TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ब्रह्मस्फुटसिद्धान्त - अध्याय २

ब्रह्मस्फुटसिद्धान्त, ब्रह्मगुप्त ची प्रमुख रचना आहे. या रचना संस्कृतमध्ये असून, याची रचना सन ६२८ च्या आसपास झाली. ब्रह्मस्फुटसिद्धान्तमध्ये एकंदर चौवीस अध्याय आहेत.


कुट्टक-अध्यायस्
अथ कुट्टक-अध्यायस्

प्रायेण यतस् प्रश्नास् कुट्टाकारात् ऋते न शक्यन्ते ।

ज्ञातुम् वक्ष्यामि ततस् कुट्टाकारम् सह प्रश्नैस् ॥१॥

कुट्टक-ख-ऋण-धन-अव्यक्त-मध्य-हरण-एक-वर्ण-भावितकैस् ।

आचार्यस् तन्त्र-विदाम् ज्ञातैस् वर्ग-प्रकृत्या च ॥२॥


कुट्टकम्

अधिक-अग्र-भाग-हारात् ऊन-अग्र-छेद-भाजितात् शेषम् ।

यत् तत् परस्पर-हृतम् लब्धम् अधस् अधस् पृथक् स्थाप्यम् ॥१॥

शेषम् तथा इष्ट-गुणितम् यथा अग्रयोस् अन्तरेण संयुक्तम् ।

शुध्यति गुणकस् स्थाप्यस् लब्धम् च अन्त्यात् उपान्त्य-गुणस् ॥२॥

स्व-ऊर्ध्वस् अन्त्य-युतस् अग्र-अन्तस् हीन-अग्र-छेद-भाजितस् शेषम् ।

अधिक-अग्र-छेद-हतम् अधिक-अग्र-युतम् भवति अग्रम् ॥३॥

छेद-वधस्य द्वि-युगम् छेद-वधस् युग-गतम् द्वयोस् अग्रम् ।

कुट्टाकारेण एवम् त्रि-आदि-ग्रह-युग-गत-आनयनम् ॥४॥

भ-गण-आदि-शेषम् अग्रम् छेद-हृतम् खम् च दिन-ज-शेष-हृतम् ।

अनयोस् अग्रम् भ-गण-आदि-दिन-ज-शेष-उद्धृतम् द्यु-गणस् ॥५॥

दिन-ज-भ-गण-आदि-शेषम् येन गुणम् मण्डल-आदि शेषकयोस् ।

स-दृश-छेद-उद्धृतयोस् तद्-घातम् अहर्-गण-आद्यम् अतस् ॥६॥

हृतयोस् परस्परम् यत् छेषम् गुण-कार-भाग-हारकयोस् ।

तेन हृतौ निस्-छेदौ तौ एव परस्परम् हृतयोस् ॥७॥

लब्धम् अधस् अधस् स्थाप्यम् तथा इष्ट-गुण-कार-सङ्गुणम् शेषम् ।

शुध्यति यथा एक-हीनम् गुणकस् स्थाप्यस् फलम् च अन्त्यात् ॥८॥

अग्र-अन्तम् उपान्त्येन स्व-ऊर्ध्वस् गुणितस् अन्त्य-संयुतस् भक्तम् ।

निस्-शेष-भाग-हारेण एवम् स्थिर-कुट्टकस् शेषम् ॥९॥

इष्ट-भ-गण-आदि-शेषात् स्व-कुट्टक-गुणात् स्व-भाग-हार-गुणात् ।

शेषम् द्यु-गणस् गत-निस्-अपवर्त-गुण-भाग-हार-युतस् ॥१०॥
 
एवम् समेषु विषमेषु ऋणम् धनम् धनम् ऋणम् यत् उक्तम् तत् ।

ऋण-धनयोस् व्यस्तत्वम् गुण्य-प्रक्षेपयोस् कार्यम् ॥११॥

गुणकस् छेदस् छेदस् गुणकस् धनम् ऋणम् ऋणम् धनम् कार्यम् ।

वर्गम् पदम् पदम् कृतिस् अन्त्यात् विपरीतम् आद्यम् तत् ॥१२॥

यस् जानाति युग-आदि ग्रह-युग-यातैस् पृथक् पृथक् कथितैस् ।

द्वि-त्रि-चतुर्-प्रभृतीनाम् कुट्टाकारम् सस् जानाति ॥१३॥

भ-गण-आद्यम् इष्ट-शेषम् कदा इन्दु-दिवसे रवेस् गुरु-दिने वा ।

ज्ञ-दिने राशीन् कथयति कुट्टाकारम् सस् जानाति ॥१४॥

ज्ञ-दिने यत् अंश-शेषम् विकला-शेषम् कदा तत् इन्दु-दिने ।

भानोस् अथ वा शशिनस् यस् कथयति कुट्टक-ज्ञस् सस् ॥१५॥

तिथि-मान-दिनेषु इष्टास् ये अर्क-आद्यास् ते पुनर् कदा तेषु ।

इष्ट-ग्रह-वारेषु यस् कथयति कुट्टक-ज्ञस् सस् ॥१६॥

इष्ट-भ-गण-आदि-शेषात् द्यु-गणस् तत् कुट्टकेन संयुक्तस् ।

तद्-छेद-दिनैस् तावत् दिन-वारस् यावत् इष्टस् स्यात् ॥१७॥

यस् राशि-आदीन् दृष्ट्वा मध्यस्य इष्टस्य कतह्यति द्यु-गणम् ।

द्वि-आदि-ग्रह-संयोगात् ग्रह-अन्तरात् वा सस् कुट्ट-ज्ञस् ॥१८॥

निस्-छेद-भाग-हारात् राशि-आदि-कला-आदिना हतात् भक्तात् ।

भ-गण-कलाभिस् लब्धम् मण्डल-शेषम् दिन-गणस् अस्मात् ॥१९॥

एवम् राशि-अंश-कला-विकला-शेषात् अहर्-गणस् प्राक्-वत् ।

नष्ट-स्थेषु इष्टान् तान् कृत्वा भक्त्वा उक्त-वत् शेषम् ॥२०॥

राशि-अंश-कला-विकला-शेषात् कथितात् अभीष्टतस् नष्टान् ।

यस् साधयति उपरितनान् स-मध्यमान् कुट्टक-ज्ञस् सस् ॥२१॥

येन गुणस् शेष-युतस् छेदस् शुध्यति हृतस् स्व-गुणकेन ।

तद्-भुक्तम् शेषम् फलम् एवम् शेषात् ग्रह-द्यु-गणौ ॥२२॥

जानाति यस् युग-गतम् कथितात् अधिमास-शेषकात् इष्टात् ।

अवम-अवशेषतस् वा तद्-योगात् वा सस् कुट्ट-ज्ञस् ॥२३॥  

इष्टेषु मान-दिवसेषु अधिमास-न्यून-रात्र-शेषे वा ।

भूयस् ते यस् कथयति पृथक् पृथक् वा सस् कुट्ट-ज्ञस् ॥२४॥

अंशक-शेषात् त्रि-ऊनात् सप्त-हृतात् मूलम् ऊनम् अष्टाभिस् ।

नवभिस् गुणम् स-रूपम् कदा शतम् बुध-दिने सवितुस् ॥२५॥

त्रि-ऊन-अधिमास-शेषात् मूलम् द्वि-अधिकम् विभाजितम् षड्भिस् ।

द्वि-ऊनम् वर्गितम् अधिकम् नवभिस् नवतिस् कदा भवति ॥२६॥

अवम-अवशेष-वर्गस् वि-एकस् विंशति-विभाजितस् द्वि-अधिकस् ।

अष्ट-गुणस् दश-भक्तस् द्वि-युतस् अष्टादश कदा भवति ॥२७॥


धन-ऋण-शून्यम्

धनयोस् धनम् ऋणम् ऋणयोस् धन-ऋणयोस् अन्तरम् सम-ऐक्यम् खम् ।

ऋणम् ऐक्यम् च धनम् ऋण-धन-श्ऊन्ययोस् श्ऊन्ययोस् श्ऊन्यम् ॥१॥

ऊनम् अधिकात् विशोध्यम् धनम् धनात् ऋणम् ऋणात् अधिकम् ऊनात् ।

व्यस्तम् तद्-अन्तरम् स्यात् ऋणम् धनम् धनम् ऋणम् भवति ॥२॥

श्ऊन्य-विहीनम् ऋणम् ऋणम् धनम् धनम् भवति श्ऊन्यम् आकाशम् ।

शोध्यम् यदा धनम् ऋणात् ऋणम् धनात् वा तदा क्षेप्यम् ॥३॥

ऋणम् ऋण-धनयोस् घातस् धनम् ऋणयोस् धन-वधस् धनम् भवति ।

श्ऊन्य-ऋणयोस् ख-धनयोस् ख-श्ऊन्ययोस् वा वधस् श्ऊन्यम् ॥४॥

धन-भक्तम् धनम् ऋण-हृतम् ऋणम् धनम् भवति खम् ख-भक्तम् खम् ।

