TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ब्रह्मस्फुटसिद्धान्त - अध्याय ३

ब्रह्मस्फुटसिद्धान्त, ब्रह्मगुप्त ची प्रमुख रचना आहे. या रचना संस्कृतमध्ये असून, याची रचना सन ६२८ च्या आसपास झाली. ब्रह्मस्फुटसिद्धान्तमध्ये एकंदर चौवीस अध्याय आहेत.


शङ्कु-छाया-आदि-ज्ञानम् प्रश्नास्
दृष्ट्वा दिन-अर्ध-घटिका यस् अर्क-ज्ञस् अक्ष-अंशकान् विजानाति ।

उदय-अन्तर-घटिकाभिस् ज्ञातात् ज्ञेयम् सस् तन्त्र-ज्ञस् ॥१॥

अस्त-अन्तर-घटिकाभिस् यस् ज्ञातात् ज्ञेयम् आनयति तस्त्मात् ।

मध्य-गतिम् युग-भ-गणान् आनयति ततस् सस् तन्त्र-ज्ञस् ॥२॥

आनयति यस् तमस्-रवि-शश-अङ्क-मानानि दीपक-शिख-औच्च्यात् ।

शङ्कु-तल-अन्तर-भूमि-ज्ञाने छायाम् सस् तन्त्र-ज्ञस् ॥३॥

इष्ट-गृह-औच्च्य-ज्ञस् यस् तद्-अन्तर-ज्ञस् निरीक्ष्यते तु जले ।

गृह-भित्ति-अग्रम् दर्शयति दर्पणे वा सस् तन्त्र-ज्ञस् ॥४॥

छाया-द्वितीय-भा-अग्र-अन्तर-विज्ञानेन वेत्ति दीप-औच्यम् ।

शङ्कु-छाया-ज्ञस् वा भूमेस् छायाम् सस् तन्त्र-ज्ञस् ॥५॥

दृष्ट्वा गृह-तल-अन्तर-जालभोस् दृष्ट्वा अग्रम् गृहस्य भूमि-ज्ञस् ।

वेत्ति गृह-औच्च्यम् दृष्ट्वा तैल-स्थम् वा सस् तन्त्र-ज्ञस् ॥६॥

वीक्ष्य गृह-अग्रम् सलिले प्रसार्य सलिलम् पुनर् स्व-भू-ज्ञाने ।

आनयति जलात् भूमिम् गृहस्य वा औच्च्यम् सस् तन्त्र-ज्ञस् ॥७॥

ज्ञातैस् छाया-पुरुषैस् विज्ञाते तोय-कुड्ययोस् विवरे ।

कुड्ये अर्क-तेजसस् यस् वेत्ति आरूढिम् सस् तन्त्र-ज्ञस् ॥८॥


उत्तराणि

इष्ट-दिवस-अर्ध-घटिका घटिका-पञ्चदश-अन्तर-प्राणास् ।

तद्-दिवस-चर-प्राणास् तैस् अक्षम् साधयेत् प्राक्-वत् ॥१॥

ज्ञात-ज्ञेय-ग्रहयोस् उदय-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

उदयैस् ज्ञातस् ज्ञातात् ज्ञेयस् प्राक्-अपरयोस् ज्ञेयस् ॥२॥

ज्ञातस् स-भ-अर्धस् उदयैस् अस्त-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

ज्ञातात् पूर्व-अपरयोस् ज्ञेयस् भ-अर्ध-ऊनके ज्ञेयस् ॥३॥

ज्ञातम् कृत्वा मध्यम् भूयस् अन्य-दिने तद्-अन्तरम् भुक्तिस् ।

त्रैराशिकेन भुक्त्या कल्प-ग्रह-मण्डल-आनयनम् ॥४॥

स्थिति-अर्धात् विपरीतम् तमस्-प्रमाणम् स्फुटम् ग्रहणे ।

मान-उदयात् रवि-इन्द्वोस् घटिका-अवयवेन भ-उदय-तस् ॥५॥

दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम् ।

दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया ॥६॥

शङ्कु-अन्तरेण गुणिता छाया छाया-अन्तरेण भक्ता भूस्  ।

स-छाया शङ्कु-गुणा दीप-औच्च्यम् छायया भक्ता ॥७॥

ज्ञात्वा शङ्कु-छायाम् अनुपातात् साधयेत् समुच्छ्रायान् ।

गृह-चैत्य-तरु-नगानाम् औच्च्यम् विज्ञाय वा छायाम् ॥८॥

युत-दृष्टि-गृह-औच्च्य-हृता हि अन्तर-भूमिस् दृक्-औच्च्य-सङ्गुणिता ॥

फल-भूस् न्यस्ते तोये प्रति-रूप-अग्रम् गृहस्य नरात् ॥९॥

गृह-पुरुष-अन्तर-सलिले वीक्ष्य गृह-अग्रम् दृक्-औच्च्य-सङ्गुणितम् ।

गृह-तोय-अन्तरम् औच्च्यम् गृहस्य नृ-जल-अन्तरेण हृतम् ॥१०॥

प्रथम-द्वितीय-नृ-जल-अन्तर-अन्तरेण उद्धृता जल-अपसृतिस् ।

दृष्टि-औच्च्य-गुणा उच्छ्रायस् तोयात् नृ-जल-अन्तर-गुणा भूस् ॥११॥

छाया-पुरुष-छिन्नम् जल-कुड्य-अन्तरम् अवाप्तम् आरूढिस् ।

अध्यायस् विंशति-आर्याणाम् एकोनविंशस् अयम् ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Fire Warden

  • आगरक्षक 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site