TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

साहित्य दर्पण - प्रथमः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


प्रथमः परिच्छेदः
ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते--
शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ॥१॥


अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह--
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥२॥


चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)-- "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" ॥

इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्-- "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" ॥

इति ।
"त्रिवर्गसाधनं नाट्यम्" इति च ।
विष्णुपुराणे ऽपि-- "काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः" ॥

इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।
तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह-- "तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि" इति ।
एतच्चिन्त्यम् ।
तथाहि-- यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा-- "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ॥

इति ।
अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।
ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि-- काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।
यदुक्तं धवनिकृता-- "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः" ॥

इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।
नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि "ईषद्दोषौ शब्दार्थौ काव्यम्" इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।
सति संभवे "ईषद्दोषौ" इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।
उक्तं च-- "कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः" ॥

इति ।

किञ्च ।
शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।
गुणानां रसैकधर्मत्वस्य "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः" इत्यादिना तेनैव प्रतिपादितत्वात् ।
रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्ययुक्तम् ।
तथाहि-- तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसो ऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।
अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् ।
गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।
नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।
ननु "शब्दार्थौ सगुणौ" इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।
उक्तं हि-- "काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्" इति ।
एतेन "अनलङ्कृती पुनः क्वापि" इति यदुक्तम्, तदपि परास्तम् ।
अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।
तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।
एतेन "वक्रोक्तिः काव्यजीवितम्" इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।
वक्रोक्तेरलङ्काररूपत्वात् ।
यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्-- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥

इति ।
एतच्चिन्त्यम् ।
अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् ।
एतेन-- "अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति" ॥

इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।
यत्तु ध्वनिकारेणोक्तम्-- "काव्यस्यात्मा ध्वनिः"-- इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः ।
द्वितीयश्चेदोमिति ब्रूमः ।
ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा-- अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥

इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत् ? न,-अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा "देवदत्तो ग्रामं याति" इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।
अस्त्विति चेत् ? न, रसवत एव काव्यत्वाङ्गीकारात् ।
काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां "रामादिवत्प्रवर्तितव्यं न रावणादिवत्" इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।
तथा चाग्नेयपुराणो ऽप्युक्तम्-- "वाग्वैदग्ध्यप्रधाने ऽपि रस एवात्र जीवितम्" इति ।
व्यक्तिविवेककारेणाप्युक्तम्-- "काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः" इति ।
ध्वनिकारेणाप्युक्तम्-- "नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः" इत्यादि ।
ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् ? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।
यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।
यत्तु वामनेनोक्तम्-- "रीतिरात्मा काव्यस्य" इति, तन्न॑ रीतेः संघटनाविशेषत्वात् ।
संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।
यच्च ध्वनिकारेणोक्तम्-- "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ" ॥

इति ।
अत्र वाच्यात्मत्वं "काव्यस्यात्माध्वनिः-" इति स्ववचनविरोधादेवापास्तम् ।
तत्किं पुनः काव्यमित्युच्यते--
वाक्यं रसात्मकं---
रसस्वरूपं निरूपयिष्यामः ।
रस एवात्मा साररूपतया जीवनाधायको यस्य ।
तेन विना तस्य काव्यत्वानङ्गीकारात् ।
"रस्यते इति रसः" इति व्युत्पत्तियोगाद्भावतदाभासादयो ऽपि गृह्यन्ते तत्र रसो यथा-- शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ॥

अत्र हि संभोगश्र्टङ्गाराख्यो रसः ।
भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्-- यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।
क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ॥

अत्र भगवद्विषयारतिर्भावः ।
रसाभासो यथा-- मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥

अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।
एवमन्यत् ।
दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते--
---दोषास्तस्यापकर्षकाः ।

श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।
एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते--
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥३॥

गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।
इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दो ऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।
अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् ।
एषामपि विशेषोदाहरणानि वक्षयामः ।
इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:18.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नमनांत वेळ घालविणें

  • मुख्य विषय बाजूस ठेऊन प्रस्तावनाच फार वाढविणें. 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.