TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीय अध्याय - साधना

ब्रह्मसूत्र ग्रंथाचे लेखक आहेत, बादरायण. या ग्रंथास वेदान्त सूत्र, उत्तर-मीमांसा सूत्र, शारीरिक सूत्र किंवा भिक्षु सूत्र या नावांनी सुद्धा ओळखतात. या ग्रंथात एकंदर ५५५ सूत्र आहेत.


साधना
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१.१॥

त्र्यात्मकत्वात् तु भूयस्त्वात् ॥१.२॥

प्राणगतेश् च ॥१.३॥

अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् ॥१.४॥

प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः ॥१.५॥

अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः ॥१.६॥

भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति ॥१.७॥

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥१.८॥

चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥१.९॥

आनर्थक्यम् इति चेन् न तदपेक्षत्वात् ॥१.१०॥

सुकृतदुष्कृते एवेति तु बादरिः ॥१.११॥

अनिष्टादिकारिणाम् अपि च श्रुतम् ॥१.१२॥

संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् ॥१.१३॥

स्मरन्ति च ॥१.१४॥

अपि सप्त ॥१.१५॥

तत्रापि तद्व्यापारादविरोधः ॥१.१६॥

विद्याकर्मणोर् इति तु प्रकृतत्वात् ॥१.१७॥

न तृतीये तथोपलब्धेः ॥१.१८॥

स्मर्यतेऽपि च लोके ॥१.१९॥

दर्शनाच् च ॥१.२०॥

तृतीयशब्दावरोधः संशोकजस्य ॥१.२१॥

तत्स्वाभाव्यापत्तिरुपपत्तेः ॥१.२२॥

नातिचिरेण विशेषात् ॥१.२३॥

अन्याधिष्ठिते पूर्ववदभिलापात् ॥१.२४॥

अशुद्धम् इति चेन् न शब्दात् ॥१.२५॥

रेतःसिग्योगोऽथ ॥१.२६॥

योनेःशरीरम् ॥१.२७॥


सन्ध्ये सृष्टिराह हि ॥२.१॥

निर्मातारं चैके पुत्रादयश् च ॥२.२॥

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥२.३॥

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥२.४॥

देहयोगाद्वा सोऽपि ॥२.५॥

सूचकश् च हि श्रुतेराचक्षते च तद्विदः ॥२.६॥

तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥२.७॥

अतः प्रबोधोऽस्मात् ॥२.८॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥२.९॥

मुग्धेर्ऽधसंपत्तिः परिशेषात् ॥२.१०॥

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥२.११॥

भेदाद् इति चेन् न प्रत्येकमतद्वचनात् ॥२.१२॥

अपि चैवम् एके ॥२.१३॥

अरूपवदेव हि तत्प्रधानत्वात् ॥२.१४॥

प्रकाशवच्चावैयर्थ्यात् ॥२.१५॥

आह च तन्मात्रम् ॥२.१६॥

दर्शयति चाथो अपि स्मर्यते ॥२.१७॥

अत एव चोपमा सूर्यकादिवत् ॥२.१८॥

अम्बुवदग्रहणात् तु न तथात्वम् ॥२.१९॥

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च ॥२.२०॥

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२.२१॥

तदव्यक्तमाह हि ॥२.२२॥

अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥२.२३॥

प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् ॥२.२४॥

अतोऽनन्तेन तथा हि लिङ्गम् ॥२.२५॥

उभयव्यपदेशात्त्वहिकुण्डलवत् ॥२.२६॥

प्रकाशाश्रयवद्वा तेजस्त्वात् ॥२.२७॥

पूर्ववद्वा ॥२.२८॥

प्रतिषेधाच् च ॥२.२९॥

परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥२.३०॥

सामान्यात् तु ॥२.३१॥

बुद्ध्यर्थः पादवत् ॥२.३२॥

स्थानविशेषात्प्रकाशादिवत् ॥२.३३॥

उपपत्तेश् च ॥२.३४॥

तथान्यप्रतिषेधात् ॥२.३५॥

अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥२.३६॥

फलमत उपपत्तेः ॥२.३७॥

श्रुतत्वाच् च ॥२.३८॥

धर्मं जैमिनिरत एव ॥२.३९॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥२.४०॥

