अर्थशास्त्रम् अध्याय १० - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


४.०१
स्व.भूमिः पत्त्य्.अश्व.रथ.द्विपानाम् इष्टा युद्धे निवेशे च ॥

४.०२
धान्वन.वन.निम्न.स्थल.योधिनां खनक.आकाश.दिवा.रात्रि.योधिनां च पुरुषाणां नादेय.पार्वत.आनूप.सारसानां च हस्तिनाम् अश्वानां च यथा.स्वम् इष्टा युद्ध.भूमयः कालाश् च ॥

४.०३
समा स्थिरा_अभिकाशा निरुत्खातिन्य.चक्र.खुरा_अनक्ष.ग्राहिण्य.वृक्ष.गुल्म.व्रतती.स्तम्भ.केदार.श्वभ्र.वल्मीक.सिकता.पङ्क.भङ्गुरा दरण.हीना च रथ.भूमिः, हस्त्य्.अश्वयोर् मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ॥

४.०४
अण्व्.अश्म.वृक्षा ह्रस्व.लङ्घनीय.श्वभ्रा मन्द.दरण.दोषा च_अश्व.भूमिः ॥

४.०५
स्थूल.स्थाण्व् अश्म.वृक्ष.व्रतती.वल्मीक.गुल्मा पदाति.भूमिः ॥

४.०६
गम्य.शैल.निम्न.विषमा मर्दनीय.वृक्षा छेदनीय.व्रतती पङ्क.भङ्गुरा दरण.हीना च हस्ति.भूमिः ॥

४.०७
अकण्टकिन्य् अबहु.विषमा प्रत्यासारवती_इति पदातीनाम् अतिशयः ॥

४.०८
द्वि.गुण.प्रत्यासारा कर्दम.उदक.खञ्जन.हीना निह्शर्करा_इति वाजिनाम् अतिशयः ॥

४.०९
पांसु.कर्दम.उदक.नल.शर.आधानवती श्व.दण्ष्ट्र.हीना महा.वृक्ष.शाखा.घात.वियुक्ता_इति हस्तिनाम् अतिशयः ॥

४.१०
तोय.आशय.अपाश्रयवती निरुत्खातिनी केदार.हीना व्यावर्तन.समर्था_इति रथानाम् अतिशयः ॥

४.११
उक्ता सर्वेषां भूमिः ॥

४.१२
एतया सर्व.बल.निवेशा युद्धानि च व्याख्यातानि भवन्ति ॥

४.१३
भूमि.वास.वन.विचयो_अविषम.तोय.तीर्थ.वात.रश्मि.ग्रहणं वीवध.आसारयोर् घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार.वृद्धिर् बाहु.उत्सारः पूर्व.प्रहारो व्यावेशनं व्यावेधनम् आश्वासो ग्रहणं मोक्षणं मार्ग.अनुसार.विनिमयः कोश.कुमार.अभिहरणं जघन.कोट्य्.अभिघातो हीन.अनुसारणम् अनुयानं समाज.कर्म_इत्य् अश्व.कर्माणि ॥

४.१४
पुरो.यानम् अकृत.मार्ग.वास.तीर्थ.कर्म बाहु.उत्सारस् तोय.तरण.अवतरणे स्थान.गमन.अवतरणं विषम.सम्बाध.प्रवेशो_अग्नि.दान.शमनम् एक.अङ्ग.विजयो भिन्न.संधानम् अभिन्न.भेदनं व्यसने त्राणम् अभिघातो विभीषिका त्रासनं.औदार्यं ग्रहणं मोक्षणं साल.द्वार.अट्टालक.भञ्जनं कोश.वाहन.अपवाहनम् इति हस्ति.कर्माणि ॥

४.१५
स्व.बल.रक्षा चतुर्.अङ्ग.बल.प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न.संधानम् अभिन्न.भेदनं त्रासनम् औदार्यं भीम.घोषश् च_इति रथ.कर्माणि ॥

४.१६
सर्व.देश.काल.शस्त्र.वहनं व्यायामश् च_इति पदाति.कर्माणि ॥

४.१७
शिबिर.मार्ग.सेतु.कूप.तीर्थ.शोधन.कर्म यन्त्र.आयुध.आवरण.उपकरण.ग्रास.वहनम् आयोधनाच् च प्रहरण.आवरण.प्रतिविद्ध.अपनयनम् इति विष्टि.कर्माणि ॥

४.१८
कुर्याद् गव.अश्व.व्यायोगं रथेष्व् अल्प.हयो नृपः ।

४.१८
खर.उष्ट्र.शकटानां वा गर्भम् अल्प.गजस् तथा ॥

(पक्ष.कक्ष.उरस्यानाम् बल.अग्रतो व्यूह.विभागह् - सार.फल्गु.बल.विभागह् - पत्त्य्.अश्व.रथ.हस्ति.युद्धानि)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP