरेवेत्युक्तं । भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव । ननु च सुखं प्रीतिरित्यनर्थान्तरं । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरं इति हि लौकिकाः । नैवं । येन ज्ञानविशेषेण तत्साध्यं इत्युच्यते स एव ज्ञानविशेषः सुखं ।

(१४२)
एतदुक्तं भवति  विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकं इत्यभिमतं तद्विषयं ज्ञानं एव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयं अस्थिरं च । ब्रह्मणस्त्वनवधिकातिशयं स्थिरं चेति । आनन्दो ब्रह्मेत्युच्यते । विषयायत्तत्वाज्ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखं । तदिदं आह  रसो वै सः  रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखं इति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः । परमपुरुषः स्वेनैव स्वयं अनवधिकातिशयसुखः सन्परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात् । ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थः । तदेवं परस्य ब्रह्मणोऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेरनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वादात्मनः शेषत्वात्प्रतिबंधितयानुसंधीयमानं अनवधिकातिशयप्रीतिविषयं सत्परं ब्रह्मैवैनं आत्मानं प्रापयतीति ।

(१४३)
ननु चात्यन्तशेषतैवात्मनोऽनवधिकातिशयसुखं इत्युक्तं भवति । तदेतत्सर्वलोकविरुद्धं । तथा हि सर्वेषां एव चेतनानां स्वातन्त्र्यं एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरं । स्मृतिश्च
सर्वं परवशं दुःखं सर्वं आत्मवशं सुखं ।
तथा हि
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ।
इति । तदिदं अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितं । तथा हि  शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्नेवाहं इति संसारिणां प्रतीतिः । आत्माभिमानो यादृशस्तदनुगुणैव पुरुषार्थप्रतीतिः । सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्मादात्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितं । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारं । तच्च परशेषतैकस्वरूपं । यथावस्थितात्माभिमाने तदनुगुणैव पुरुषार्थप्रतीतिः । आत्मा ज्ञानमयोऽमल इति स्मृतेर्ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्येत्यादि श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः सिंहव्याघ्रादिशरीरात्माभिमानवत्स्वातन्त्र्याभिमानोऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः । अतः कर्मकृतं एव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वं । अत एव तेषां अल्पत्वं अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वं । अतस्तदेव स्थिरं अनवधिकातिशयं च  कं ब्रह्म खं ब्रह्म  आनन्दो ब्रह्म  सत्यं ज्ञानं अनन्तं ब्रह्मेति श्रुतेः । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तं
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।
वस्त्वेकं एव दुःखाय सुखायेर्ष्यागमाय च ।
कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥
सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः । तदेकान्तता पुण्यपापकृतेत्यर्थः । एवं अनेकपुरुषापेक्षया कस्यचित्सुखं एव कस्यचिद्दुःखं भवतीत्यवस्थां प्रतिपाद्य, एकस्मिन्नपि पुरुषे न व्यवस्थितं इत्याह
तदेव प्रीयते भूत्वा पुनर्सुःखाय जायते ।
तदेव कोपाय यतः प्रसादाय च जायते ॥
तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकं ।
इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतं । अतः कर्मावसाने तदपैतीत्यर्थः ।

(१४४)
यत्तु सर्वं परवशं दुःखं इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात्तद्व्यतिरिक्तं प्रति शेषता दुःखं एवेत्युक्तं । सेवा श्ववृत्तिराख्यातेत्यत्राप्यसेव्यसेवा श्ववृत्तिरेवेत्युक्तं । स ह्याश्रमैः सदोपास्यः समस्तैरेक एव त्विति सर्वैरात्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव । यथोक्तं भगवता
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥
इतीयं एव भक्तिरूपा सेवा ब्रह्मविदाप्नोति परम् तं एवं विद्वानमृत इह भवति  ब्रह्म वेद ब्रह्मैव भवतीत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तं । यं एवैष वृणुते तेन लभ्य इति विशेषणाद्यं एवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश्च प्रियतमः । यस्य भगवत्यनवधिकातिशया प्रीतिर्जायते स एव भगवतः प्रियतमः । तदुक्तं भगवता
प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः ।
इति । तस्मात्परभक्तिरूपापन्नं एव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनं । यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपं
न संदृशो तिष्ठति रूपं अस्य न चक्षुषा पश्यति कश्चनैनं ।
भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीतीह ॥
धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति  साक्षात्करोति  प्राप्नोतीत्यर्थः । भक्त्या त्वनन्न्यया शक्य इत्यनेनाइकार्थ्यात् । भक्तिश्च ज्ञानविशेष एवेति सर्वं उपपन्नं ।

(१४५)
सारासारविवेकज्ञा गरीयांसो विमत्सराः ।
प्रमाणतन्त्राः सन्तीति कृतो वेदार्थसङ्ग्रहः ॥

N/A

References :

वेदार्थसङ्ग्रह
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP