TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०४ - भाग ९

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ९
९.०१
समाहर्तृ.प्रदेष्टारः पूर्वम् अध्यक्षाणाम् अध्यक्ष.पुरुषाणां च नियमनं कुर्युः ॥

९.०२
खनि.सार.कर्म.अन्तेभ्यः सारं रत्नं वा_अपहरतः शुद्ध.वधः ॥

९.०३
फल्गु.द्रव्य.कर्म.अन्तेभ्यः फल्गु द्रव्यम् उपस्करं वा पूर्वः साहस.दण्डः ॥

९.०४
पण्य.भूमिभ्यो वा राज.पण्यं माष.मूल्याद् ऊर्ध्वम् आपाद.मूल्याद् इत्य् अपहरतो द्वादश.पणो दण्डः, आ.द्वि.पाद.मूल्याद् इति चतुर्.विंशति.पणः, आ.त्रि.पाद.मूल्याद् इति षट्.त्रिंशत्.पणः, आ.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.द्वि.पण.मूल्याद् इति पूर्वः साहस.दण्डः, आ.चतुष्पण.मूल्याद् इति मध्यमः, आ.अष्ट.पण.मूल्याद् इत्य् उत्तमः, आ.दश.पण.मूल्याद् इति वधः ॥

९.०५
कोष्ठ.पण्य.कुप्य.आयुध.अगारेभ्यः कुप्य.भाण्ड.उपस्कर.अपहारेष्व् अर्ध.मूल्येषु एत एव दण्डाः ॥

९.०६
कोश.भाण्ड.अगार.अक्ष.शालाभ्यश् चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥

९.०७
चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥

९.०८
इति राज.परिग्रहेषु व्याख्यातम् ॥

९.०९
बाह्येषु तु - प्रच्छन्नम् अहनि क्षेत्र.खल.वेश्म.आपणेभ्यः कुप्य.भाण्डम् उपस्करं वा माष.मूल्याद् ऊर्ध्वम् आ.पाद.मूल्याद् इत्य् अपहरतस् त्रि.पणो दण्डः, गोमय.प्रदेहेन वा प्रलिप्य_अवघोषणम्_ आ.द्वि.पाद.मूल्याद् इति षट्.पणः, गोमय.भस्मना वा प्रलिप्य_अवघोषणम्, आ.त्रि.पाद.मूल्याद् इति नव.पणः, गोमय.भस्मना वा प्रलिप्य_अवघोषणम्, शराव.मेखलया वा_ आ.पण.मूल्याद् इति द्वादश.पणः, मुण्डनं प्रव्राजनं वा_ आ.द्वि.पण.मूल्याद् इति चतुर्.विंशति.पणः, मुण्डस्य_इष्टका.शकलेन प्रव्राजनं वा_ आ.चतुष्.पण.मूल्याद् इति षट्.त्रिंशत्.पणह्_ आ.पञ्च.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.दश.पण.मूल्याद् इति पूर्वः साहस.दण्डह्_ आ.विंशति.पण.मूल्याद् इत् द्विशतह्_ आ.त्रिंशत्.पण.मूल्याद् इति पञ्च.शतह्_ आ.चत्वारिंशत्.पण.मूल्याद् इति साहस्रह्_ आ.पञ्चाशत्.पण.मूल्याद् इति वधः ॥

९.१०
प्रसह्य दिवा रात्रौ वा_आन्तर्यामिकम् अपहरतो_अर्ध.मूल्येषु एत एव दण्डाः ॥

९.११
प्रसह्य दिवा रात्रौ वा स-शस्त्रस्य_अपहरतश् चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥

९.१२
कुटुंबिक.अध्यक्ष.मुख्य.स्वामिनां कूट.शासन.मुद्रा.कर्मसु पूर्व.मध्य.उत्तम.वधा दण्डाः, यथा.अपराधं वा ॥

९.१३
धर्मस्थश् चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्य् अपसारयत्य् अभिग्रसते वा पूर्वम् अस्मै साहस.दण्डं कुर्यात्, वाक्.पारुष्ये द्वि.गुणम् ॥

९.१४
पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यमम् अस्मै साहस.दण्डं कुर्यात् ॥

९.१५
देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यम् अदेशेन_अतिवाहयति, छलेन_अतिहरति, काल.हरणेन श्रान्तम् अपवाहयति, मार्ग.आपन्नं वाक्यम् उत्क्रमयति, मति.साहाय्यं साक्षिभ्यो ददाति, तारित.अनुशिष्टं कार्यं पुनर् अपि गृह्णाति, उत्तमम् अस्मै साहस.दण्डं कुर्यात् ॥

९.१६
पुनर्.अपराधे द्वि.गुणं स्थानाद् व्यवरोपणं च ॥

९.१७
लेखकश् चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तम् उपलिखति, सूक्तम् उल्लिखति, अर्थ.उत्पत्तिं वा विकल्पयति, इति पूर्वम् अस्मै साहस.दण्डं कुर्याद्, यथा.अपराधं वा ॥

९.१८
धर्मस्थः प्रदेष्टा वा हैरण्य.दण्डम् अदण्ड्ये क्षिपति क्षेप.द्वि.गुणम् अस्मै दण्डं कुर्यात्, हीन.अतिरिक्त.अष्ट.गुणं वा ॥

९.१९
शरीर.दण्डं क्षिपति शारीरम् एव दण्डं भजेत, निष्क्रय.द्वि.गुणं वा ॥

९.२०
यं वा भूतम् अर्थं नाशयति अभूतम् अर्थं करोति तद्.अष्ट.गुणं दण्डं दद्यात् ॥

९.२१
धर्मस्थीये चारके बन्धन.अगारे वा शय्या.आसन.भोजन.उच्चार.संचार.रोध.बन्धनेषु त्रि.पण.उत्तरा दण्डाः कर्तुः कारयितुश् च ॥

९.२२
चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस.दण्डः, अभियोग.दानं च, बन्धन.अगारात् सर्व.स्वं वधश् च ॥

९.२३
बन्धन.अगार.अध्यक्षस्य संरुद्धकम् अनाख्याय चारयतश् चतुर्.विंशति.पणो दण्डः, कर्म कारयतो द्वि.गुणः, स्थान.अन्यत्वं गमयतो_अन्न.पानं वा रुन्धतः षण्.णवतिर् दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहस.दण्डः, घ्नतः साहस्रः ॥

९.२४
परिगृहीतां दासीम् आहितिकां वा संरुद्धिकाम् अधिचरतः पूर्वः साहस.दण्डः, चोर.डामरिक.भार्यां मध्यमः, संरुद्धिकाम् आर्याम् उत्तमः ॥

९.२५
संरुद्धस्य वा तत्र_एव घातः ॥

९.२६
तद् एव_अक्षण.गृहीतायाम् आर्यायां विद्यात्, दास्यां पूर्वः साहस.दण्डः ॥

९.२७
चारकम् अभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धन.अगारात् सर्व.स्वं वधश् च ॥

९.२८
एवम् अर्थ.चरान् पूर्वं राजा दण्डेन शोधयेत् ।

९.२८
शोधयेयुश् च शुद्धास् ते पौर.जानपदान् दमैः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:23.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

functional knowledge

  • कार्यात्मक ज्ञान 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site