भक्तम् ऋणेन धनम् ऋणम् धनेन हृतम् ऋणम् ऋणम् भवति ॥५॥

ख-उद्धृतम् ऋणम् धनम् वा तद्-छेदम् खम् ऋण-धन-विभक्तम् वा ।

ऋण-धनयोस् वर्गस् स्वम् खम् खस्य पदम् कृतिस् यत् तत् ॥६॥


सङ्क्रमणम्

योगस् अन्तर-युत-हीनस् द्वि-हृतस् सङ्क्रमणम् अन्तर-विभक्तम् वा ।

वर्ग-अन्तरम् अन्तर-युत-हीनम् द्वि-हृतम् विषम-कर्म ॥१॥


करणी

करणी लम्बस् तद्-कृतिस् इष्ट-हृता इष्ट-ऊन-संयुता अल्पा भूस् ।

अधिकस् द्वि-हृतस् बाहुस् संक्षेप्यस् यद्-वधस् वर्गस् ॥१॥

इष्ट-उद्धृत-करणी-पद-युति-कृतिस् इष्ट-गुणिता अन्तर-कृतिस् वा ।

गुण्यस् तिर्यक् अधस् अधस् गुणक-समस् तद्-गुणस् सहितस् ॥२॥

स्व-इष्ट-ऋण-छेद-गुणौ भाज्य-छेदौ पृथक् युजौ असकृत् ।

छेद-एक-गत-हृतस् वा भाज्यस् वर्गस् सम-द्वि-वधस् ॥३॥

इष्ट-करणी-ऊनायास् रूप-कृतेस् पद-युत-ऊन-रूप-अर्धे ।

प्रथमम् रूपाणि अन्यत् ततस् द्वितीयम् करणी असकृत् ॥४॥

अव्यक्त-वर्ग-घन-वर्ग-वर्ग-पञ्च-गत-षष्-गत-आदीनाम् ।

तुल्यानाम् सङ्कलित-व्यवकलिते पृथक् अतुल्यानाम् ॥५॥

सदृश-द्वि-वधस् वर्गस् त्रि-आदि-वधस् तद्-गतस् अन्य-जाति-वधस् ।

अन्योन्य-वर्ण-घातस् भावितकस् पूर्व-वत् शेषम् ॥६॥


एक-वर्ण-समी-करणम्

अव्यक्त-अन्तर-भक्तम् व्यस्तम् रूप-अन्तरम् समे अव्यक्तस् ।

वर्ग-अव्यक्तास् शोध्यास् यस्मात् रूपाणि तद्-अधस्तात् ॥१॥

वर्ग-चतुर्-गुणितानाम् रूपाणाम् मध्य-वर्ग-सहितानाम् ।

मूलम् नध्येन ऊनम् वर्ग-द्वि-गुण-उद्धृतम् मध्यस् ॥२॥

वर्ग-आहत-रूपाणाम् अव्यक्त-अर्ध-कृति-संयुतानाम् यत् ।

पदम् अव्यक्त-अर्ध-ऊनम् तत् वर्ग-विभक्तम् अव्यक्तस् ॥३॥

स-एकात् अंशक-शेषात् द्वादश-भागस् चतुर्-गुणस् अष्ट-युतस् ।

स-एक-अंश-शेष-तुल्यस् यदा तदा अहर्-गणम् कथय ॥४॥

द्वि-ऊनम् अधिक-मास-शेषम् त्रि-हृतम् सप्त-अधिकम् द्वि-सङ्गुणितम् ।

अधिमास-शेष-तुल्यम् यदा तदा युग-गतम् कथय ॥५॥

वि-एकम् अवम-अवशेषम् षष्-उद्धृतम् त्रि-युतम् अवम-शेषस्य ।

पञ्च-विभक्तस्य समम् यदा तदा युग-गतम् कथय ॥६॥

मण्डल-शेषात् द्वि-ऊनात् मूलम् वि-एकम् दश-आहतम् द्वि-युतम् ।

मण्डल-शेषम् वि-एकम् भानोस् ज्ञ-दिने कदा भवति ॥७॥

अधिमास-शेष-पादात् त्रि-ऊनात् वर्गस् अधिमास-शेष-समस् ।

अवम-अवशेषतस् वा अवम-शेष-समस् कदा भवति ॥८॥


अनेक-वर्ण-समी-करणम्

आद्यात् वर्णात् अन्यान् वर्णान् प्रोह्य आद्य-मानम् आड्य-हृतम् ।

सदृश-छेदौ असकृत् द्वौ व्यस्तौ कुट्टकस् बहुषु ॥१॥

गत-भगण-युतात् द्यु-गणात् तद्-शेष-युतात् तद्-ऐक्य-संयुक्तात् ।

तद्-योगात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥२॥

गत-भगण-ऊनात् द्यु-गणात् तद्-शेष-ऊनात् तद्-ऐक्य-हीनात् वा ।

तद्-विवरात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥३॥

राशि-आद्यैस् तद्-शेषैस् च एवम् भुक्त-अधिमास-दिन-हीनैस् ।

तद्-शेषैस् च युग-गतम् यस् कथयति कुट्टक-ज्ञस् सस् ॥४॥

अंशक-शेषेण युतात् लिप्ता-शेषात् तद्-अन्तरात् अथ वा ।

भानोस् ज्ञ-दिने द्यु-गणम् यस् कथयति कुट्टक-ज्ञस् सस् ॥५॥

अंशक-शेषम् त्रि-युतम् लिप्ता-शेषम् कदा रवेस् ज्ञ-दिने ।

षट् सप्त अष्टौ नव वा कुर्वन् आ वत्सरात् गणकस् ॥६॥

अंश-समम् अंश-शेषम् कला-समम् वा कला-शेषम् ।

दिवस-करस्य इष्ट-दिने कुर्वन् आ वत्सरात् गणकस् ॥७॥

अवम-अवशेषम् अवमैस् अधिमासक-शेषम् अधिमासैस् ।

इष्ट-युत-ऊनम् तुल्यम् कुर्वन् आ वत्सरात् गणकस् ॥८॥

निस्-छेद-भाग-हारस् भानोस् सप्तति-गुणस् अंश-शेष-ऊनस् ।

शुध्यति अयुत-विभक्तस् कुर्वन् आ वत्सरात् गणकस् ॥९॥


भावितकम्

भावितक-रूप-गुणना स-अव्यक्त-वधा इष्ट-भाजिता इष्ट-आप्त्योस् ।

अल्पे अधिकस् अधिके अल्पस् क्षेप्यस् भावित-हृतौ व्यस्तम् ॥१॥

भानोस् राशि-अंश-वधात् त्रि-चतुर्-गुणितान् विशोध्य राशि-अंशान् ।

नवतिम् दृष्ट्वा सूर्यम् कुर्वन् आ वत्सरात् गणकस् ॥२॥

भावितके यद्-घातस् विनष्ट-वर्णेन तद्-प्रमाणानि ।

कृत्वा इष्टानि तद्-आहत-वर्ण-ऐक्यम् भवति रूपाणि ॥३॥

वर्ण-प्रमाण-भावित-घातस् भवति इष्ट-वर्ण-सङ्ख्या एवम् ।

सिध्यति विना अपि भावित-सम-करणात् किम् कृतम् तत् अतस् ॥४॥


वर्ग-प्रकृतिस्

मूलम् द्विधा इष्ट-वर्गात् गुणक-गुणात् इष्ट-युत-विहीनात् च ।

आद्य-वधस् गुणक-गुणस् सह अन्त्य-घातेन कृतम् अन्त्यम् ॥१॥

वज्र-वध-ऐक्यम् प्रथमम् प्रक्षेपस् क्षेप-वध-तुल्यस् ।

प्रक्षेप-शोधक-हृते मूले प्रक्षेपके रूपे ॥२॥

रूप-प्रक्षेप-पदे पृथक् इष्ट-क्षेप्य-शोध्य-मूलाभ्याम् ।

कृत्वा अन्त्य-आद्य-पदे ये प्रक्षेपे शोधने वा इष्टे ॥३॥

चतुर्-अधिके अन्त्य-पद-कृतिस् त्रि-ऊना दलिता अन्त्य-पद-गुणा अन्त्य-पदम् ।

अन्त्य-पद-कृतिस् वि-एका द्वि-हृता आद्य-पद-आहता आद्य-पदम् ॥४॥

चतुर्-ऊने अन्त्य-पद-कृती त्रि-एक-युते वध-दलम् पृथक् वि-एकम् ।

वि-एक-आड्य-आहतम् अन्त्यम् पद-वध-गुणम् आद्यम् आन्त्य-पदम् ॥५॥

वर्गे गुणके क्षेपस् केन चित् उद्धृत-युत-ऊनितस् दलितस् ।

प्रथमस् अन्त्य-मूलम् अन्यस् गुण-कार-पद-उद्धृतस् प्रथमस् ॥६॥

वर्ग-छिन्ने गुणके प्रथमम् तद्-मूल-भाजितम् भवति ।

