TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीय अध्याय - अविरोध

ब्रह्मसूत्र ग्रंथाचे लेखक आहेत, बादरायण. या ग्रंथास वेदान्त सूत्र, उत्तर-मीमांसा सूत्र, शारीरिक सूत्र किंवा भिक्षु सूत्र या नावांनी सुद्धा ओळखतात. या ग्रंथात एकंदर ५५५ सूत्र आहेत.


अविरोध
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१.१॥

इतरेषां चानुपलब्धेः ॥१.२॥

एतेन योगः प्रत्युक्तः ॥१.३॥

न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् ॥१.४॥

अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् ॥१.५॥

दृश्यते तु ॥१.६॥

असद् इति चेन् न प्रतिषेधमात्रत्वात् ॥१.७॥

अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् ॥१.८॥

न तु दृष्टान्तभावात् ॥१.९॥

स्वपक्षदोषाच् च ॥१.१०॥

तर्काप्रतिष्ठानाद् अपि ॥१.११॥

अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः ॥१.१२॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥१.१३॥

भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् ॥१.१४॥

तदनन्यत्वम् आरम्भणशब्दादिभ्यः ॥१.१५॥

भावे चोपलब्धेः ॥१.१६॥

सत्वाच् चापरस्य ॥१.१७॥

असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च ॥१.१८॥

पटवच् च ॥१.१९॥

यथा च प्राणादिः ॥१.२०॥

इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः ॥१.२१॥

अधिकं तु भेदनिर्देशात् ॥१.२२॥

अश्मादिवच् च तदनुपपत्तिः ॥१.२३॥

उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि ॥१.२४॥

देवादिवद् अपि लोके ॥१.२५॥

कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा ॥१.२६॥

श्रुतेस् तु शब्दमूलत्वात् ॥१.२७॥

आत्मनि चैवं विचित्राश् च हि ॥१.२८॥

स्वपक्षदोषाच् च ॥१.२९॥

सर्वोपेता च तद्दर्शनात् ॥१.३०॥

विकरणत्वान् नेति चेत् तद् उक्तम् ॥१.३१॥

न प्रयोजनवत्त्वात् ॥१.३२॥

लोकवत् तु लीलाकैवल्यम् ॥१.३३॥

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥१.३४॥

न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च ॥१.३५॥

सर्वधर्मोपपत्तेश् च ॥१.३६॥


रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च ॥२.१॥

पयोऽम्बुवच् चेत् तत्रापि ॥२.२॥

व्यतिरेकानवस्थितेश् चानपेक्षत्वात् ॥२.३॥

अन्यत्राभावाच् च न तृणादिवत् ॥२.४॥

पुरुषाश्मवद् इति चेत् तथापि ॥२.५॥

अङ्गित्वानुपपत्तेश् च ॥२.६॥

अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥२.७॥

अभ्युपगमेऽप्य् अर्थाभावात् ॥२.८॥

विप्रतिषेधाच् चासमञ्जसम् ॥२.९॥

महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् ॥२.१०॥

उभयथापि न कर्मातस्तदभावः ॥२.११॥

समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः ॥२.१२॥

नित्यम् एव च भावात् ॥२.१३॥

रूपादिमत्त्वाच् च विपर्ययो दर्शनात् ॥२.१४॥

उभयथा च दोषात् ॥२.१५॥

अपरिग्रहाच् चात्यन्तम् अनपेक्षा ॥२.१६॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥२.१७॥

इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् ॥२.१८॥

उत्तरोत्पादे च पूर्वनिरोधात् ॥२.१९॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२.२०॥