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥३.१॥

भेदान् नेति चेद् एकस्याम् अपि ॥३.२॥

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः ॥३.३॥

दर्शयति च ॥३.४॥

उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च ॥३.५॥

अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् ॥३.६॥

न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥३.७॥

संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि ॥३.८॥

व्याप्तेश् च समञ्जसम् ॥३.९॥

सर्वाभेदादन्यत्रेमे ॥३.१०॥

आनन्दादयः प्रधानस्य ॥३.११॥

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥३.१२॥

इतरे त्वर्थसामान्यात् ॥३.१३॥

आध्यानाय प्रयोजनाभावात् ॥३.१४॥

आत्मशब्दाच् च ॥३.१५॥

आत्मगृहीतिर् इतरवद् उत्तरात् ॥३.१६॥

अन्वयाद् इति चेत् स्याद् अवधारणात् ॥३.१७॥

कार्याख्यानादपूर्वम् ॥३.१८॥

समान एवं चाभेदात् ॥३.१९॥

सम्बन्धादेवमन्यत्रापि ॥३.२०॥

न वा विशेषात् ॥३.२१॥

दर्शयति च ॥३.२२॥

संभृतिद्युव्याप्त्यपि चातः ॥३.२३॥

पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥३.२४॥

वेधाद्यर्थभेदात् ॥३.२५॥

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥३.२६॥

सांपराये तर्तव्याभावात् तथा ह्य् अन्ये ॥३.२७॥

छन्दत उभयाविरोधात् ॥३.२८॥

गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः ॥३.२९॥

उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् ॥३.३०॥

यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् ॥३.३१॥

अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३.३२॥

अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३.३३॥

इयदामननात् ॥३.३४॥

अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् ॥३.३५॥

व्यतिहारो विशिंषन्ति हीतरवत् ॥३.३६॥

सैव हि सत्यादयः ॥३.३७॥

कामादीतरत्र तत्र चाऽयतनादिभ्यः ॥३.३८॥

आदरादलोपः ॥३.३९॥

उपस्थितेऽतस्तद्वचनात् ॥३.४०॥

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥३.४१॥

प्रदानवदेव तदुक्तम् ॥३.४२॥

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥३.४३॥

पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ॥३.४४॥

अतिदेशाच् च ॥३.४५॥

विद्यैव तु निर्धारणाद्दर्शनाच् च ॥३.४६॥

श्रुत्यादिबलीयस्त्वाच् च न बाधः ॥३.४७॥

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् ॥३.४८॥

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥३.४९॥

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः ॥३.५०॥

एक आत्मनः शरीरे भावात् ॥३.५१॥

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥३.५२॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥३.५३॥

मन्त्रादिवद्वाविरोधः ॥३.५४॥

भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति ॥३.५५॥

नाना शब्दादिभेदात् ॥३.५६॥

विकल्पोऽविशिष्टफलत्वात् ॥३.५७॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥३.५८॥

अङ्गेषु यथाश्रयभावः॥३.५९॥

शिष्टेश् च ॥३.६०॥

समाहारात् ॥३.६१॥

गुणसाधारण्यश्रुतेश् च ॥३.६२॥

न वा तत्सहभावाश्रुतेः ॥३.६३॥

दर्शनाच् च ॥३.६४॥


पुरुषार्थो ऽतः शब्दाद् इति बादरायणः ॥४.१॥

शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः॥

BBस्३,४.२॥

आचारदर्शनात् ॥४.३॥

तच्छ्रुतेः ॥४.४॥

समन्वारम्भणात् ॥४.५॥

तद्वतो विधानात् ॥४.६॥

नियमात् ॥४.७॥

अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॥४.८॥

तुल्यं तु दर्शनम् ॥४.९॥

असार्वत्रिकी ॥४.१०॥

विभागः शतवत् ॥४.११॥

अध्ययनमात्रवतः ॥४.१२॥

नाविशेषात् ॥४.१३॥

स्तुतयेऽनुमतिर्वा ॥४.१४॥

कामकारेण चैके ॥४.१५॥

उपमर्दं च ॥४.१६॥

ऊर्ध्वरेतस्सु च शब्दे हि ॥४.१७॥

परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥४.१८॥

अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥४.१९॥

विधिर् वा धारणवत् ॥४.२०॥

स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् ॥४.२१॥

भावशब्दाच् च ॥४.२२॥

पारिप्लवार्था इति चेन् न विशेषितत्वात् ॥४.२३॥

तथा चैकवाक्योपबन्धात् ॥४.२४॥

अत एव चाग्नीन्धनाद्यनपेक्षा ॥४.२५॥

सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् ॥४.२६॥

शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् ॥४.२७॥

सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् ॥४.२८॥

अबाधाच् च ॥४.२९॥

अपि स्मर्यते ॥४.३०॥

शब्दश् चातोऽकामकारे ॥४.३१॥

विहितत्वाच् चाऽश्रमकर्मापि ॥४.३२॥

सहकारित्वेन च ॥४.३३॥

सर्वथापि त एवोभयलिङ्गात् ॥४.३४॥

अनभिभवं च दर्शयति ॥४.३५॥

अन्तरा चापि तु तद्दृष्टेः ॥४.३६॥

अपि स्मर्यते ॥४.३७॥

विशेषानुग्रहश् च ॥४.३८॥

अतस् त्व् इतरज्ज्यायो लिङ्गाच् च ॥४.३९॥

तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः ॥४.४०॥

न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् ॥४.४१॥

उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् ॥४.४२॥

बहिस् तूभयथापि स्मृतेर् आचाराच् च ॥४.४३॥

स्वामिनः फलश्रुतेर् इत्य् आत्रेयः ॥४.४४॥

आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते ॥४.४५॥

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४.४६॥

कृत्स्नभावात् तु गृहिणोपसंहारः ॥४.४७॥

मौनवद् इतरेषाम् अप्य् उपदेशात् ॥४.४८॥

अनाविष्कुर्वन्न् अन्वयात् ॥४.४९॥

ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥४.५०॥

एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः ॥४.५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ocdupied

  • ताब्यात असलेला 
  • व्याप्त 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.