वर्ग-छिन्ने क्षेपे तद्-पद-गुणिते तदा मूले ॥७॥

गुणक-युतिस् अष्ट-गुणिता गुणक-अन्तर-वर्ग-भाजिता राशिस् ।

गुणकौ त्रि-गुणौ व्यस्त-अधिकौ हृतौ अन्तरेण पदे ॥८॥

वर्गस् अन्य-कृति-युत-ऊनस् तद्-संयोग-अन्तर-अर्ध-कृति-भक्तस् ।

तद्-गुणितौ युति-वियुतौ वर्गौ घाते च रूप-युते ॥९॥  

यैस् ऊनस् यैस् च युतस् रूपैस् वर्गस् तद्-ऐक्यम् इष्ट-हृतम् ।

इष्ट-ऊनम् तद्-दल-कृतिस् ऊना अभ्यधिका भवति राशिस् ॥१०॥  

याभ्याम् कृतिस् अधिक-ऊनस् तद्-अन्तरम् हृत-युत-ऊनम् इष्टेन ।

तद्-दल-कृतिस् अधिक-ऊना अधिकयोस् अधिक-ऊनयोस् राशिस् ॥११॥


उदाहरणानि

राशि-कला-शेष-कृतिम् द्विनवति-गुणिताम् त्र्यशीति-गुणिताम् वा ।

स-एका ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥१॥

सूर्य-विलिप्ता-शेषम् पञ्चभिस् ऊन-आहतम् तथा दशभिस् ।

वर्गे बृहस्पति-दिने कुर्वन् आ वत्सरात् गणकस् ॥२॥

भ-गण-आदि-शेष-वर्गम् त्रिभिस् गुणम् संयुतम् शतैस् नवभिस् ।

कृतिम् अष्ट-शत-ऊनम् वा कुर्वन् आ वत्सरात् गणकस् ॥३॥

भ-गण-आदि-शेष-वर्गम् चतुर्-गुणम् पञ्चषष्टि-संयुक्तम् ।

षष्टि-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥४॥

इष्ट-भगण-आदि-शेषम् द्विनवति-ऊनम् त्र्यशीति-संगुणितम् ।

रूपेण युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥५॥

अधिमास-शेष-वर्गम् त्रयोदश-गुणम् त्रिभिस् शतैस् युक्तम् ।

त्रि-घन-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥६॥

इन्दु-विलिप्ता-शेषम् सप्तदश-गुणम् त्रयोदश-गुणम् च अपि ।

पृथक् एक-युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥७॥

अवम-अवशेष-वर्गम् द्वादश-गुणितम् शतेन संयुक्तम् ।

त्रिभिस् ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥८॥

ज्ञ-दिने अर्क-कला-शेषम् गुरु-दिन-विकला-अवशेष-युक्त-ऊनम् ।

वर्गम् वधम् च स-एकम् कुर्वन् आ वत्सरात् गणकस् ॥९॥

विकला-शेषम् सहितम् त्रिनवत्या सप्तषष्टि-हीनम् च ।

भानोस् ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥१०॥

ज्ञ-दिने अर्क-कला-शेषम् द्वादशभिस् संयुतम् त्रिषष्ट्या च ।

षष्ट्या अष्टभिस् च ऊनम् कुर्वन् आ वत्सरात् गणकस् ॥११॥

इन्दु-विलिप्ता-शेषात् रवि-लिप्ता-शेषम् अंश-शेषम् वा ।

अथ वा मध्यमम् इष्टम् कुर्वन् आ वत्सरात् गणकस् ॥१२॥

जीव-विलिप्ता-शेषात् कु-जम् इन्दुम् भौम-लिप्तिका-शेषात् ।

रविम् इन्दु-भाग-शेषात् कुर्वन् आ वत्सरात् गणकस् ॥१३॥

इष्ट-ग्रह-इष्ट-शेषात् द्यु-गणस् गत-निस्-अपवर्त-संगुणितैस् ।