प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् ॥२.२१॥

उभयथा च दोषात् ॥२.२२॥

आकाशे चाविशेषात् ॥२.२३॥

अनुस्मृतेश् च ॥२.२४॥

नासतोऽदृष्टत्वात् ॥२.२५॥

उदासीनानाम् अपि चैवं सिद्धिः ॥२.२६॥

नाभाव उपलब्धेः ॥२.२७॥

वैधर्म्याच् च न स्वप्नादिवत् ॥२.२८॥

न भावोऽनुपलब्धेः ॥२.२९॥

सर्वथानुपपत्तेश् च ॥२.३०॥

नैकस्मिन्न् असम्भवात् ॥२.३१॥

एवं चात्माकार्त्स्न्यम् ॥२.३२॥

न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः ॥२.३३॥

अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः ॥२.३४॥

पत्युर् असामञ्जस्यात् ॥२.३५॥

अधिष्ठानानुपपत्तेश् च ॥२.३६॥

करणवच् चेन् न भोगादिभ्यः ॥२.३७॥

अन्तवत्त्वम् असर्वज्ञता वा ॥२.३८॥

उत्पत्त्यसंभवात् ॥२.३९॥

न च कर्तुः करणम् ॥२.४०॥

विज्ञानादिभावे वा तदप्रतिषेधः ॥२.४१॥

विप्रतिषेधाच् च ॥२.४२॥


न वियदश्रुतेः ॥३.१॥

अस्ति तु ॥३.२॥

गौण्यसंभवाच् छब्दाच् च ॥३.३॥

स्याच् चैकस्य ब्रह्मशब्दवत् ॥३.४॥

प्रतिज्ञाहानिर् अव्यतिरेकात् ॥३.५॥

शब्देभ्यः ॥३.६॥

यावद्विकारं तु विभागो लोकवत् ॥३.७॥

एतेन मातरिश्वा व्याख्यातः ॥३.८॥

असंभवस् तु सतोऽनुपपत्तेः ॥३.९॥

तेजोऽतस् तथा ह्य् आह ॥३.१०॥

आपः ॥३.११॥

पृथिवी ॥३.१२॥

अधिकाररूपशब्दान्तरेभ्यः ॥३.१३॥

तदभिध्यानाद् एव तु तल्लिङ्गात् सः ॥३.१४॥

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥३.१५॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् ॥३.१६॥

चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् ॥३.१७॥

नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः ॥३.१८॥

ज्ञोऽत एव ॥३.१९॥

उत्क्रान्तिगत्यागतीनाम् ॥३.२०॥

स्वात्मना चोत्तरयोः ॥३.२१॥

नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् ॥३.२२॥

स्वशब्दोन्मानाभ्यां च ॥३.२३॥

अविरोधश् चन्दनवत् ॥३.२४॥

अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि ॥३.२५॥

गुणाद्वा लोकवत् ॥३.२६॥

व्यतिरेको गन्धवत् तथा हि दर्शयति ॥३.२७॥

पृथगुपदेशात् ॥३.२८॥

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॥३.२९॥

यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् ॥३.३०॥

पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् ॥३.३१॥

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥३.३२॥

कर्ता शास्त्रार्थवत्त्वात् ॥३.३३॥

उपादानाद् विहारोपदेशाच् च ॥३.३४॥

व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः ॥३.३५॥

उपलब्धिवदनियमः ॥३.३६॥

शक्तिविपर्ययात् ॥३.३७॥

समाध्यभावाच् च ॥३.३८॥

यथा च तक्षोभयथा ॥३.३९॥

परात् तु तच्छ्रुतेः ॥३.४०॥

कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥३.४१॥

अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके ॥३.४२॥

मन्त्रवर्णात् ॥३.४३॥

अपि स्मर्यते ॥३.४४॥

प्रकाशादिवत् तु नैवं परः ॥३.४५॥

स्मरन्ति च ॥३.४६॥

अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् ॥३.४७॥

असन्ततेश् चाव्यतिकरः ॥३.४८॥

आभास एव च ॥३.४९॥

अदृष्टानियमात् ॥३.५०॥

अभिसन्ध्यादिष्व् अपि चैवम् ॥३.५१॥

प्रदेशभेदाद् इति चेन् नान्तर्भावात् ॥३.५२॥


तथा प्राणाः ॥४.१॥

गौण्यसंभवात् तत्प्राक् श्रुतेश् च ॥४.२॥

तत्पूर्वकत्वाद् वाचः ॥४.३॥

सप्त गतेर् विशेषितत्वाच् च ॥४.४॥

हस्तादयस् तु स्थितेऽतो नैवम् ॥४.५॥

अणवश् च ॥४.६॥

श्रेष्ठश् च ॥४.७॥

न वायुक्रिये पृथगुपदेशात् ॥४.८॥

चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॥४.९॥

अकरणत्वाच् च न दोषस् तथा हि दर्शयति ॥४.१०॥

पञ्चवृत्तिर् मनोवत् व्यपदिश्यते ॥४.११॥

अणुश् च ॥४.१२॥

ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥४.१३॥

तस्य च नित्यत्वात् ॥४.१४॥

त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् ॥४.१५॥

भेदश्रुतेर् वैलक्षण्याच् च ॥४.१६॥

संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् ॥४.१७॥

मांसादि भौमं यथाशब्दमितरयोश् च ॥४.१८॥

वैशेष्यात् तु तद्वादस् तद्वादः ॥४.१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.4830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

committee system

  • समिति पद्धति 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site