TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय १० - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ५
५.०१
पञ्च.धनुः.शत.अपकृष्टं दुर्गम् अवस्थाप्य युद्धम् उपेयात्, भूमि.वशेन वा ॥

५.०२
विभक्त.मुख्याम् अचक्षुर्.विषये मोक्षयित्वा सेनां सेना.पति.नायकौ व्यूहेयाताम् ॥

५.०३
शम.अन्तरं पत्तिं स्थापयेत्, त्रि.शम.अन्तरम् अश्वम्, पञ्च.शम.अन्तरं रथं हस्तिनं वा ॥

५.०४
द्वि.गुण.अन्तरं त्रि.गुण.अन्तरं वा व्यूहेत ॥

५.०५
एवं यथा.सुखम् असम्बाधं युध्येत ॥

५.०६
पञ्च.अरत्नि धनुः ॥

५.०७
तस्मिन् धन्विनं स्थापयेत्, त्रि.धनुष्य् अश्वम्, पञ्च.धनुषि रथं हस्तिनं वा ॥

५.०८
पञ्च.धनुर् अनीक.संधिः पक्ष.कक्ष.उरस्यानाम् ॥

५.०९
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥

५.१०
पञ्च.दश रथस्य हस्तिनो वा, पञ्च च_अश्वाः ॥

५.११
तावन्तः पाद.गोपा वाजि.रथ.द्विपानां विधेयाः ॥

५.१२
त्रीणि त्रिकाण्य् अनीकं रथानाम् उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च_उभयतः ॥

५.१३
पञ्च.चत्वारिंशद् एवं रथा रथ.व्यूहे भवन्ति, द्वे शते पञ्च.विंशतिश् च_अश्वाः, षट्.शतानि पञ्च.सप्ततिश् च पुरुषाः प्रतियोधारः, तावन्तः पाद.गोपाः ॥

५.१४
एष सम.व्यूहः ॥

५.१५
तस्य द्वि.रथ.उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

५.१६
एवम् ओजा दश सम.व्यूह.प्रकृतयो भवन्ति ॥

५.१७
पक्ष.कक्ष.उरस्यानां मिथो विषम.संख्याने विषम.व्यूहः ॥

५.१८
तस्य_अपि द्वि.रथ_उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

५.१९
एवम् ओजा दश विषम.व्यूह.प्रकृतयो भवन्ति ॥

५.२०
अतः सैन्यानां व्यूह.शेषम् आवापः कार्यः ॥

५.२१
रथानां द्वौ त्रि.भागाव् अङ्गेष्व् आवापयेत्, शेषम् उरस्यं स्थापयेत् ॥

५.२२
एवं त्रि.भाग.ऊनो रथानाम् आवापः कार्यः ॥

५.२३
तेन हस्तिनाम् अश्वानाम् आवापो व्याख्यातः ॥

५.२४
यावद्.अश्व.रथ.द्विपानां युद्ध.सम्बाधन्म् न कुर्यात् तावद् आवापः कार्यः ॥

५.२५
दण्ड.बाहुल्यम् आवापः ॥

५.२६
पत्ति.बाहुल्यं प्रत्यापावः ॥

५.२७
एक.अङ्ग.बाहुल्यम् अन्वावापः ॥

५.२८
दूष्य.बाहुल्यम् अत्यावापः ॥

५.२९
पर.आवापात् प्रत्यावापाच् च चतुर्.गुणाद् आ.अष्ट.गुणाद् इति वा विभवतः सैन्यानाम् आवापः ॥

५.३०
रथ.व्यूहेन हस्ति.व्यूहो व्याख्यातः ॥

५.३१
व्यामिश्रो वा हस्ति.रथ.अश्वानां - चक्र.अन्तेषु हस्तिनः पार्श्वयोर् अश्वा रथा उरस्ये ॥

५.३२
हस्तिनाम् उरस्यं रथानां कक्षाव् अश्वानां पक्षाव् इति मध्य.भेदी ॥

५.३३
विपरीतो_अन्त.भेदी ॥

५.३४
हस्तिनाम् एव तु शुद्धः - साम्नाह्यानाम् उरस्यम् औपवाह्यानां जघनं व्यालानां कोट्याव् इति ॥

५.३५
अश्व.व्यूहो - वर्मिणाम् उरस्यं शुद्धानां कक्ष.पक्षाव् इति ॥

५.३६
पत्ति.व्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः ॥

५.३७
इति शुद्धाः ॥

५.३८
पत्तयः पक्षयोर् अश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, पर.व्यूह.वशेन वा विपर्यासः ॥

५.३९
इति द्व्य्.अङ्ग.बल.विभागः ॥

५.४०
तेन त्र्.अङ्ग.बल.विभागो व्याख्यातः ॥

५.४१
दण्ड.सम्पत् सार.बलं पुंसां

५.४२
हस्त्य्.अश्वयोर् विशेषः कुलं जातिः सत्त्वं वयः.स्थता प्राणो वर्ष्म जवस् तेजः शिल्पं स्तैर्यम् उदग्रता विधेयत्वं सुव्यञ्जन.आचारता_इति ॥

५.४३
पत्त्य्.अश्व.रथ.द्विपानां सार.त्रि.भागम् उरस्यं स्थापयेत्, द्वौ त्रि.भागौ कक्षं पक्षं च_उभयतः, अनुलोमम् अनुसारम्, प्रतिलोमं तृतीय.सारम्, फल्गु प्रतिलोमम् ॥

५.४४
एवं सर्वम् उपयोगं गमयेत् ॥

५.४५
फल्गु.बलम् अन्तेष्व् अवधाय वेग.अभिहूलिको भवति ॥

५.४६
सार.बलम् अग्रतः कृत्वा कोटीष्व् अनुसारं कुर्यात्, जघने तृतियिय.सारम्, मध्ये फल्गु.बलम् ॥

५.४७
एवम् एतत् सहिष्णु भवति ॥

५.४८
व्यूहं तु स्थापयित्वा पक्ष.कक्ष.उरस्यानाम् एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥

५.४९
यत् परस्य दुर्बलं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं कृत.उपजापं वा तत्.प्रभूत.सारेण_अभिहन्यात् ॥

५.५०
यद् वा परस्य सारिष्ठं तद्.द्वि.गुण.सारेण_अभिहन्यात् ॥

५.५१
यद् अङ्गम् अल्प.सारम् आत्मनस् तद् बहुना_उपचिनुयात् ॥

५.५२
यतः परस्य_अपचयस् ततो_अभ्याशे व्यूहेत, यतोत् वा भयं स्यात् ॥

५.५३
अभिसृतं परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य.अवधानं वलयो गो.मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त.पृष्ठम् अनुवंशम् अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न.रक्षा भग्न.अनुपात इत्य् अश्व.युद्धानि ॥

५.५४
प्रकीर्णिक.आवर्जान्य् एतान्य् एव चतुर्णाम् अङ्गानां व्यस्त.समस्तानां वा घातः, पक्ष.कक्ष.उरस्यानां च प्रभञ्जनम् अवस्कन्दः सौप्तिकं च_इति हसित्.युद्धानि ॥

५.५५
उन्मथ्य.अवधान.वर्जान्य् एतान्य् एव स्व.भूमाव् अभियान.अपयान.स्थित.युद्धानि_इति रथ.युद्धानि ॥

५.५६
सर्व.देश.काल.प्रहरणम् उपांशु.दण्डश् च_इति पत्ति.युद्धानि ॥

५.५७
एतेन विधिना व्यूहान् ओजान् युग्मांश् च कारयेत् ।

५.५७
विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् ॥

५.५८
द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।

५.५८
भिन्न.संघातनं तस्मान् न युध्येत_अप्रतिग्रहः ॥

(दण्ड.भोग.मण्डल.असम्हत.व्यूह.व्यूहनम् - तस्य प्रतिव्यूह.स्थानम्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:26.7500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मन्या

  • स्त्री. मानेची मागची शीर . [ सं . ] 
  • ०स्तंभ पु. ज्यांत मान इकडेतिकडे वळवितां येत नाहीं असा रोग ; मान धरणें . 
RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.