अर्थशास्त्रम् अध्याय १० - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


३.०१
बल.विशिष्टः कृत.उपजापः प्रतिविहित.ऋतुः स्व.भूम्यां प्रकाश.युद्धम् उपेयात् ॥

३.०२
विपर्यये कूट.युद्धम् ॥

३.०३
बल.व्यसन.अवस्कन्द.कालेषु परम् अभिहन्यात्, अभूमिष्ठं वा स्व.भूमिष्ठः, प्रकृति.प्रग्रहो वा स्व.भूमिष्ठम् ॥

३.०४
दूष्य.अमित्र.अटवी.बलैर् वा भङ्गं दत्त्वा विभूमि.प्राप्तं हन्यात् ॥

३.०५
संहत.अनीकं हस्तिभिर् भेदयेत् ॥

३.०६
पूर्वं भङ्ग.प्रदानेन_अनुप्रलीनं भिन्नम् अभिन्नः प्रतिनिवृत्य हन्यात् ॥

३.०७
पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्.अश्वेन_अभिहन्यात् ॥

३.०८
पृष्ठतो_अभिहत्या प्रचलं विमुखं वा पुरस्तात् सार.बलेन_अभिहन्यात् ॥

३.०९
ताभ्यां पार्श्व.अभिगातौ व्याख्यातौ ॥

३.१०
यतो वा दूष्य.फल्गु.बलं ततो_अभिहन्यात् ॥

३.११
पुरस्ताद् विषमायां पृष्ठतो_अभिहन्यात् ॥

३.१२
पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात् ॥

३.१३
पार्श्वतो विषमायाम् इतरतो_अभिहन्यात् ॥

३.१४
दूष्य.अमित्र.अटवी.बलैर् वा पूर्वं योधयित्वा श्रान्तम् अश्रान्तः परम् अभिहन्यात् ॥

३.१५
दूष्य.बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तम् अविश्वस्तः सत्त्र.अपाश्रयो_अभिहन्यात् ॥

३.१६
सार्थ.व्रज.स्कन्ध.आवार.संवाह.विलोप.प्रमत्तम् अप्रमत्तो_अभिहन्यात् ॥

३.१७
फल्गु.बल.अवच्छन्न.सार.बलो वा पर.वीरान् अनुप्रविश्य हन्यात् ॥

३.१८
गो.ग्रहणेन श्वा.पद.वधेन वा पर.वीरान् आकृष्य सत्त्रच्.छन्नो_अभिहन्यात् ॥

३.१९
रात्राव् अवस्कन्देन जागरयित्वा निद्रा.क्लान्तान् अवसुप्तान् वा दिवा हन्यात् ॥

३.२०
सपाद.चर्म.कोशैर् वा हस्तिभिः सौप्तिकं दद्यात् ॥

३.२१
अहः.सम्नाह.परिश्रान्तान् अपर.अह्ने_अभिहन्यात् ॥

३.२२
शुष्क.चर्म.वृत्त.शर्कर.आकोशकैर् गो.महिष.उष्ट्र.यूथैर् वा त्रस्नुभिर् अकृत.हस्त्य्.अश्वं भिन्नम् अभिन्नः प्रतिनिवृत्तं हन्यात् ॥

३.२३
प्रतिसूर्य.वातं वा सर्वम् अभिहन्यात् ॥

३.२४
धान्वन.वन.संकट.पङ्क.शैल.निम्न.विषम.नावो गावः शकटव्यूहो नीहारो रात्रिर् इति सत्त्राणि ॥

३.२५
पूर्वे च प्रहरण.कालाः कूट.युद्ध.हेतवः ॥

३.२६
संग्रामस् तु निर्दिष्ट.देश.कालो धर्मिष्ठः ॥

३.२७
संहत्य दण्डं ब्रूयात् "तुल्य.वेतनो_अस्मि, भवद्भिः सह भोग्यम् इदं राज्यम्, मया_अभिहितैः परो_अभिहन्तव्यः" इति ॥

३.२८
वेदेष्व् अप्य् अनुश्रूयते समाप्त.दक्षिणानां यज्ञानाम् अवभृथेषु "सा ते गतिर् या शूराणाम्" इति ॥

३.२९
अपि_इह श्लोकौ भवतः ॥

३.३०
"यान् यज्ञ.संघैस् तपसा च विप्राः स्वर्ग.एषिणः पात्र.चयैश् च यान्ति ।

३.३०
क्षणेन तान् अप्य् अतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥

३.३१
"नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ.कृत.उत्तरीयम् ।

३.३१
तत् तस्य मा भून् नरकं च गच्छेद् यो भर्तृ.पिण्डस्य कृते न युध्येत् - इति ॥

३.३२
मन्त्रि.पुरोहिताभ्याम् उत्साहयेद् योधान् व्यूह.सम्पदा ॥

३.३३
कार्तान्तिक.आदिश् च_अस्य वर्गः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं च_उद्वेजयेत् ॥

३.३४
"श्वो युद्धम्" इति कृत.उपवासः शस्त्र.वाहनं च_अनुशयीत ॥

३.३५
अथर्वभिश् च जुहुयात् ॥

३.३६
विजय.युक्ताः स्वर्गीयाश् च_आशिषो वाचयेत् ॥

३.३७
ब्राह्मणेभ्यश् च_आत्मानम् अतिसृजेत् ॥

३.३८
शौर्य.शिल्प.अभिजन.अनुराग.युक्तम् अर्थ.मानाभ्याम् अविसंवादितम् अनीक.गर्भं कुर्वीत ॥

३.३९
पितृ.पुत्र.भ्रातृकाणाम् आयुधीयानाम् अध्वजं मुण्ड.अनीकं राज.स्थानम् ॥

३.४०
हस्ती रथो वा राज.वाहनम् अश्व.अनुबन्धः ॥

३.४१
यत् प्राय.सैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत् ॥

३.४२
राज.व्यञ्जनो व्यूह.अधिष्ठानम् आयोज्यः ॥

३.४३
सूत.मागधाः शूराणां स्वर्गम् अस्वर्गं भीरूणां जाति.संघ.कुल.कर्म.वृत्त.स्तवं च योधानां वर्णयेयुः ॥

३.४४
पुरोहित.पुरुषाः कृत्य.अभिचारं ब्रूयुः, यन्त्रिक.वर्धकि.मौहूर्तिकाः स्व.कर्म.सिद्धिम् असिद्धिं परेषाम् ॥

३.४५
सेना.पतिर् अर्थ.मानाभ्याम् अभिसंस्कृतम् अनीकम् आभाषेत - "शत.साहस्रो राज.वधः, पञ्चाशत्.साहस्रः सेना.पति.कुमार.वधः, दश.साहस्रः प्रवीर.मुख्य.वधः, पञ्च.साहस्रो हस्ति.रथ.वधः, साहस्रो_अश्व.वधः, शत्यः पत्ति.मुख्य.वधः, शिरो विंशतिकं भोग.द्वैगुण्यं स्वयं.ग्राहश् च" इति ॥

३.४६
तद् एषां दश.वर्ग.अधिपतयो विद्युः ॥

३.४७
चिकित्सकाः शस्त्र.यन्त्र.अगद.स्नेह.वस्त्र.हस्ताः स्त्रियश् च_अन्न.पान.रक्षिण्यः पुरुषाणाम् उद्धर्षणीयाः पृष्ठतस् तिष्ठेयुः ॥

३.४८
अदक्षिणा.मुखं पृष्ठतः.सूर्यम् अनुलोम.वातम् अनीकं स्व.भूमौ व्यूहेत ॥

३.४९
पर.भूमि.व्यूहे च_अश्वांश् चारयेयुः ॥

३.५०
यत्र स्थानं प्रजवश् च_अभूमिर् व्यूहस्य तत्र स्थितः प्रजवितश् च_उभयथा जीयेत ॥ विपर्यये जयति, उभयथा स्थाने प्रजवे च ॥

३.५२
समा विषमा व्यामिश्रा वा भूमिर् इति पुरस्तात् पार्श्वाभ्यां पश्चाच् च ज्ञेया ॥

३.५३
समायां दण्ड.मण्डल.व्यूहाः, विषमायां भोग.असंहत.व्यूहाः, व्यामिश्रायां विषम.व्यूहाः ॥

३.५४
विशिष्ट.बलं भङ्क्त्वा संधिं याचेत ॥

३.५५
सम.बलेन याचितः संदधीत ॥

३.५६
हीनम् अनुहन्यात्, न त्व् एव स्व.भूमि.प्राप्तं त्यक्त.आत्मानं वा ॥

३.५७
पुनर्.आवर्तमानस्य निराशस्य च जीविते ।

३.५७
अधार्यो जायते वेगस् तस्माद् भग्नं न पीडयेत् ॥

(युद्ध.भूमयह् - पत्त्य्.अश्व.रथ.हस्ति.कर्माणि)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP