TransLiteral Foundation

चतुर्थ अध्याय - फल

ब्रह्मसूत्र ग्रंथाचे लेखक आहेत, बादरायण. या ग्रंथास वेदान्त सूत्र, उत्तर-मीमांसा सूत्र, शारीरिक सूत्र किंवा भिक्षु सूत्र या नावांनी सुद्धा ओळखतात. या ग्रंथात एकंदर ५५५ सूत्र आहेत.


फल
आवृत्तिर् असकृदुपदेशात् ॥१.१॥

लिङ्गाच् च ॥१.२॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥१.३॥

न प्रतीके न हि सः ॥१.४॥

ब्रह्मदृष्टिर् उत्कर्षात् ॥१.५॥

आदित्यादिमतयश् चाङ्ग उपपत्तेः ॥१.६॥

आसीनः संभवात् ॥१.७॥

ध्यानाच् च ॥१.८॥

अचलत्वं चापेक्ष्य ॥१.९॥

स्मरन्ति च ॥१.१०॥

यत्रैकाग्रता तत्राविशेषात् ॥१.११॥

आप्रयाणात् तत्रापि हि दृष्टम् ॥१.१२॥

तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् ॥१.१३॥

इतरस्याप्य् एवम् असंश्लेषः पाते तु ॥१.१४॥

अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥१.१५॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१.१६॥

अतोऽन्यापि ह्य् एकेषाम् उभयोः ॥१.१७॥

यद् एव विद्ययेति हि ॥१.१८॥

भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते ॥१.१९॥


वाङ्मनसि दर्शनाच् छब्दाच् च ॥२.१॥

अत एव सर्वाण्यनु ॥२.२॥

तन्मनः प्राण उत्तरात् ॥२.३॥

सोऽध्यक्षे तदुपगमादिभ्यः ॥२.४॥

भूतेषु तच्छ्रुतेः ॥२.५॥

नैकस्मिन् दर्शयतो हि ॥२.६॥

समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य ॥२.७॥

तदापीतेः संसारव्यपदेशात् ॥२.८॥

सूक्ष्मं प्रमाणतश् च तथोपलब्धेः ॥२.९॥

नोपमर्देनातः ॥२.१०॥

अस्यैव चोपपत्तेर् ऊष्मा ॥२.११॥

प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् ॥२.१२॥

स्मर्यते च ॥२.१३॥

तानि परे तथा ह्य् आह ॥२.१४॥

अविभागो वचनात् ॥२.१५॥

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् ॥२.१६॥

रश्म्यनुसारी ॥२.१७॥

निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च ॥२.१८॥

अतश् चायनेऽपि दक्षिणे ॥२.१९॥

योगिनः प्रति स्मर्येते स्मार्ते चैते ॥२.२०॥


अर्चिरादिना तत्प्रथितेः ॥३.१॥

वायुमब्दादविशेषविशेषाभ्याम् ॥३.२॥

तटितोऽधि वरुणः संबन्धात् ॥३.३॥

आतिवाहिकास् तल्लिङ्गात् ॥३.४॥

वैद्युतेनैव ततस् तच्छ्रुतेः ॥३.५॥

कार्यं बादरिरस्य गत्युपपत्तेः ॥३.६॥

विशेषितत्वाच् च ॥३.७॥

सामीप्यात् तु तद्व्यपदेशः ॥३.८॥

कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् ॥३.९॥

स्मृतेश् च ॥३.१०॥

परं जैमिनिर् मुख्यत्वात् ॥३.११॥

दर्शनाच् च ॥३.१२॥

न च कार्ये प्रत्यभिसन्धिः ॥३.१३॥

अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च ॥३.१४॥

विशेषं च दर्शयति ॥३.१५॥


संपद्याविर्भावः स्वेन शब्दात् ॥४.१॥

मुक्तः प्रतिज्ञानात् ॥४.२॥

आत्मा प्रकरणात् ॥४.३॥

अविभागेन दृष्टत्वात् ॥४.४॥

ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः ॥४.५॥

चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः ॥४.६॥

एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः ॥४.७॥

संकल्पाद् एव तच्छ्रुतेः ॥४.८॥

अत एव चानन्याधिपतिः ॥४.९॥

अभावं बादरिर् आह ह्य् एवम् ॥४.१०॥

भावं जैमिनिर् विकल्पामननात् ॥४.११॥

द्वादशाहवद् उभयविधं बादरायणोऽतः ॥४.१२॥

तन्वभावे सन्ध्यवद् उपपत्तेः ॥४.१३॥

भावे जाग्रद्वत् ॥४.१४॥

प्रदीपवदावेशस् तथा हि दर्शयति ॥४.१५॥

स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि ॥४.१६॥

जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च ॥४.१७॥

प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः ॥४.१८॥

विकारावर्ति च तथा हि स्थितिम् आह ॥४.१९॥

दर्शयतश् चैवं प्रत्यक्षानुमाने ॥४.२०॥

भोगमात्रसाम्यलिङ्गाच् च ॥४.२१॥

अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् ॥४.२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

SŪRYAKETU(सूर्यकेतु)

  • A daitya (demon). Once this daitya conquered the world of the gods and expelled Indra. At that time Purañjaya was the King of Ayodhyā, who was born in the Solar dynasty. Indra requested for his help. Purañjaya agreed to help Indra, on condition that Indra should stand as an ox and that he would sit on the hump of that ox and fight. Accordingly he sat on the ‘Kakud’ (hump) of the ox and fought in the battle, killed Sūryaketu, and reinstated Indra in his former position. Because he sat on the ‘Kakud’, Purañjaya got the name Kakutstha. The dynasty of the King came to be called by the name Kākutstha. [Kamba Rāmāyaṇa, Yuddhakāṇḍa]. 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.