छेद-दिनैस् अधिकस् अस्मात् अन्य-ग्रह-शेषम् इष्टस् वा ॥१४॥

निस्-छेद-भाग-हारौ ग्रहयोस् विपरीतौ ग्रहयोस् द्यु-गणात् ।

यस्मात् तद्-निस्-छेदेन उद्धृतयोस् लब्ध-संगुणितौ ॥१५॥

निस्-छेद-भाग-हारौ विपरीतौ तद्-युतात् पुनर् तस्मात् ।

शेषे द्यु-गणात् एवम् त्रि-आदीनाम् प्राक्-वत् इष्ट-दिने ॥१६॥

द्यु-गणम् अवम-अवशेषात् रवि-चन्द्रौ मध्यमौ स्फुटौ अथ वा ।

एवम् तिथिम् ग्रहम् वा कुर्वन् आ वत्सरात् गणकस् ॥१७॥

एक-दिनम् अवम-शेषम् यद्-गुणम् एक-रवि-चन्द्र-भ-गण-ऊनम् ।

शुध्यति भू-दिन-भक्तम् वि-एकम् चान्द्रैस् तद्-उक्तिस् इयम् ॥१८॥

इषु-श्अर-कृत-अष्ट-दिग्भिस्  सङ्गुणितात् अवम-शेषकात् भक्तात् ।

रूप-अष्ट-वेद-रस-श्ऊन्य-श्अर-गुणैस्  दिन-गणस् शेषम् ॥१९॥

जिन-रस-गो-अब्धि-रद--गुणात् श्अशि-वसु-कृत-रस-ख-भूत-राम--हृतात् ।

इष्ट-अवम-शेषात् यत् शेषम् रवि-भ-गण-शेषम् तत् ॥२०॥

गो-अग-इन्दु-ख-ईश--गुणितात् भक्तात् नख-पक्ष-यम-रस-इषु-गुणैस्  ।

शेषम् अवम-अवशेषात् तिथयस् अवम-शेषकात् विकलम् ॥२१॥

भाग-कला-विकला-ऐक्यम् दृष्ट्वा विकला-अन्तरम् च के शेषे ।

ऐक्यम् द्विधा अन्तर-अधिक-हीनम् च द्वि-भाजितम् शेषे ॥२२॥

तद्-वर्ग-अन्तरम् आद्ये तद्-अन्तरम् च अनतर-उद्धृत-युत-ऊनम् ।

वर्ग-अन्तरम् विभक्तम् द्वाभ्याम् शेषे ततस् द्यु-गणस् ॥२३॥

[कृति-संयोगात् द्वि-गुणात् युति-वर्गम् प्रोह्य शेष-मूलम् यत् ।

तेन युत-ऊनस् योगस् दलितस् शेषे पृथक् अभीष्टे ॥२४॥

शेष-वधात् द्वि-कृति-गुणात् शेष-अन्तर-वर्ग-संयुतात् मूलम् ।

शेष-अन्तर-ऊन-युक्तम् दलितम् शेषे पृथक् अभीष्टे ॥२५॥

हृदि-घात्रम् अमी प्रश्नास् प्रश्नान् अन्यान् सहस्र-शस् कुर्यात् ।

अन्यैस् दत्तान् प्रश्नान् उक्त्या एवम् साधयेत् करणैस् ॥२६॥

जन-संसदि दैव-विदाम् तेजस् नाशयति भानुस् इव भानाम् ।

कुट्टाकार-प्रश्नैस् पथितैस् अपि किम् पुनर् शत-शस् ॥२७॥

प्रति-सूत्रम् अमी प्रश्नास् पथितास् स-उद्देशकेषु सूत्रेषु ।

आर्या-त्रि-अधिक-शतेन च कुट्टस् च अष्टादशस् अध्यायस् ॥२८॥

इति श्री-ब्राह्मस्फुटसिद्धान्ते कुट्टक-अध्यायस् अष्टादशस् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:32.0770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Remission

  • सूट 
  • माफी 
  • स्त्री. सूट 
  • allowance 
More meanings
RANDOM WORD

Did you know?

दीप किंवा दिवा लावण्याचे कांही शास्त्र आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site