अर्थशास्त्रम् अध्याय ०४ - भाग ११

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


११.०१
कलहे घ्नतः पुरुषं चित्रो घातः ॥

११.०२
सप्त.रात्रस्य_अन्तर्.मृते शुद्ध.वधः, पक्षस्य_अन्तर् उत्तमः, मासस्य_अन्तः पञ्च.शतः समुत्थान.व्ययश् च ॥

११.०३
शस्त्रेण प्रहरत उत्तमो दण्डः ॥

११.०४
मदेन हस्त.वधः, मोहेन द्वि.शतः ॥

११.०५
वधे वधः ॥

११.०६
प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहस.दण्डः ॥

११.०७
प्रसभ.स्त्री.पुरुष.घातक.अभिसारक.निग्राहक.अवघोषक.अवस्कन्दक.उपवेधकान् पथि.वेश्म.प्रतिरोधकान् राज.हस्त्य्.अश्व.रथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः ॥

११.०८
यश् च_एनान् दहेद् अपनयेद् वा स तम् एव दण्डं लभेत, साहसम् उत्तमं वा ॥

११.०९
हिंस्र.स्तेनानां भक्त.वास.उपकरण.अग्नि.मन्त्र.दान.वैयावृत्य.कर्मसु_उत्तमो दण्डः, परिभाषणम् अविज्ञाते ॥

११.१०
हिंस्र.स्तेनानां पुत्र.दारम् असमन्त्रं विसृजेत्, समन्त्रम् आददीत ॥

११.११
राज्य.कामुकम् अन्तःपुर.प्रधर्षकम् अटव्य्.अमित्र.उत्साहकं दुर्ग.राष्ट्र.दण्ड.कोपकं वा शिरो.हस्त.प्रदीपिकं घातयेत् ॥

११.१२
ब्राह्मणं तमः प्रवेशयेत् ॥

११.१३
मातृ.पितृ.पुत्र.भ्रात्र्.आचार्य.तपस्वि.घातकं वा_अ.त्वक्.शिरः.प्रादीपिकं घातयेत् ॥

११.१४
तेषाम् आक्रोशे जिह्वाच्.छेदः, अङ्ग.अभिरदने तद्.अङ्गान् मोच्यः ॥

११.१५
यदृच्छा.घाते पुंसः पशु.यूथ.स्तेये च शुद्ध.वधः ॥

११.१६
दश.अवरं च यूथं विद्यात् ॥

११.१७
उदक.धारणं सेतुं भिन्दतस् तत्र_एव_अप्सु निमज्जनम्, अनुदकम् उत्तमः साहस.दण्डः, भग्न.उत्सृष्टकं मध्यमः ॥

११.१८
विष.दायकं पुरुषं स्त्रियं च पुरुषघ्नीम् अपः प्रवेशयेद् अगर्भिणीम्, गर्भिणीं मास.अवर.प्रजाताम् ॥

११.१९
पति.गुरु.प्रजा.घातिकाम् अग्नि.विषदां संधिच्.छेदिकां वा गोभिः पाटयेत् ॥

११.२०
विवीत.क्षेत्र.खल.वेश्म.द्रव्य.हस्ति.वन.आदीपिकम् अग्निना दाहयेत् ॥

११.२१
राज.आक्रोशक.मन्त्र.भेदकयोर् अनिष्ट.प्रवृत्तिकस्य ब्राह्मण.महानस.अवलेहिनश् च जिह्वाम् उत्पाटयेत् ॥

११.२२
प्रहरण.आवरण.स्तेनम् अनायुधीयम् इषुभिर् घातयेत् ॥

११.२३
आयुधीयस्य_उत्तमः ॥

११.२४
मेढ्र.फल.उपघातिनस् तद् एवच्_छेदयेत् ॥

११.२५
जिह्वा.नास.उपघाते संदंश.वधः ॥

११.२६
एते शास्त्रेष्व् अनुगताः क्लेश.दण्डा महात्मनाम् ।

११.२६
अक्लिष्टानां तु पापानां धर्म्यः शुद्ध.वधः स्मृतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP