TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

साहित्य दर्पण - सप्तमः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


सप्तमः परिच्छेदः
इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह---
रसापकर्षका दोषाः,---
अस्यार्थः प्रगेव स्फुटीकृतः ।
तद्विशेषानाह---
---ते पुनः पञ्चधा मताः ।
पदे तदंशे वाक्येर्ऽथे संभवन्ति रसे ऽपि यत् ॥१॥


दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः ।
ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥२॥

अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।
अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥३॥

दोषाः केचिद्भवन्त्येषु पदांशे ऽपि पदे परे ।
निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ॥४॥

परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् ।
यथा--- "कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा" ।
अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् ।
क्रमेणोदाहरणम्--- "तृप्तारिविजये राजन् ! साधनं सुमहत्तव" ।
"प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा" ।
अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।
"शूरा अमरतां यान्ति पशुभूता रणाध्वरे ।
अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् ।
अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् ।
यथा--- "भाति पद्मः सरोवरे" ॥

अत्र पद्मशब्दः पुंल्लिङ्गः ।
ग्राम्यत्वं यथा--- "कटिस्ते हरते मनः" ॥

अत्र कटिशब्दो ग्राम्यः ।
अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् ।
यथा--- योगेन दलिताशयः" ॥

अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।
"आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु" ।
अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः ।
नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् ।
यथा--- "कमले चरणाघातं मुखं सुमुखि ! ते ऽकरेत् ।
अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।
निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः ।
यथा--- "यमुनाशम्बरमम्बरं व्यतानीत्" ।
शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः ।
"गीतेषु कर्णमादत्ते" ।
अत्राङ्--पूर्वो दाञ्-धातुर्दानार्थे ऽवाचकः ।
यथा वा--- "जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी" ।
अत्र दिनमिति प्रकाशमयार्थे ऽवाचकम् ।
क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा--- "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" ।
अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि ।
"भूतये ऽस्तु भवानीशः" ।
अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।
विधेयस्य विमर्शाभावेन गुणीभूतत्वम् अविमृष्टविधेयांशत्वम् ।
यथा--- "स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ।
अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।
यथा वा--- "रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे" ।
अत्र रामस्येति वाच्यम् ।
यथा वा--- "आसमुद्रक्षितीशानाम्" ।
अत्रासमुद्रमिति वाच्यम् ।
यथा वा--- "यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य" ।
अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् ।
यथा वा--- "अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा" ।
अत्रामुक्तेत्यत्र "नञः प्रसज्यप्रतिषेधत्व" मिति विधेयत्वमेवोचितम् ।
यदाहुः--- "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नञ्" ॥

यथा--- "नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः" ।
उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः ।
यदाहुः--- "प्रधानत्वं विधेर्यत्र प्रतिषेधे ऽप्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्" ॥

तेन---"जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्" ॥

अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।
ननु "अश्राद्धभोजी ब्राह्मणः" "असूर्यंपश्या राजदाराः" इत्यादिवत् "अमुक्ता" इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद् ? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ॑ विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् ।
यदाहुः--- "श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते ।
न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः" ॥

इति ।
"अमुक्ता" इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव ।
एते च क्लिष्टत्वादयः समासगता एव पददोषाः ।
वाक्ये दुः श्रवत्वं यथा--- "स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव" ॥

कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥

अत्र जुगुप्साव्यञ्जिकाश्लीलता ।
"उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः" ॥

अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता ।
"धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्" ॥

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः ।
"न्यक्कारो ह्ययमेव मे यदरयः" इति ।
अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् ।
तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् ।
रचना च पदद्वयस्य विपरीतेति वाक्यदोषः ।
"आनन्दयति ते नेत्रे यो ऽसौ सुभ्रु ! समागतः" ।
इत्यादिषु "यत्तदोनित्यसंबन्धः" इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः ।
अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् ।
तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् ।
यथा--- "यः स ते नयनानन्दकरः सुभ्रु ! स आगतः" ।
यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति ।
यथा--- "आनन्दयति ते नेत्रे यो ऽधुनासौ समागतः" ।
एवमिदमादिशब्दोपादाने ऽपि ।
यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादाने ऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः ।
तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् ।
यथा--- "आत्मा जानाति यत्पापम्" ।
एवम्---"यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च---" इत्यादावपि ।
तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् ।
क्रमेण यथा--- "स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्" ॥

"स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्" ।
"तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि" ।
यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव ।
क्रमेण यथा-- "विभाति मृगशावाक्षी येदं भुवनभूषणम्" ।
"इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः" ।
क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः ।
यथा--- "न मे शमयिता को ऽपि मारस्येत्युवि ! मा शुचः ।
नन्दस्य भवने को ऽपि बालो ऽस्त्यद्भुतपौरुषः" ॥

अत्र यो ऽस्ति, स ते भारस्य शमयितेति बुध्यते ।
"यद्यद्विरहदुःखं मे तत्को वापहरिष्यति" ।
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि---यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् ।
तथाभूतस्य तस्य तच्छब्देन परामर्शः ।
एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् ।
पदांशे दुः श्रवत्वं यथा--- "तद्रच्छ सिद्धयै कुरु देवकार्यम्" ।
"धातुमत्तां गिरिर्धत्ते" ।
अत्र मत्ताशब्दः क्षीबार्थे निहतः ।
"वर्ण्यते किं महासेनो विजेयो यस्य तारकः" ।
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ।
"पाणिः पल्लवपेल्लत्रः" ।
पेलवशब्दस्याद्याक्षरे अश्लीले ।
"संग्रामे निहताः शूरा वचो बाणत्वमागताः" ।
अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् ।
तथा तत्रैव बाणस्थाने शरेति पाठे ।
अत्र पदद्वयमपि न परिवृत्तिसहम् ।
जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् ।
एवमन्ये ऽपि यथासंभवं पदांशदोषा ज्ञेयाः ।
निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः ।
क्रमतो यथा--- "मुञ्च मानं हि मानिनि !" ॥

अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।
कुञ्जं हन्ति कृशोदरी ।
अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् ।
"गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः" ।
"आङो यमहनःऽ, "स्वाङ्गकर्मकाच्च" इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् ।
इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम् ।
नन्वत्र "आजध्ने" इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम्, तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः ।
इह तु दोषस्य "आजघ्ने" इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तने ऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव ।
तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।
एवं "पद्मः" इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् ।
एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् ।
इह तु शब्दानां सर्वथा प्रयोगाभावे ऽसमर्थत्वम् ।
विरलप्रयोगे निहतार्थत्वम् ।
निहतार्थत्वमनेकार्थशब्दविषयम् ।
अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः ।
अप्रयुक्तत्वमेकार्थशब्दविषयम् ।
असमर्थत्वमनेकार्थशब्दविषयम् ।
असमर्थत्वे हन्त्यादयो ऽपि गमनार्थे पठिताः ।
अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः ।
एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते---
"वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते ।
अधिकन्यूनकथितपदताहतवृत्तता ॥५॥

पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः ।
अर्धान्तरैकपदता समाप्तपुनरात्तता ॥६॥

अभवन्मतसम्बन्धाक्रमामतपरार्थताः ।
वाच्यस्यानभिधानं च भग्नप्रकमता तथा ॥७॥

त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः ।
संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ॥८॥

वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् ।
यथा मम--- "ओवट्टै उल्लट्टै सअणो कहिंपि मोट्टाऐ णो परिहट्टै ।
हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा" ॥

अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः ।
एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः ।
"गता निशा इमा बाले !" ।
अत्र लुप्तविसर्गाः ।
आहता ओत्वं प्राप्ता विसर्गा यत्र ।
यथा--- "धीरो वरो नरो याति" ।
"पल्लवाकृतिरक्तोष्ठी" ।
अत्राकृतिपदमधिकम् ।
एवम्---"सदाशिवं नौमि पिनाकपाणिम्" ।
इति विशेषणमधिकम् ।
"कुर्यां हरस्यापि पिनाकपाणोःऽिति ।
अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।
यथा वा--- "वाचमुवाच कौत्सः" ।
अत्र वाचमित्यधिकम् ।
उवाचेत्यनेनैव गतार्थत्वात् ।
क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते ।
यथा--- "उवाच मधुरा वाचम्" इति ।
केचित्त्वाहुः---यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते ।
यथा--- "उवाच मधुरं धीमान्" इति ।
"यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा" ।
अत्र प्रथमे त्वयेति पदं न्यूनम् ।
"रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्" ।
अत्र लीलाशब्दः पुनरुक्तः ।
एवम्---"जक्षुर्विसं धृतविकासिविसप्रसूनाः" ।
अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः ।
हतवृत्तम्---लक्षणानुसरणो ऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च ।
क्रमेण यथा--- "हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः" ।
"अयि ! मयि मानिनि ! मा कुरु मानम्" ।
इदं वृत्तं हास्यरसस्यैवानुकूलम् ।
"विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः" ।
यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् ।
प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव ।
अत्र"प्रमुदितसौरभ आगतो वसन्तः" इति पाठो युक्तः ।
यथा वा--- "अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां निग्तबस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च" ॥

अत्र "वस्त्राणि च" इति बन्धस्य श्लथत्वश्रुतिः ।
"वस्त्राण्यपि" इति पाठे तु दार्ढ्यमिति न दोषः ।
"इदमप्राप्तगुरुभावान्तलघु" इति काव्यप्रकाशकारः ।
वस्तुतस्तु "लक्षणानुसरणो ऽप्यश्रव्यम्" इत्यन्ये ।
प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः ।
श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ॥

अत्र क्रमेणानुप्रासप्रकर्षः पतितः ।
"दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते" ।
एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः ।
अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि ।
यथा--- "वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्" ।
"चलण्डामरचेष्टितः" इति ।
अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् ।
"उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः" ।
"अत्र सन्धौ कष्टत्वम् ।
"इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः ।
जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये" ॥

अत्र जगदिति प्रथमार्द्धे पठितमुचितम् ।
"नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः ।
पतन्ति शशिनः पदा भासयन्तः क्षमातलम्" ॥

अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः ।
श्रभवन्मतसम्बन्धो यथा--- "या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् ।
यामेणाक्षीं विना प्राणा विफला मे कुतो ऽद्य सा" ॥

अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात् तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव ।
"यां विनामी वृथा प्राणा एणाक्षी सा कृतो ऽद्य मे" ।
इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वे ऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते ।
यथा वा--- "ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः" ।
अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते ।
"ईक्षसे चेत्" इति तु युक्तः पाठः ।
यथा वा--- "ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च ।
राजति व्योमकासारराजहंसः सुधाकरः" ॥

अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः ।
विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् ।
इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वो ऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः ।
"अनेन च्छिन्दता मातुः कण्ठं पशुना तव ।
बद्धस्पर्द्धः कृपाणो ऽयं लज्जते मम भार्गव !" ॥

अत्र "भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः" इति प्राच्याः ।
"परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः ।
अक्रमता यथा--- समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ॥

अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु "प्रणिगदन्त" इत्यनन्तरम् ।
एवम् ---- "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी" ॥

अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।
अमतपरार्थता यथा--- "राममन्मथशरेण ताडिता-" इत्यादि ।
अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः ।
वाच्यस्यानिभिधानं यथा--- "व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि" ।
अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः ।
न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।
एवमन्यत्रापि ।
यथा वा--- "चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते" ॥

अत्र चरणानतकान्तासीति वाच्यम् ।
भग्नप्रक्रमता यथा--- "एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत" ।
अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् ।
तेन "रावणः प्रत्यवोचत" इति पाठो युक्तः ।
एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् ।
इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् ।
यथा--- "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" ।
इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति ।
यथा वा--- "ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः" ॥

अत्र "अस्मै" इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन ।
यथा वा--- "उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्" ।
अत्र "मिता भूः पत्यापां स च पतिरपाम्" इति युक्तः पाठः ।
एवम्--- "यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः" ॥

अत्र "सुखमीहितुम्" इत्युचितम् ।
अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः ।
तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः ।
एवमन्यत्रापि ।
प्रसिद्धत्यागो यथा--- "घोरो वारिमुचां रवः" ।
अत्र मेघानां गर्जितमेव प्रसिद्धम् ।
यदाहुः--- "मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ॥

इत्यादि ।
अस्थानस्थपदता यथा--- "तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतो ऽस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः" ॥

अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः ।
एवम् --- "हितान्न यः संशृणुते स किं प्रभुः" ॥

अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता ।
अत्र च पदमात्रस्यास्थाने निवेशे ऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता ।
एवमन्यत्रापि ।
इह के ऽप्याहु--"पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्" इति ।
यथा---"द्वयं गतम्-" इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति ।
अस्थनस्थसमासता यथा--- "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी" ॥

अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः ।
वाक्यान्तरपदानां वाक्यान्तरे ऽनुप्रवेशः सङ्कीर्णात्वम् ।
यथा--- "चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभो ऽङ्गने" ।
अत्र नभो ऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् ।
"क्लिष्टत्वमेकवाक्यविषयम्" इत्यस्माद्भिन्नम् ।
वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता ।
यथा--- "रमणे चरणप्रान्ते प्रणतिप्रवणे ऽधुना ।
वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः" ॥

अर्थदोषानाह---
अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः ।
अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ॥९॥

सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।
साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ॥१०

अविशेषे विशेषश्चानियमे नियमस्तथा ।
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ॥११॥

निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।

तद्विपर्ययो विशेषे ऽविशेषो नियमे ऽनियमः ।
अत्रापुष्टत्वं मुख्यानुपकारित्वम् ।
यथा--- "विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !" अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते ।
अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः ।
दुष्क्रमता यथा--- "देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्" ।
अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् ।
"स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !" अत्रार्थो ग्राम्यः ।
कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् ।
यथा---"हरन्ति हृदयं यूनां न नवेन्दुकलादयः ।
वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका" ॥

अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः ।
"हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथाशु जायते पातो न तथा पुनरुन्नतिः" ॥

अत्रार्थो ऽश्लीलः ।
"वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः ।
व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः" ॥

अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् ।
ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति ।
अयमप्रस्तुतो ऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् ।
"सदा चरति खे भानुः सदा वहति मारुतः ।
सदा धत्ते भुवं शेषः सदा धीरो ऽविकत्थनः" ॥

अत्र सदेत्यनवीकृतत्वम् ।
अत्रास्य पदस्य पर्यायान्तरणोपादाने ऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः ।
नवीकृतत्वं यथा--- "भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति ।
विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ॥

ऽिति ।
"गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते" ॥

अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् ।
"कुमारस्ते नराधीश ! श्रियं समधिगच्छतु" ।
अत्र "त्वं म्रियस्व" इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् ।
"अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?" ।
अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् ।
"सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः" ॥

अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता ।
प्रसिद्धिविरुद्धता यथा--- "ततश्चार समरे शितशूलधरो हरिः" ।
अत्र हरेः शूलं लोके ऽप्रसिद्धम् ।
यथा वा--- "पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः" ।
अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता ।
"अधरे करजक्षतं मृगाक्ष्याः" ।
अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता ।
एवमन्यशास्त्रविरुद्धत्वमपि ।
"ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् ।
स्त्रीरत्नं च कथं नाम मृष्यते भार्गवो ऽधुना" ॥

अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता ।
"सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी ।
खलः पूज्यः समज्यायां तापाय मम चेतसः" ॥

अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलो ऽशोभन इति सहचरभिन्नत्वम् ।
"आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः" ॥

अत्र न रावण इत्येतावतैव समाप्यम् ।
"हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे" ।
अत्र रत्नानां निधेरित्यविशेष एव वाच्यः ।
"आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका" ॥

अत्रावर्त एकेति नियमो न वाच्यः ।
"यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः" ।
अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः ।
"आपातसुरसे भोगे निमग्नाः किं न कुर्वते" ।
अत्र आपात एवेति नियमो वाच्यः ।
ननु वाच्यस्यानिभिधाने "व्यतिक्रमलवम्" इत्यादावपेरभावः, इह चैवकारस्येति को ऽनयेर्भेदः ।
अत्राह---"नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः" इति, तन्न तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् ।
तत्का गतिरिति चेत् ? "व्यतिक्रमलवम्" इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः ।
एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतो ऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति--यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव ।
यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सो ऽपि शब्ददोषः ।
यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति ।
एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः ।
अमतपरार्थत्वे तु "राममन्मथशरेण-" इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता ।
अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् ।
"आनन्दितस्वपक्षो ऽसौ परपक्षान् हनिष्यति" ।
अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति वेधेयम् ।
"चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! ।
विरहिप्राणहरण ! कदर्थय न मां वृथा" ॥

अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः ।
"लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्रणयति विदितं ते ऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥

अत्र विदितं ते ऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् ।
अथ रसदोषानाह---
रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ॥१२॥

परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः ।
आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ॥१३॥

अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः ।
अङ्गिनो ऽननुसंधानमनङ्गस्य च कीर्तनम् ॥१४॥

अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।
अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।

रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च ।
क्रमेण यथा--- "तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः को ऽप्यजायत" ।
"चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्" ।
स्थायिभावस्य स्वशब्दवाच्यं यथा--- "अजायत रतिस्तस्यास्त्वयि लोचनगोचरे" ।
व्यभिचारिणः स्वशब्दवाच्यत्वं यथा--- "जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने" ।
अत्र प्रथमे पादे "आसीन्मुकुलिताक्षी सा" इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः ।
"मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्" ।
अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।
"धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी" ॥

अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना ।
"परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः" ॥

अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः ।
अकाण्डे प्रथनं यथा---वेणीसंहारे द्वितीये ऽङ्के प्रवर्तमानानेकवीरसंक्षये ऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् ।
छेदो यथा--वीरचरिते राघवभार्गवयोर्धाराधिरूढे ऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः ।
पुनः पुनर्देप्तिर्यथा--कुमारसंभवे रतिविलापे ।
अङ्गिनो ऽननुसंधानां यथा--रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।
अनङ्गस्य कीर्तनं यथा--कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् ।
अङ्गस्यातिविस्तृतिर्यथा---किराते सुराङ्गनाविलासादिः ।
प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति ।
तेषां धीरोदात्तादिता ।
तेषामप्युत्तमाधममध्यमत्वम् ।
तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः ।
यथा--धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः ।
यथा वा---कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् ।
"इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्" इत्याहुः ।
अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् ।
तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः ।

एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ॥१५॥

पभ्य उक्तदोषेभ्यः ।
तथाहि--उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् क्रमेण यथा--- "ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्" ।
"प्रज्वलज्जलधारावान्नपतन्ति शरास्तव" ।
"चण्डाल इव राजासौ संग्रामे ऽधिकसाहसः" ।
"कर्परखण्ड इव राजति चन्द्रबिम्बम्" ।
"हरवन्नीलकण्ठो ऽयं विराजति शिखावलः" ।
"स्तनावद्रिसमानौ ते" ।
"दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव" ॥

एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् ।
यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।
यथा--- "सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् ।
उदिते रजनीनाथे सहतायाति सुन्दरी" ॥

उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वे ऽवाचकत्वम् ।
यथा--- "एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्" ।
एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् ।
यथा--- "ओवट्टै उल्लट्टै-- इत्यादौ ।
उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च ।
क्रमेणोदाहरणम्--- "नयनज्योतिषा भाति शंभुमूतिसितद्युतिः ।
विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्" ॥

अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादो ऽधिकः ।
"कमलालिङ्गितस्तारहारहारी मुरं द्विषन् ।
विद्युद्वभूषितो नीलजीमूत इव राजते" ॥

अत्रोपमानस्य सबलाकत्वं वाच्यम् ।
अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् ।
क्रमेणोदाहरणम्--- "सुधेव विमलश्चन्द्रः" ।
"ज्योत्स्ना इव सिता कीर्तिः" ।
"काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव" ॥

अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् ।
अपि तु सर्वदापि मवति ।
"लतेव राजसे तन्वि !" अत्र लता राजते, त्वं तु राजसे ।
"चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा" ।
अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य "जीवतु" इत्यनेन विधेयम् ।
इह तु यत्र लिङ्गवचनभेदे ऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः ।
क्रमेणोदाहरणम्--- "मुखं चन्द्र इवाभाति" ।
"तद्वेशो ऽसदृशो ऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव" ॥

पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटो ऽनिर्वाहः ।
एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् ।
यथा--"अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते" ॥

एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् ।
क्रमेणोदाहरणम्--- "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका" ॥

अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते ।
"आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्" ॥

अत्राचेतसः प्रभोरभिधानमनुचितम् ।
एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् ।
यथा--- "चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् ।
वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः" ॥

उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह---
वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते ।
रौद्रादौ तु रसे ऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ॥१६॥

एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः ।
क्रमेण यथा--- "तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् ।
शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना" ॥

अत्र शृङ्गारे कुपितो वक्ता ।
"मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् ।
ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः" ॥

अत्रोद्धतताण्डवं वाच्यम् ।
इमे पद्ये मम ।
रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः ।
यथा-- "उत्कृत्योत्कृत्य कृत्तिम--" इत्यादि ।
अत्र बीभत्सो रसः ।
सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः ।
तथा पुनरिति गुण एव ।
यथा--- "करिहस्तेन संबाधे प्रविश्यान्तविलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते" ॥

अत्र हि सुरतारम्भगोष्ठ्याम्--- "ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितिः ।

आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् ।
स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥१७॥

यथा---"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् ।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत" ॥

अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः ।
सिंहपक्षे मतङ्गशब्दो मातङ्गर्थे ऽप्रयुक्तः ।

गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः ।

यथा---"त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् ।
मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः" ॥

स्वयं वापि परामर्शे---
अप्रतीतत्वं गुण इत्यनुषज्यते ।
यथा---"युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् ।
शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि" ॥

---कथितं च पदं पुनः ॥१८॥

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।
दैन्ये ऽथ लाटानुप्रासे ऽनुकम्पायां प्रसादने ॥१९॥

अर्थान्तरसंक्रमितवाच्ये हर्षे ऽवधारणो ।

गुण इत्येव ।
यथा--- "उदेति सविता ताम्रः---" इत्यादि ।
अत्र विहितानुवादः ।
"हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः" ।
अत्र विषादः ।
"चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः" ।
अत्र विस्मयः ।
"सुनयने नयने निधोहि" इति ।
अत्र लाटानुप्रासः ।
"नयने तस्यैव नयने च" ।
इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
एवमन्यत्रापि ।

सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ॥२०॥

गुण इत्येव यथा--- "पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्" ॥

वैयाकरणमुख्ये तु प्रतिपाद्ये ऽथ वक्तरि ।
कष्टत्वं दुः श्रवत्वं वा---
गुण इत्येव ।
यथा--- "दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते" ॥

अत्रार्थः कष्टः ।
वैयाकरणश्च वक्ता ।
एवमस्य प्रतिपाद्यत्वे ऽपि ।
"अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन" ।
अत्र दुः श्रवत्वम् ।
वैयाकरणो वाच्यः ।
एवमस्य वक्तृत्वे ऽपि ।

---ग्रम्यत्वमधमोक्तिपु ॥२१॥

गुण इत्येव ।
यथा मम--- "एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व ।
एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व" ॥

इयं विदूषकोक्तिः ।

निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति ।

यथा---"सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति" ।

कवीनां समये ख्याते गुणः ख्यातविरुद्धता ॥२२॥

कविसमयख्यातानि च---
मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ॑ सरिदुदधिगतं पङ्कजेन्दीवरादि ।
तोयाधारे ऽखिले ऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥२३॥

पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्- यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः ।
मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो- र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥२४॥

अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।
न स्याज्जाती वसन्ते॑ न च कुसुमफले गन्धसारद्रुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ॥२५॥

एषामुदाहरणान्याकरेषु स्पष्टानि ।

धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः ।
आरूढत्वादिबोधाय---
यथा---"पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः" ।
अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते ।
आदिशब्दात्--- "भाति कर्णावतंसस्ते" ।
अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः ।
एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः ।
एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि "पुष्पमालाविभाति ते" ।
अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै ।
एवं "मुक्ताहार" इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् ।

---प्रयोक्तव्याः स्थिता अमी ॥२६॥

धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः ।

उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः ।

यथा--- "गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा ।
मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्" ॥

अत्र पीडयेति न्यूनम् ।

क्वचिन्न दोषो न गुणः---
न्यूनपदत्वमित्येव ।
यथा--- "तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति को ऽयं विधैः" ॥

अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं "नैतद्यतः" इति पदानि न्यूनानि ।
एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः ।
"दीर्घं न से" त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः ।

---गुणः क्वाष्यधिकं पदम् ॥२७॥

यथा--- "आचरिति दुर्जनो यत्सहसा मनसो ऽप्यगोचरानर्थान् ।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्" ॥

अत्र "न न जान" इत्ययोगव्यवच्छेदे ।
द्वितीये "जान" इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।

समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् ।

यथा---"अन्यास्ता गुणरत्न-" इत्यादि ।
अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् ।
एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् ।

गर्भितत्वं गुणः क्वापि---
यथा--- "दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्" ॥

अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति ।

---पतत्प्रकर्षता तथा ॥२८॥

तथेति क्वचित् गुणः ।
यथा---"चञ्चद्भुज-" इत्यादि ।
अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।

क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ॥२९॥

यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः ।
यथा--- "औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः" ॥

अत्रोत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न भ्क्तटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् ।
ह्रियो ऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् ।
साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् ।

सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः ।

यथा--"क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-" इत्यादि ।
अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।

विराधिनो ऽपि स्मरणो साम्येन वचने ऽपि वा ॥३०॥

भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः ।

क्रमेण यथा---"अयं स रसनोत्कर्षो-" इत्यादि ।
अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता ।
"सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे" ॥

अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः ।
"एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् ।
अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः" ॥

अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः ।
यथा वा--- "क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः" ॥

अत्र कविगता भगवद्विषया रतिः प्रधानम् ।
तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणो ऽङ्गम् ।
तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः ।
एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः ।
ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः ।
नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।
सत्यमुक्तम् ।
अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् ।
अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना ।
यदाहुः--- "अङ्गं बाध्यो ऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे ।
नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः" ॥

इति ।
ननु "आद्यः करुणवीभत्सरौद्रवीरभयानकैः" इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र--- "कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः" ॥

इत्यादौ समवेशः ।
अत्रोच्यते---इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था ।
कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति ।
तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः ।
तथा हास्यरौद्रबीभत्सैः सम्भोगस्य ।
वीरकरुणरौद्रादिभिर्विप्रलम्भस्य ।
(आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः ।
नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः ।
त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् ।
शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति ।
तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः ।
एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः ।
यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहो गीतमहो वादित्रम्" इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः ।
एकमन्यदपि ज्ञेयम् ।
"पाण्डुक्षामं वदनम्-" इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भे ऽपीति न विरोधः ।

अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥३१॥

सर्वेषां दुः श्रवत्वप्रभृतीनाम् ।
यथा--- "एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन" ।
अत्र दुश्च्यवनशब्दो ऽप्रयुक्तः ।

अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।
अदोषता च गुणता ज्ञेया चानुभयात्मता ॥३२॥

अनुभयात्मता अदोषगुणता ।

इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:19.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एकवार्षिक

  • वि. वर्षांतून एकदांच होणारी ( वनस्पति , पीक , वस्तु इ० ). [ सं . एक + वर्ष ] 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.