TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

साहित्य दर्पण - षष्ठः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


षष्ठः परिच्छेदः
एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह--
दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।
दृश्यं तत्राभिनेयं--
तस्यरूपकसंज्ञाहेतुमाह--
तद्रूपारोपात्तुरूपकम् ॥१॥

तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते ।
को ऽसावभिनाय इत्याह--
भवेदभिनयो ऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ॥२॥

नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः ।
रुपकस्य भेदानाह--
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥३॥

किञ्च---
नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥४॥

संलापकं श्रीगदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥५॥

अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥६॥

सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च ।
तत्र---
नाटकं ख्यातवृत्तं स्यात् पञ्चसंधिसमन्वितम् ।
विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः ॥७॥

सुखदुःखसमुद्भूति नानारसनिरन्तरम् ।
पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥८॥

प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् ।
दिव्यो ऽथ दिव्यादिव्यो वा गुणावान्नायको मतः ॥९॥

एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणो ऽद्भुतः ॥१०॥

चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥११॥

ख्यातं रामायणादिप्रसिद्धं वृत्तम् ।
यथा--रामचरितादि ।
सन्धयो वक्ष्यन्ते ।
नानाविभूतिभिर्युक्तमिति महासहायम् ।
सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तम् ।
राजर्षयो दुष्यन्तादयः ।
दिव्याः श्रीकृष्णादयः ।
दिव्या दिव्यः, यो दिव्यो ऽप्यात्मनिनराभिमानी ।
यथा श्रीरामचन्द्रः ।
गोपुच्छग्रसमाग्रमिति "क्रमेणाङ्काः सूक्ष्माः कर्तव्याः" इति केचित् ।
अन्ये त्वाहुः--"यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे ।
एवमन्येष्वपि कानिचित्कानिचित्" इति ।

प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः ।
भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ॥१२॥

विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः ।
युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च ॥१३॥

नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् ।
आवश्यकानां कार्याणामविरोधाद्विनिमितः ॥१४॥

नानेकदिननिर्वर्त्यकथया संप्रयोजितः ।
आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥१५॥

दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥१६॥

दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् ।
शयनाधरपानादि नगराद्यवरोधनम् ॥१७॥

स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः ।
देवीपरिजनादीनाममात्यवणिजमपि ॥१८॥

प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः ।
अन्तनिष्क्रान्तनिखिलपात्रो ऽङ्क इति कीर्त्तितः ॥१९॥

बिन्द्वादयो वक्ष्यन्ते ।
आवश्यकं संध्यावन्दनाहि ।
अङ्कप्रस्तावाद्गर्भाङ्कमाह-
अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् ।
अङ्को ऽपरः स गर्भाङ्कः सबीजः फलवानपि ॥२०॥

यथा बालरामायणो रावणं प्रति कोहलः--- "श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्" ॥

इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः ।

तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परम् ।
कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम् ॥२१॥

तत्रेति नाटके ।

यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥२२॥

प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि ।
तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये ॥२३॥

तस्याः स्वरूपमाह--
आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥२४॥

माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी ।
पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत ॥२५॥

अष्टपदा यथा अनर्घराघवे--"निष्प्रत्यूहम" इत्यादि ।
द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्--- शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतो ऽस्तु भूतिहेतुः ॥

एवमन्यत्र ।
एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् ।
वस्तुतस्तु "पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्" इत्यन्ये ।
यदुक्तम्--- "यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्" ॥

इति ।
उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।
कालिदासादिमहाकविप्रबन्धेषु च--- वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ॥

एवमादिषु नान्दीलक्षणायोगात् ।
उक्तं च---"रङ्गद्वारमारभ्य कविः कुर्यात्-ऽित्यादि ।
अत एव प्राक्तनपुस्तकेषु "नान्द्यन्ते सूत्रधारः" इत्यनन्तरमेव "वेदान्तेषु-" इत्यादि श्लोकले(लि) खनं दृश्यते ।
यच्च पश्चात् "नान्द्यन्ते सूत्रधारः" इति ले (लि) खनं तस्यायमभिप्रायः---नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित" इति ।

पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते ।
प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ॥२६॥

दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥२७॥

काव्यार्थस्य स्थापनात्स्थापकः ।
तद्वदिति सूत्रधारसदृशगुणाकारः ।
इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः ।
स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् ।
वस्तु इतिवृत्तम्, यथोदात्तराघवे--- रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्भ्क्तितम् ।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥

बीजं यथा रत्नावल्याम्--- द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् ।
आनीय भ्क्तटिति घटयति विधिरभिमतमभिमुखीभूतः ॥

अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजम् ।
मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः ।
यथा--- आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः ।
उत्खाया गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥

पात्रं यथा शाकुन्तले --- तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥

रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥२८॥

ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः ।

स स्थापकः ।
प्रायेणोति क्वचिदृतोरकीतनमपि ।
यथा--रत्नावल्याम् ।
भारतीवृत्तिस्तु---
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥२९॥

संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती ।

तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥३०॥

प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना ।
यथा रत्नावल्याम्--- श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्- मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥

वीथीप्रहसने वक्ष्येते ।

नटी विदूषको वापि पारिपाशिवक एव वा ।
सूत्रधारेण सहिताः सलापं यत्र कुर्वते ॥३१॥

चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥३२॥

सूत्रधारसदृशत्वात् स्थापको ऽपि सूत्रधार उच्यते ।
तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः ।

उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ॥३३॥

तत्र---
पदानि त्वगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्य (त) क उत्यते ॥३४॥

यथा मुद्राराक्षसे सूत्रधारः--- "क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बालत्--" इत्यनन्तरम्---"(नेपथ्ये ।
) आः, क एष मयि जीवति चन्द्रगुप्तमभि- भवितुमिच्छति" ।
इति ।
अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः ।

सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा ।
भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते ॥३५॥

वाक्यं यथा रत्नावल्याम्--"द्वीपादन्यस्मादपि--ऽित्यादि (३३२ पृ दृ) सूत्रधारेण पठिते--"(नेपथ्ये) साधु भरतपुत्र! साधु ।
एवमेतत् ।
कः सन्देहः ? द्वीपादन्यस्मादपि--" इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः ।
वाक्यार्थो यथा वेण्याम्-- निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥

इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा--"(नेपथ्ये) आः दुरात्मन् ! वृथा मङ्गलपाठक !, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?" ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः ।

यदि प्रयोग एकस्मिन् प्रयोगो ऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ॥३६॥

यथा कुन्दमालायाम्---"(नेपथ्ये) इत इतो ऽवतरत्वार्या ।
सूत्रधारः---को ऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति ।
(विलोक्य) कष्टमतिकरुणं वर्तते ।
"लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन ।
निर्वासितां जनपदादपि गर्भगुर्वों सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्" ॥

अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण "सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्" इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः ।

कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् ।
तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥३७॥

यथा---"आसादितप्रकट--" इत्यादि (३३२ पृ दृ) ।
"ततः प्रविशति यथानिदिष्टो रामः" ।

यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥३८॥

यथा शाकुन्तले--सूत्रधारो नटीं प्रति ।
"तवास्मि गीतरागेण-" (३३३ पृ दृ) इत्यादि ।
ततो राज्ञः प्रवेशः ।

योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि ।

अत्र आमुखे ।
उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि ।
नखकुट्टस्तु---
नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा ॥३९॥
समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु ।
एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ॥४०॥

तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक ।
प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ॥४१॥

वस्त्वितिवृत्तम् ।

इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते ।
आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ॥४२॥

अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः ।
तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ॥४३॥

फले प्रधानफले ।
यथा बालरामायणो रामचरितम् ।

अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते ।

अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् ।
यथा सुग्रीवादिचरितम् ।

पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥४४॥

इह नाट्ये ।

यत्रार्थे चिन्तिते ऽन्यस्मिंस्तल्लिङ्गो ऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥४५॥

तद्रेदानाह--सहसैवार्थसंपत्तिर्गुणावत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥४६॥

यथा रत्नावल्याम्--"वासवदत्तेयम्" इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या "सागरिकेयम्" इति प्रत्यभिज्ञाय "कथं ? प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि" ॥

अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट ।

वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ॥४७॥

यथा वेण्याम्--- "रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः" ।
अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानम् ।

अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥४८॥

लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानम् ।
यथा वेण्यां द्वितीये ऽङ्के "कञ्चुकी-देव ! भग्नं भग्नम् ।
राजा--केन ? कञ्चुकी--भीमेन ।
राजा--कस्य ? कञ्चुकी--भवतः ।
राजा--आः ! किं प्रलपसि ? कञ्चुकी--(सभयम्) देव ! ननु ब्रवीमि ।
भग्नं भीमेन भवतः ।
राजा-धिग् वृद्धापसद ! को ऽयमद्य ते व्यामोहः ? कञ्चुकी-देव ! न व्यामोहः ।
सत्यमेव-- "भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ" ॥

अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् ।

द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तराक्षेपि पताकास्थानकं परम् ॥४९॥

यथा रत्नावल्याम्--- "उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्" ॥

अत्र भाव्यर्थः सूचितः ।
एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति ।
काव्यकर्तुरिच्छावशाद्भूयो भूयो ऽपि भवन्ति ।
यत्पुनः केनचिदुक्तम्--"मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति" इति ।
तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् ।

यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥५०॥

अनुचितमितिवृत्तं यथा--रामस्यच्छद्मना बालिवधः ।
तच्चोदात्तराघवे नोनोक्तमेव ।
वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः ।

अङ्केष्वदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ॥५१॥

अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः ।

अङ्केषु अदर्शनीया कथा युद्धादिकथा ।

वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ॥५२॥

उक्तं हि मुनिना-- "अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्" ॥

एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथां--शास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः ।

दिनावसाने कार्यं यद्दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ॥५३॥

के तेर्ऽथोपक्षेपका इत्याह--
अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ ।
चूलिकाङ्कावतारो ऽथ स्यादङ्कमुखमित्यपि ॥५४॥

वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः ।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥५५॥

मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।
शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥५६॥

तत्र शुद्धो यथा--मालतीमाधवे श्मशाने कपालकुण्डला ।
सङ्कीर्णो यथा--रामाभिन्दे क्षपणककापालिकौ ।
अथ प्रवेशकः---
प्रवेशको ऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥५७॥

अङ्कद्वयस्यान्तरिति प्रथमाङ्के ऽस्य प्रतिषेधः ।
यथा--वेण्यामश्चत्थामाङ्के राक्षसमिथुनम् ।
अथ चूलिका---
अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका ।

यथा वीरचरिते चतुर्थाङ्कस्यादौ--"(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि" इत्यादि ।
"रामेण परशुरामो जितः" इति नेपथ्ये पात्रैः सूचितम् ।
अथाङ्कावतारः---
अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ॥५८॥

यत्राङ्को ऽवतरत्येषो ऽङ्कावतार इति स्मृतः ।

यथा---अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः ।
अथाङ्कमुखम्---
यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला ॥५९॥

तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् ।

यथा---मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ ।

अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनाम् ॥६०॥

अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः ।
यथा वीरचरिते द्वितीयाङ्कान्ते--"(प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।
इतरे--क्व भगवन्तौ ।
सुमन्त्रः--महाराजदशरथस्यान्तिके ।
इतरे---तत्तत्रैव गच्छावः" इत्यङ्कपरिसमाप्तौ ।
"(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽित्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्" इति ।
एतच्च धनिकमतानुसारेणोक्तम् ।
अन्ये तुं---"अङ्कावतरणोनैवेदं गतार्थम्" इत्याहुः ।

अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा संदर्शयेच्छेषमामुखानन्तरं तदा ॥६१॥

कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः ।

यथा--रत्नावल्यां यौगन्धरायणप्रयोजितः ।

यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥६२॥

आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः ।

यथा---शाकुन्तले ।

विष्कम्भकाद्यैरपि नो वधो वाच्यो ऽधिकारिणः ॥६३॥

अन्यो ऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः ।

रसः शृङ्गारादिः ।
यदुक्तं धनिकेन--- "न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।
रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः" ॥

इति ।

बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥६४॥

अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ।

अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः ।
तत्र बीजम्---
अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ॥६५॥

फलस्य प्रथमो हेतुर्बोजं तदभिधीयते ।

यथा---रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः ।
यथा वा---वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः ।

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥६६॥

यथा---रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति "उदयन्स्येन्दोरिवोद्वीक्षते" इति सागरिका श्रुत्वा "(सहर्षम्) कधं एसो सो उदअणणरिन्दो" इत्यादिरवान्तरार्थहेतुः ।

व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।

यथा---रामचरिते-सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले-विदूषकस्य चरितम् ।

पताकानायकस्य स्यान्न स्वकीयं फलान्तरम् ॥६७॥

गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते ।

यथा---सुग्रीवादेः राज्यप्राप्त्यादि ।
यत्तु मुनिनोक्तम्--"आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते" ॥

इति ।
तत्र "पताकेति ।
पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः ।

प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥६८॥

यथा---कुलपत्यङ्के रावणजटायुसंवादः ।

प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरम् ।

यथा---जटायोः मोक्षप्राप्तिः ।

अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ॥६९॥

समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् ।

यथा---रामचरिते रावणवधः ।

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥७०॥

आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।

तत्र---
भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ॥७१॥

यथा---रत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यम् ।
एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम् ।

प्रयत्नस्तु फलाबाप्तौ व्यापारो ऽतित्वरान्वितः ।

यथा रत्नावल्याम्---"तहवि ण अत्थि अण्यो दंसण उवाओ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्" ।
इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः ।
यथा च---रामचरिते समुद्रबन्धनादिः ।

उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ॥७२॥

यथा---रत्नावल्यां तृतीये ऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा ।
एवमन्यत्र ।

अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता ।

अपायाभावान्निर्धारितैकान्तफलप्राप्तिः ।
यथा रत्नावल्याम्--"राजा--देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि" ।
इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता ।

सावस्था फलयोगः स्याद्यः समग्रफलोदयः ॥७३॥

यथा---रत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः ।
एवमन्यत्र ।

यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ॥७४॥

तल्लक्षणमाह---
अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।

एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः ।
तद्भेदानाह--
मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥७५॥

इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते ।

यथाद्देशं लक्षणमाह---
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ॥७६॥

प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम् ।

यथा--रत्नावल्यां प्रथमे ऽङ्के ।

फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ॥७७॥

लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।

यथा---रत्नावल्यां द्वितीये ऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता--विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः ।

फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन ॥७८॥

गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः ।

फलस्य गर्भोकरणाद्रर्भः ।
यथा रत्नावल्यां द्वितीये ऽङ्के---"सुसंगता---सहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि" इत्यादौ समुद्भेदः ।
पुनर्वासवदत्ताप्रवेशे ह्रासः ।
तृतीये ऽङ्के---"तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः" इत्यन्वेषणम् ।
विढूषकः--ही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ भवस्सदि" इत्यादावुद्भेदः ।
पुनरपि वासवदत्ताप्रत्यभिज्ञानाद् ह्रासः ।
सागरिकायाः सङ्केतस्थानगमने ऽन्वेषणम् ।
पुनर्लतापाशकरणो उद्भेदः ।
अथ विमिर्शः---
यत्र मुख्यफलोपाय उद्भिन्नो गर्भतो ऽधिकः ॥७९॥

शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ।

यथा शाकुन्तले चतुर्थाङ्कादौ---अनसूया---पिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिअअम्, तह वि एत्तिअं चिन्तणिज्जम्" इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः ।
अथ निर्वहणम्---
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥८०॥

एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् ।

यथा--वेण्याम्--"कञ्चुका--(उपसृत्य, सहर्षम्-) महाराज !वर्धसे ।
अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः" इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनम् ।
यथा वा-शाकुन्तले सप्तमाङ्के ऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः ।
एषामङ्गान्याह--
उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥८१॥

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भदः करणं भेद एतान्यङ्गानि वै मुखे ॥८२॥

यथोद्देशं लक्षणमाह--
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।

काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः ।
यथा वेण्याम्--"भीमः--- लाभागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धर्तराष्ट्राः ॥

समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ॥८३॥

यथा तत्रैव--- प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्- न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासंधस्योरः स्थलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥

तन्निष्पत्तिः परिन्यासः---
यथा तत्रैव--- चञ्चद्रभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥

अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रम् ।
परिकरस्तस्यैव बहुलीकरणम् ।
परिन्यासस्ततो ऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः ।
एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि ।

---गुणाख्यानं विलोभनम् ।

यथा तत्रैव---"द्रौपदी--णाध, किं दुक्करं तुए परिकुविदेण" ।
यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने--सेयम्, "तारुण्यस्यविलासः---" इत्यादि (१३९ पृ.) ।
यत्तु शकुन्तलादिषु "ग्रीवाभङ्गाभिरामम्---" इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गम् ।
एवमङ्गान्तराणामप्यूह्यम् ।

संप्रधारणमर्थानां युक्तिः---
यथा--वेण्यां सहादेवो भीमं प्रति आर्य ! किं महाराजसंदेशो ऽयमव्युत्पन्न एवार्येण गृहीतः" इत्यतः प्रभृति यावद्भीमवचनम् ।
"युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दारणां सभायां केशकर्षणम्" ॥

इति ।
प्राप्तिः सुखागमः ॥८४॥

यथा तत्रैव---"मथ्नामि कौरवशतं समरे न कोपात्---" इत्यादि (२८४ पृ.) "द्रौपदी--(श्रुत्वा सहर्षम्--) णाध, अस्सुदपुव्वं क्खु एदं वअणम्, ता पुणो पुणो भण" ।

बीजस्यागमनं यत्तु तत्समाधानमुच्यते ।

यथा तत्रैव--"(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः--- यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता ।
तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते" ॥

अत्र "स्वस्था भवन्तु मयि जीवति--" इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानम् ।

सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतम् ॥८५॥

यथा बालचरिते--- "उत्साहातिशयं वत्स ! तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः" ।
यथा वा मम प्रभावत्याम्--"नयनयुगासेचनकम्-" इत्यादि (२३६ पृ.) ।

कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।

यथा--वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् "णाध ! किं दाणिं एसो पलअजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि" ।

बीजार्थस्य प्ररोहः स्यादुद्भेदः---
यथा तत्रैव--"द्रौपदी--अण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा ।
भीमः--ननु पाञ्चालराजतनये ! किमद्यालीकाश्चासनया-- भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥

---करणं पुनः ॥८६॥

प्रकृतार्थसमारम्भः--
यथा तत्रैव---"देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय" इति ।

---भेदः संहतभेदनम् ।

यथा तत्रैव---"अत एवाद्यप्रभृति भिन्नो ऽहं भवद्भ्यः" ।
केचित्तु---"भेदः प्रोत्साहना" इति वदन्ति ।
अथ प्रतिमुखाङ्गानि---
विलासः परिसर्पश्च विधुतं तापनं तथा ॥८७॥

नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः ।
विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनम् ॥८८॥


पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ।

तत्र---
समीहा रतिभोगार्था विलास इति कथ्यते ॥८९॥


रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः ।
यथा शाकुन्तले--- कमं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि ।
अकृतार्थे ऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥

इष्टनष्टानुसरणं परिसर्पश्च कथ्यते ।

यथा शाकुन्तले---"राजा---भवितव्यमत्र तया ।
तथा हि--- अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते ऽभिनवा" ॥

कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ॥९०॥

यथा तत्रैव---"अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण" ।
केचित्तु---"विधृतं स्यादरतिः" इति वदन्ति ।

उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ।

यथा रत्नावल्याम्---"सगरिका--- दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा ।
पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम्" ॥

परिहासवचो नर्म---
यथा रत्नावल्याम्---"सुसंगता--सही ! जस्स किदे तुमं आअदा से अअं दे पुरदो चिट्ठदि ।
सागरिका---(साभ्यसूयम्) कस्स किदे अहं आअदा ? "सुसंगता--अलं अण्णसंकिदेण ।
णं चित्तफलअस्स" ।

---धृतिस्तु परिहासजा ॥९१॥

नर्मद्युतिः---
तथा तत्रैव--"सुसंगता-सहि ! अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि ।
सागरिका--(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे ! दाणिं वि कीलिदुं न विरमसि ।
केचित्तु--"दोषस्याच्छादनं हास्यं नर्मद्युतिः" इति वदन्ति ।

---प्रगमनं वाक्यं स्यादुत्तरोत्तरम् ।

यथा विक्रमोर्वश्याम्--उर्वशी--जअदु जअदु महाराओ ।
राजा--- मया नाम जितं यस्य त्वया जय उदीर्यते" ।
इत्यादि ।

विरोधो व्यसनप्राप्तिः---
यथा चण्डकौशिके---"राजा---नूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः" ।

---क्रुद्धस्यानुनयः पुनः ॥९२॥

स्यात्पर्युपासनं--
यथा रत्नावल्याम्--"विढूषकः---भो, मा कुप्य ।
एषा हि कदलीघरन्तरं गादा" इत्यादि ।

---पुष्पं विशेषवचनं मतम् ।

यथा तत्रैव---"(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाः---भो वअस्स ! एसा अपुव्वा सिरी तए समासादिदा ।
राजा---वयस्य ! सत्यम्--- श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतो ऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ॥

प्रत्यक्षनिष्ठुरं वज्रम्---
यथा तत्रैव---"राजा---कथमिहस्थो ऽहं त्वया ज्ञातः ? सुसंगता---ण केवलं तुमं समं चित्तफलएण ।
ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्" ।

---उपन्यासः प्रसादनम् ॥९३॥

यथा तत्रैव--"सुसंगता--भट्टुण ! अलं सङ्काए ।
मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिं ।
ता किं कण्णाभरणोण ।
अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ ।
एसा ज्जेव पसादीअदु" ।
केचित्तु---"उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः" ।
इति वदन्ति ।
उदाहरन्ति च, तत्रैव---"अदिमुहरा क्खु सा गब्भदासी" इति ।

चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ।

यथा महावीरचरिते तृतीये ऽङ्के--- परिषदियमृषीणामेष वीरो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।
अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकास्ते ॥

इत्यत्र ऋषिक्षादीनां वर्णानां मेलनम् ।
अभिनवगुप्तपादास्तु--"वर्णशब्देन पात्राण्युपलक्ष्यन्ते ।
संहारो मेलनम्" इति व्याचक्षते ।
उदाहरन्ति च रत्नावल्यां द्वितीये ऽङ्के--"अदो वि मे अत्त्रं गुरुअरो पसादो--" इत्यादेरारभ्य "णं हत्थे गेण्हिअ पसादेहि णम् ।
राजा--क्वासौ क्वासौ" इत्यादि ।
अथ गार्भाङ्गानि---
अभूताहरणं मार्गो रूपोदाहरणो क्रमः ॥९४॥

संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।
त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ॥९५॥

तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् ।

यथा अश्वत्थामाङ्के--- अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥

तत्त्वार्थकथनं मार्गः---
यथा चण्डकौशिके--"राजा---भगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात् ।
शेषस्यार्थे करिष्यापि चण्डाले ऽप्यात्मविक्रयम् ॥

रूपं वाक्यं वितर्कवत् ॥९६॥

यथा रत्नावल्याम्--"राजा--- मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥

उदाहरणमुत्कर्षयुक्तं वचनमुच्यते ।

यथा अश्वत्थामाङ्के-- यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तको ऽहम् ॥

भावतत्त्वोपलब्धिस्तु क्रमः स्यात्---
यथा शासुन्तले---"राजा---स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
तथाहि-- उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ॥

---संग्रहः पुनः ॥९७॥

सामदानार्थसंपन्नः--
यथा रत्नावल्याम्---"राजा---साधु वयस्य ! इदं ते पारितोषिकम् ।
(इति कटकं ददाति ) ।

---लिङ्गादूहो ऽनुमानता ।

यथा जानकीराघवे नाटके---"रामः--- लीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि ।
तस्यानुमापयति काञ्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ॥

रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥९८॥

यथा रत्नाषल्याम्---"प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ, रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ ।
इत्यह्लादकराखिलङ्गि ! रभसान्निः शङ्कमालिङ्ग्य मा- मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥

इदं च प्रार्थनाख्यमङ्गम् ।
यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् ।

रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात्---
यथाश्वत्थामाङ्के--- एवस्यैव विपाको ऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीये ऽस्मिन्नूनं निः शेषिताः प्रजाः ॥

---त्रो(तो) टकं पुनः ।

संरब्धवाक्--
यथा चण्डकौशिके---"कौशिकः--आः, पुनः कथमद्यापि न सम्भूता स्वणादक्षिणाः" ।

---अधिबलभिसंमधिच्छलेन यः ॥९९॥

यथा रत्नावल्याम्---"काञ्चनमाला---भट्टिणि, इयं सा चित्तसालिआ ।
वसन्तअस्स सण्णं करोमि " इत्यादि ।

नृपादिजनिता भीतरुद्वेगः परिकीर्तितः ।

यथा वेण्याम्--- प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥

शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ॥१००॥

कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् ।
विलोक्य वानरानीके सम्भ्रमः को ऽप्यजायत ॥

अथ विमर्शाङ्गानि---
अपवादो ऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनम् ॥१०१॥

प्ररोचना विमर्शे स्यादादानं छादनं तथा ।
दोषप्रख्यापवादः स्यात्---
यथा वेण्याम्---"युधिष्ठिरः---पञ्चालक ! क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी ।
पाञ्चालकः--न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलव्धः" ।

---संफेटो रोषभाषणम् ॥१०२॥

यथा तत्रैव---"राजा---अरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे ।
शृणु रे-- कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
तस्मिन् वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ॥

भीमः---(सक्रोधम्) आः पाप ।
राजा---आः पाप" ।
इत्यादि ।

व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः ।

यथा तत्रैव---"भीमः--- निहताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता दुर्योधनस्यौर्वोर्भोमो ऽयं शिरसा नतः ॥

द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ॥१०३॥


यथा तत्रैव---"युधिष्ठिरः---भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः को ऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ।

तर्जनोद्वेजने प्रोक्ता द्युतिः---
यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम्---- जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृ-पशो ! विहाय समरं पङ्के ऽधुना लीयसे ॥

---शक्तिः पुनर्भवेत् ।
विरोधस्य प्रशमनम्---
यथा तत्रैव--- "कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद् देहभारा- नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकङ्कैः- रस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ॥

---प्रसङ्गो गुरुकीर्त्तनम् ॥१०४॥

यथा मृच्छकटिकायाम्---"चाण्डालकः---एसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्भ्क्तट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति ।
चारुदत्तः---(सनिर्वेदं स्वगतम्) "मखशतपरिपूतं गोत्रमुद्भासितं यत्, सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् ।
मम निधनदशायां वर्त्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्" ॥

इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद् गुरुकीर्त्तनमिति प्रसङ्गः ।

मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः ।

मनः समुत्पन्नो यथा मालतीमाधवे--- दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ॥

एवं चेष्टासमुत्पन्नो ऽपि ।

ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते ॥१०५॥

यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः---सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
प्रद्युम्नः---(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?" ।
गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ॥

कार्यात्ययोपगमनं विहोधनमिति स्मृतम् ।

यथा वेण्याम्---युधिष्ठिरः--- तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् ।
भीमेन प्रियसाहसेन रभासादल्पावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ॥

प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥१०६॥

यथा वेण्याम्---"पाञ्चालकः--अहं देवेन चक्रपाणिना सहितः---" इत्युपक्रम्य कृतं सन्देहेन ।
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्भ्क्तिते तु कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः" ॥

कार्यसंग्रह आदानम्---
यथा वेण्याम्---"भो भोः समन्तपञ्चकचारिणः ! ।
नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियो ऽस्मि ।
भो भो राजन्यवीराः ! समरशिखिशिखाभुक्तशेषाः ! कृतं व-- स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ॥

अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानम् ---
तदाहुश्छादनं पुनः ।
कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥१०७॥

यथा तत्रैव---अर्जुनः-आर्य ! प्रसीद किमत्रक्रोधेन-- अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥

अथ निर्वहणाङ्गानि ।

सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः तप्रसाद आनन्दः समयो ऽप्युपगूहनम् ॥१०८॥

भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च ।
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥१०९॥

तत्र---
बीजोपगमनं सन्धिः---
यथा तत्रैव (वेण्याम्)---"भीमः-भवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्--"चञ्चद्भुजे" त्यादि" ।
अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः ।

---विबोधः कार्यमार्गणम् ।

यथा तत्रैव---"भीमः--मुञ्चतु मामार्यः क्षणमेकम् ।
युधिष्ठिरः--किमपरमवशिष्टम् ? भीमः--सुमहदवशिष्टम् ।
संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
युधिष्ठिरः--गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्" इति ।
अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः ।

उपन्यासस्तु कार्याणां ग्रथनं---
यथा तत्रैव---भीमः--पाञ्चालि ! न खलु मयि जीवति सहर्ंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् ।
तिष्ठ, स्वयमेवाहं संहरमि " इति ।
अनेन कार्यस्योपक्षेपाद्रग्रथनम् ।

---निर्णयः पुनः ॥११०॥

अनुभूतार्थकथनं---
यथा तत्रैव, भीमः--देव अजातशत्रो ! अद्यापि दुर्योधनहतकः ।
मया हि तस्य दुरात्मनः-- भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्त्तराष्टस्य शेषम् ॥

---वदन्ति परिभाषणम् ।
परिवादकृतं वाक्यम्---
यथा शाकुन्तले--राजा आर्ये ! अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? ।
तापसी--- को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि" ।

---लब्धार्थशमनं कृतिः ॥१११॥

यथा वेण्याम्--"कृष्णः--एते भगवन्तो व्यास--वाल्मीकिप्रभृतयो ऽभिषेकं धारयन्तस्तिष्ठन्ति" इति ।
अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।

शुश्रूषादिः प्रसादः स्यात्---
यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् ।

---आनन्दो वाञ्छितागमः ।

यथा तत्रैव---"द्रौपदी---विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं" ।

समयो दुःखनिर्याणां---
यथा रत्नावल्याम्--"वासवदत्ता---(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए ! समस्सस" ।

---तद्भवेदुपगूहनम् ॥११२॥

यत् स्यादद्भुतसम्प्राप्तिः--
यथा मम प्रभावत्यां नारददर्शनात् प्रद्युम्न ऊर्द्ध्वमवलोक्य--- दधद्विद्युल्लेखामिव कुसुममालां मरिमल-- भ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः ।
दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलय-- न्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम् ॥

---सामदानादि भाषण्म् ।

यथा चण्डकौशिके--"धर्मः---तदेहि धर्मलोकमधितिष्ठ" ।

पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥११३॥


यथा वेण्याम्--भीमः--बुद्धैमतिके ! क्व सा भानुमती ।
परिभवतु सम्प्रति पाण्डवदारान्" ।

वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ।

यथा सर्वत्र---किं ते भूयः प्रियमुपकरोमि" ।
इति ।

नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥११४॥

यथा प्रभावत्याम्--- राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ॥

अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः ।
"इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भे ऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शे ऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यम् ।
अन्येषां च यथासम्भवं स्थितिः" इति केचित् ।

चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।
कुर्यादनियते तस्य संधावपि निवेशनम् ॥११५॥

रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।

यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् ।
एवमन्यत्रापि ।
यत्तु रुद्रटादिभिः "नियम एव " इत्युक्तं तल्लक्ष्याविरुद्धम् ।

इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ॥११६॥

रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा ।
प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलम् ॥११७॥

अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ॥११८॥

संपादयेतां संध्यङ्गं नायकप्रतिनायकौ ।
तदभावे पताकाद्यस्तदभावे तथेतरत् ॥११९॥

प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति ।
किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।

रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥१२०॥

तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशे ऽवसरे ऽत्यन्तमनुचितम् ।

अविरुद्धं तु यद्वृत्तं रसादिव्यक्तये ऽधिकम् ।
तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन ॥१२१॥

अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव ।
अथ वृत्तयः---
शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥१२२॥

चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः ।
स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ॥१२३॥

तत्र कौशिकी---
या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता ।
कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ॥१२४॥

नर्म च नर्मस्फूर्जो नर्मस्फोटो ऽथ नर्मगर्भश्च ।
चत्वार्यङ्गान्यस्या---
तत्र---
---वैदग्ध्यक्रीहितं नर्मः ॥१२५॥

इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतम् ।
विहितं शुद्धहास्येन सशृङ्गारभयेन च ॥१२६॥

तत्र केवलहास्येन विहितं यथा रत्नावल्याम्---"वासवदत्ता--(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम् ।
सशृङ्गारहास्येन यथा शाकुन्तले--राजानं प्रति शकुन्तला--असंतुट्ठो उण किं करिस्सदि ।
राजा-- इदमं ।
(इति व्यवसितःशकुन्तलावक्त्रं ढौकते ) सभयहास्येन यथा रत्नावल्याम्---आलेख्यदर्शनावसरे सुसंगता--जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण ।
ता देवीए गदुअ निवेदैस्सम् ।
एतद्वाक्यसम्बन्धि नर्मोदाहृतम् ।
एवं वेषचेष्टासम्बन्ध्यपि ।

नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः ।

यथा मालविकायाम्--सङ्केतनायकमभिसृतायां "नायकः-- विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहण गते सहकारतां त्वमतिमुक्तलताचरितं मयि" ॥

मालविका--"भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि" इत्यादि ।
अथ नर्मस्फोटः---
नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः ॥१२७॥

यथा मालतीमाधवे--- गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्त्वेतत् स्यात् किमदन्यदितो ऽथवा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥

अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः ।

नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः ।

यथा--तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् ।
अथ सात्त्वती---
सात्त्वती बहुला सत्त्व--शौर्यत्यागदयार्जवैः ॥१२८॥

सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा ।
उत्थापको ऽथ सांघात्यः संलापः परिवर्त्तकः ॥१२९॥

विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः ।
उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते ॥१३०॥

यथा महावीरचरिते--- आनन्दाय च विस्मयाय च मया दृष्टो ऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः ।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत् किं वृथा व्याहृतैः ? अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भताम् ॥

मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनम् ।

मन्त्रशक्त्या यथा---मुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनम् ।
अर्थशक्त्यापि तत्रैव ।
दैवशक्त्या यथा---रामायणो रावणाद्विभीषणस्य भेदः ।

संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः ॥१३१॥

यथा वीरचरिते---"रामः--अयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।
परशुरामः--राम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः ।
"इत्यादि ।

प्रारब्धादन्यकार्याणां कारणं परिवर्तकः ।

यथा वेण्याम्---"भामः---सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व ।
अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् ।
अथवा आमन्त्रयितव्यैव मया पाञ्चाली" ।
इति ।
अथारभटी---
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥१३२॥

संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता ।
वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनम् ॥१३३॥

इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः ।
मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते ॥१३४॥

यथोदात्तराघवे--- जीयन्ते जयिनो ऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्- भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी ।
एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्रान् रवान् फेरवाः ॥

इत्यादि ।

संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः ।

यथा मालत्यां माधवाघोरघण्टयोः ।

संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ॥१३५॥

संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः ।

यथोदयनचरिते कलिञ्जहस्तिप्रयोगः ।
द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः ।
यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्--"पुण्या ब्राह्मणजातिः--ऽिति ।

प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवम् ॥१३६॥

अवपातनमित्युक्तं---
यथा कृत्यरावणो षष्ठे ऽङ्के--"(प्रविश्य खङ्गहस्तः पुरुषः)" इत्यतः प्रभृति निष्क्रमणपर्यन्तम् ।

---पूर्वमुक्तैक भारती ।

अथ नाट्योक्तयः---
अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतम् ॥१३७॥

सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ।
रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥१३८॥

त्रिपताककरेणान्यानपवार्यान्तरा कथाम् ।
आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ॥१३९॥

किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितम् ॥१४०॥

यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकम् ।
परावृत्यान्यस्य रहस्यकथनमपवारितम् ।
शेषं स्पष्टम् ।

दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।
दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः ॥१४१॥

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ।

वेश्या यथा वसन्तसेनादिः ।
वणिग्विष्णुदत्तादिः ।
चेटः कलहंसादिः ।
चेटी मन्दारिकादिः ।

नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकम् ॥१४२॥

यथा रामाभ्युदयादिः ।

नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु ।

यथा मालतीमाधवादिः ।

नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥१४३॥

यथा रत्नावली-कर्पूरमञ्जर्यादिः ।

प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।

यथा शाकुन्तले--ऋषी, "गच्छावः" इत्यर्थे "साधयावस्तावत्" ।

राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः ॥१४४॥

राजषिभिर्वयस्येति तथा विढूषकेण च ।
राजन्नित्यृषिभिर्वाच्यः सो ऽपत्यप्रत्ययेन च ॥१४५॥

स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः ।
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः ॥१४६॥

वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् ।
सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः ॥१४७॥


सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ।
वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ॥१४८॥

भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः ।
वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ॥१४९॥

आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ।
वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ॥१५०॥

शिष्यो ऽनुजश्च वक्तव्यो ऽमात्य आर्येति चाधमैः ।
विप्रैरयममात्येति सचिवेति च भण्यते ॥१५१॥

साधो ! इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ।
स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ॥१५२॥

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।
स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ॥१५३॥

भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः ।
वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ॥१५४॥

पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः ।
हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा ॥१५५॥

कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः ।
आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥१५६॥

शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः ।
यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥१५७॥

तेनैव नाम्ना वाच्यो ऽसौ ज्ञेयाश्चान्ये यथोचितम् ।

अथ भाषाविभागः---
पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥१५८॥

सोरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।
आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ॥१५९॥

अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम् ।
चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी ॥१६०॥

प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा ।
योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥१६१॥

शवराणां शकादानां शाबरीं संप्रयोजयेत् ।
बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु ॥१६२॥

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।
आभीरी शाबरी चापि काष्ठपात्रोपजीविषु ॥१६३॥

तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् ।
चेटीनामष्यनीचानामपि स्यात्सौरसेनिका ॥१६४॥

बालानां षण्डकानां च नीचग्रहविचारिणाम् ।
उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ॥१६५॥

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।
भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥१६६॥

संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमन्भिसुतावेश्यास्वपि कैश्चित्तथोदितम् ॥१६७॥

कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥१६८॥

योषित्सखीबालवेश्याकितवाष्सरसां तथा ।
वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा ॥१६९॥

एषामुदाहरणान्याकरेषु बोद्धव्यानि ।
भाषालक्षणानि मम तातपादानां भाषार्णवे ।

षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा ।
त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ॥१७०॥

लास्याङ्गानि दश यथालाभंरसव्यपेक्षया ।

यथालाभं प्रयोज्यानीति सम्बन्धः ।
अत्रेति नाटके ।
तत्र लक्षणानि--
भूषणाक्षरसंघातौ शोभोदाहरणं तथा ॥१७१॥

हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ।
निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ॥१७२॥

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।
विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ ॥१७३॥


दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा ।
पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् ॥१७४॥

लेशो मनोरथो ऽनुक्तसिद्धिः प्रियवचस्तथा ।

तत्र---
लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम् ॥१७५॥

यथा---आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् ।
कोषदण्डसमग्रणां किमेषामस्ति दुष्करम् ॥

वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः ।

यथा शाकुन्तले--"राजा---कच्चित्सखीं वो नातिबाधते शरीरसंतापः ।
प्रियंवदा--सम्पदं लधोसहो उअसमं गमिस्सदि" ।

सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते ॥१७६॥

श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते ।

यथा--- "संद्वंशसम्भवः शुद्धः कोटिदो ऽपि गुणान्वितः ।
कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ।

यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ॥१७७॥

साध्यते ऽभिमतश्चार्थस्तदुदाहरणं मतम् ।

यथा--- अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना ॥

हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात् ॥१७८॥

यथा वेण्यां भीमं प्रति "चेटी--एवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति ।

संशयो ऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ।

यथा ययातिविजये--- इयं स्वर्गाधिनाधस्य लक्ष्मीः किं यक्षकन्यका ।
किं चास्य विषयस्यैव देवता किमु पार्वती ॥

दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनम् ॥१७९॥

यथा वेण्याम् --"सहदेवः---आर्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा" इत्यादि ।

तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना ।

यथा तत्रैव--- प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः ।
शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥

संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः ॥१८०॥

यथा शाकुन्तले--- अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥

अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव ।

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परपक्षव्युदासार्थं तन्निदर्शनमुच्यते ॥१८१॥

यथा--क्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः ।
किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ॥

अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना ।

यथा शाकुन्तले--- इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥

प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते ॥१८२॥

यथा मम प्रभावत्याम्--"अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती" ।

विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् ।

यथा मम चन्द्रकलायाम्---"राजा---नूनमियमन्तः पिहितमदनविकारा वर्तते ।
यतः-- "हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् ।
सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते" ॥

देशकालस्वरूपेणा वर्णना दिष्टमुच्यते ॥१८३॥

यथा वेण्याम्--"सहदेवः-- "यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धे ऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति" ॥

उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।

यथा शाकुन्तले--- शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ॥

गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ॥१८४॥

यथा मम चन्द्रकलायां चन्द्रं प्रति--- जै संहरिज्जै तमो धेप्पै सअलेहि ते पाओ ।
वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ॥

यः सामान्यगुणोद्रेकः स गुणातिशयो मतः ।

यथा तत्रैव---"राजा---(चन्द्रकलाया मुखं निदिश्य) असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल- स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥

सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् ॥१८५॥

यथा---तृष्णापहारी विमलो द्विजावासो जनप्रियः ।
हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥

पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते ।

यथा वेण्याम्---"निहताशेषकौरव्यः---"इत्यादि ।
(३७९ पृ.)
बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ॥१८६॥

यथा---यद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः ।
पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितम् ॥

दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः ।

यथा वेण्याम्---कञ्चुकिनं प्रति "दुर्योधनः--- सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्" ॥

विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ॥१८७॥

यथा---मत्वा लोकमदातारं संतोषे यैः कृता मतिः . त्वयि राजनि ते राजन्न तथा व्यवसायिनः ॥

दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् ।

वाचा यथा---प्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ॥

आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ॥

एवं चेष्टयापि ।

वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् ॥१८८॥

यथा वेण्याम्---अश्वत्थामानं प्रति "कृपः---दिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि" ।

माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् ।

यथा शाकुन्तले---"राजा--- किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तम् ।
अङ्के निवेश्य चरणावुत पद्मताम्रौ संवादयामि करभोरु ! यथासुखं ते" ॥

अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते ॥१८९॥

यथा वेण्याम्---द्रोणो ऽश्चत्थामानं राज्ये ऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति "राजा---साधु अङ्गराज ! साधु, कथमन्यथा--- दत्त्वामयं सो ऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा" ॥

दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् ।

यथा तत्रैव--कर्णं प्रति "अश्वत्थामा-- निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा ।
जातो ऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत्" ॥

अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ॥१९०॥

यथा तत्रैव---"सुन्दरकः---अज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महाराओ दुर्योधणो ण वेत्ति" ।

प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् ।

यथा विक्रमोर्वश्याम्---"राजा--- सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥

सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ॥१९१॥

यथा वेण्याम्--दुर्योधनभ्रान्त्या भीमं प्रति "युधिष्ठिरः---दुरात्मन् !दुर्योधनहतक !-" इत्यादि ।

संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।

यथा मम चन्द्रकलायाम्---"राजा---प्रिये ! अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
(आत्मानं निर्दिश्य---) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः" ॥

गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनम् ॥१९२॥

यथा तत्रैव--"नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि--" इत्यादि (पृ.)
स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरम् ।

यथा वेण्याम्---"राजा--- हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति" ॥

मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥१९३॥

यथा---रतिकेलिकलः किंचिदेष मन्मथमन्थरः ।
पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥

विशेषार्थोहविस्तारो ऽनुक्तसिद्धिरुदीर्यते ।

यथा---"गृहवृक्षवाटिकायाम्--- दृश्येते तन्वि ! यावेतौ चारुचन्द्रमसं प्रति ।
प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू" ॥

स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम् ॥१९४॥

यथा शाकुन्तले--- उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥

अथ नाट्यालङ्काराः--
आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः ।
उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ॥१९५॥

आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ ।
उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥१९६॥

प्रोत्साहनं च साहाय्यमभिमानो ऽनुवर्तनम् ।
उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनम् ॥१९७॥

प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥१९८॥

आशीरिष्टजनाशंसा---
यथा शाकुन्तले--- ययातेरिव शमिष्ठा पत्युर्बहुमता भव ।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥

---आकन्दः प्रलपितं शुचौ ।

यथा वेण्याम्--"कञ्चकी--हा देवि ! कुन्ति ! राजभवनपताके !-" इत्यादि ।

कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥१९९॥

यथाकुलपत्यङ्के--- मृगरूपं परित्यज्य विधाय कपटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥

अक्षमा सा परिभवः स्वल्पो ऽपि" न विषह्यते ।

यथा शाकुन्तले---"राजा--भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः ।
किं पुनरिमामभिसन्धाय लभ्यते ।
शार्ङ्गरवः---विनिपातः---ऽित्यादि ।

गर्वो ऽवलेपजं वाक्यं---
यथा तत्रैव---"राजा---ममापि नाम सत्त्वैरभिभूयन्ते गृहाः" ।

---कार्यस्यारम्भ उद्यमः ॥२००॥

यथा कुम्भाङ्के--"रवणः--पश्यामि शोकविवशो ऽन्तकमेव तावत्" ।

ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते ।

यथा विभीषणनिर्भर्त्सनाङ्के--"विभीषणः--राममेवाश्रयामि" इति ।

उत्प्रासनं तूपहासो यो ऽसाधौ साधुमानिनि ॥२०१॥

यथा शाकुन्तले--"शार्ङ्गरवः--राजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् ।
तत्कथमधर्मभीरोर्दारपरित्यागः---" इत्यादि ।

आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।

यथा तत्रैव---"राजा--- चारुणा स्फुरितेनायमपरिक्षतकोमलः ।
पिपासतो ममानुज्ञां ददातीव प्रियाधरः"

अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥२०२॥

यथा---त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना ।
न केवलं हतो वाली स्वात्मा च परलोकतः ॥

मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।

यथानुतापाङ्के--"रामः--- किं देव्या न विचुम्बितो ऽस्मि बहुशो मिथ्याभिशप्तस्तदा" इति ।

उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये ॥२०३॥

यथा वध्यशिलायाम्--- "म्रियते म्रियमाणो या त्वयि जीवति जीवति ।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥

आशंसनं स्यादाशंसा---
यथा श्मशाने---"माधवः--- "तत्पश्येयमनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम्" इति ।

---प्रतिज्ञाध्यवसायकः ।

यथा मम प्रभावत्याम्---"वज्रनाभः--- अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः" ॥

विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥२०४॥

यथा वेण्याम्---"एकस्यैव विपाको ऽयम्--" इत्यादि (३७६ पृ.)
कार्यग्रहणमुल्लेख---
यथा शाकुन्तले---राजानं प्रति "तापसौ---समिदाहरणाय प्रस्थितावावाम् ।
इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते ।
न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः" इति ।

---उत्तेजनमितीष्यते ।
स्वकार्यसिद्धये ऽन्यस्य प्रेरणाय कठोरवाक् ॥२०५॥

यथा---इन्द्रजिच्चण्डवीर्यो ऽसि नाम्नैव बलवानसि ।
धिग्धिक्प्रच्छन्नरूपेण युध्यसे ऽस्मद्भयाकुलः ॥

भर्त्सना तु परीवादो---
यथा सुन्दराङ्के--"दुर्योधनः धिग् धिक् सूत ! किं कृतवानसि ।
वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति--" इत्यादि ।

---नीतिः शास्त्रेण वर्तनम् ।

यथा शाकुन्तले--"दुष्यन्तः---विनीतवेषप्रवेश्यानि तपोवनानि" ।
इति ।

उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ॥२०६॥

उपालम्भविशेषेण तत् स्यादर्थविशेषणम् ।

यथा शाकुन्तले राजानं प्रति "शार्ङ्गरवः--आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः ।
सतीमपि ज्ञातिकुलैकसंश्रयां जनो ऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥

प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ॥२०७॥

यथा बालरामायणे--- कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि ।
तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ॥

साहाय्यं सङ्कटे यत्स्यात् सानुकूल्यं परस्य च ।

यथा वेण्याम्--कृपं प्रति "अश्वत्थामा---त्वमपि तावद्राज्ञः पाशर्ववर्तो भव ।
कुपः---वाञ्छाम्यहमद्य प्रतिकर्तुम्--" इत्यादि ।

अभिमानः स एव स्यात्---
यथा तत्रैव---"दुर्योधनः---मातः किमप्यसदृशं कृपणं वचस्ते---" इत्यादि ।

---प्रश्रयादनुवर्तनम् ॥२०८॥

अनुवृत्तिः---
यथा शाकुन्तले--"राजा---(शकुन्तलां प्रति) अयि ! तपो वर्धते ।
अनुसूयादाणिं अदिधिविसेसलाहेण" इत्यादि ।

---भूतकार्याख्यानमुत्कीर्तनं मतम् ।

यथा बालारामायणे--- अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
इत्यादि ।

याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा ॥२०९॥

यथा----अद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः ।
शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ॥

परिहार इति प्रोक्तः कृतानुचितमार्जनम् ।

यथा--प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम् ।
तत्क्षमस्व विभो ! किं च सुग्रीवस्ते समर्पितः ॥

अवधीरितकर्तव्यकथनं तु निवेदनम् ॥२१०॥

यथा राघवाभ्युदये---"लक्ष्मणः--आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतो ऽसि तत्किमेतत्" ।

प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनम् ।

यथा वेण्याम्---"राजा---कञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः" ।

आख्यानं पूर्ववृत्तोक्तिर्---
यथा तत्रैव--"देशः सो ऽयमरातिशोणितजलेर्यस्मिन् ह्रदाः पूरिताः--ऽित्यादि ।

---युक्तिरर्थावधारणम् ॥२११॥

यथा तत्रैव--- यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितो ऽन्यतः प्रयातुम् ।
अख मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ? ॥

प्रहर्षः प्रमदाधिक्यं---
यथा शाकुन्तले---"राजा - तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि" ।

---शिक्षा स्यादुपदेशनम् ।

यथा तत्रैव--"सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्भ्क्तिअ सच्छन्ददो गमनम्" ।
एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वे ऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण ।
एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावे ऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः ।
एतानि च--- पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतम् ।
षडविंशल्लक्षणोपेतमलङ्कारोपशोभितम् ।
महारसं महाभोगमुदात्तरचनान्वितम् ।
महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥

सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥

इति मुनिनोक्तत्वान्नाटके ऽवश्यं कर्तव्यान्येव ।
वीथ्यङ्गानि वक्ष्यन्ते ।
लास्याङ्गान्याह--
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ॥२१२॥

प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ।
उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥२१३॥

लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः ।
तत्र--तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥२१४॥


शुद्धं गानं गेयपदं---
यथा---गौरीगृहे वीणां वादयन्ती "मलयवती--- उत्फुल्लकलकेसरपरागगौरद्युते ! मम हि गौरि ! ।
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥

---स्थितपाठ्यं तदुच्यते ।
मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥२१५॥

अभिनवगुप्तपादास्त्वाहुः---"उपलक्षणं चैतत् ।
क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्" इति ।
निखिलातोद्यरहितं शोकचिन्तान्विताबला ।
अप्रसाधितगात्रं यदासीनासीनमेव तत् ॥२१६॥

आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका ॥२१७॥

अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना ।
वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ॥२१८॥

स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।

यथा मालत्याम्--"मकरन्दः--एषो ऽस्मि मालतीसंवृत्तः" ।

कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ॥२१९॥

प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतम् ।

करणं वीणादिक्रिया ।

यतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितम् ॥२२०॥

द्विगूढं रसभावाढ्यम्-- ---उत्तमोत्तमकं पुनः ।
क्पप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ॥२२१॥

हावहेलान्वितं चित्रश्लोकबन्धमनोहरम् ।
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥२२२॥

विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते ।

स्पष्टान्युदाहरणानि ।

एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ॥२२३॥

अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे ।

एतदेव नाटकम् ।
यथा---बालरामायणम् ।
अथ प्रकरणम् ---
भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितम् ॥२२४॥

शृङ्गारो ऽङ्गी नायकस्तु विप्रो ऽमात्यो ऽथवा वणिक् ।
सापायधर्मकामार्थपरो धीर शान्तकः ॥२२५॥

विप्रनायकं यथा मृच्छकटिकम् ।
अमात्यनायकं मालतीमाधवम् ।
वणिड्नायकं पुष्पभूषितम् ।

नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥२२६॥

कितवद्यूतकारादिविटचेटकसंकुलः ।

कुलस्त्री पुष्पभूषिते ।
वेश्या तु रङ्गवृत्ते ।
द्वे अपि मृच्छकटिके ।
अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् ।
अथ भाणः---
भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः ॥२२७॥

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ॥२२८॥

संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः ।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ॥२२९॥

तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति ।
मुखनिवहणो सन्धी लास्याङ्गानि दशापि च ॥२३०॥

अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् ।
शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् ।
प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति ।
लास्याङ्गानि गेयपदादीनि ।
उदाहणं लीलामधुकरः ।
अथ व्यायोगः---
ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥२३१॥

एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः ।
कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥२३२॥

राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः ।
हास्यशृङ्गारशान्तेभ्य इतरे ऽत्राङ्गिनो रसाः ॥२३३॥

यथा सौगन्धैकाहरणम् ।
अथ समवकारः---
वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।
सन्धयो निर्विमर्शास्तु त्रयो ऽङ्कास्तत्र चादिमे ॥२३४॥

सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः ।
नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ॥२३५॥

फलं पृथक्पृथक्तेषां वीरमुख्यो ऽखिलो रसः ।
वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥२३६॥

वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ॥२३७॥

त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥२३८॥

द्वितीये ऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके ।

नालिका घटिकाद्वयमुच्यते ।
बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ ।
तत्र---
धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ॥२३९॥

स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ।
अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः ॥२४०॥

तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः ।
अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः ।
प्रहसनशृङ्गारः कामशृङ्गारः ।
तत्र कामशृङ्गारः प्रथमाङ्कः एव ।
अन्ययोस्तु न नियम इत्याहुः ।
चेतनाचेतना गजादयः ।
समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः ।
यथा---समुद्रमथनम् ।
अथ डिमः---
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥२४१॥

अङ्गी रौद्ररसस्तत्र सर्वे ऽङ्गानि रसाः पुनः ।
चत्वारो ऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥२४२॥

नायका देवगन्धर्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥२४३॥

वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः ॥२४४॥

अत्रोदाहरणं च "त्रिपुरदाहः" इति महर्षिः ।
अथेहामृगः--
ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः ।
मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥२४५॥

नरदिव्यावनियमौ नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥२४६॥

दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ॥२४७॥


पताकानायका दिव्या मर्त्या वापि दशोद्धताः ।
युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥२४८॥


महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो ।
एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥२४९॥

दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे ।

मिश्रं ख्याताख्यातम् ।
अन्यः प्रतिनायकः ।
पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश ।
नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः ।
यथा---कुसुमशेखरविजयादिः ।
अथाङ्कः---
उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥२५०॥

रसो ऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ॥२५१॥

भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ ।
युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु ॥२५२॥

इसं च केचित् नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानम् आहुः ।
अन्ये तु---उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः ।
यथा--शमिष्ठाययातिः ।
अथ वीथी---
वीथ्यामेको भवेदङ्कः कश्चिदेको ऽत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥२५३॥

सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान् प्रति ।
मुखनिर्वहणो सन्धई अर्थप्रकृतयो ऽखिलाः ॥२५४॥

कश्चिदुत्तमो मध्यमो ऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वम् ।

अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।
उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥२५५॥

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु ॥२५६॥

तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।

मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।

यथा विक्रमोर्वश्याम्--वलीभीस्थविदूषकचेट्योरन्योन्यवचनम् ।

त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥२५७॥

यथा तत्रैव---राजा--- सर्वक्षितिभृतां नाथ !, दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्ते ऽस्मिन् मया विरहिता त्वया ॥

(नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह ।
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् ।
नटादित्रितयविषयमेवेदमिति कश्चित् ।

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलम् ।

यथा वेण्याम्--भीमार्जुनौ--- कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सो ऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वाऽस्ते दुर्योधनो ऽसौ कथयत, न रुषा, द्रष्टुमभ्यागतौ स्वः ॥

अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥२५८॥

उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥२५९॥

द्वित्रीत्युपलक्षणम् ।
यथा--- भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहो ऽपि भवतो, नष्टस्य कान्या गतिः ॥

केचित्--"प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः" इत्याहुः ।
अन्ये "अनेकस्य प्रश्नस्यैकमुत्तरम्" ।

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ।

यथा मम प्रभावत्याम्--वज्रनाभः--- अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥

प्रद्युम्नः---अरे रे असुरापसद ! अलममुना बहुप्रलापेन ।
मम खलु--- अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥

गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥२६०॥

यथा वेण्याम्--राजा--- अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुग्मम् ॥

अनन्तरम् (प्रविश्य) कञ्चुकी--देव ! भग्नं भग्नम्-इत्यादि ।
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् ।

व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।

यथा छिलितरामे--सीता-जाद ! काल्लं क्खु अओज्भ्क्ताएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो ।
लवः--अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ।
सीता--जाद ! सो क्खु तुम्हाणं पिदा ।
लवः--किमावयो रघुपतिः पिता ।
सीता--(साशङ्कम्) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सअलाए ज्जेव पुहवीएत्ति ।

प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥२६१॥

संवरणकार्युत्तरं प्रहेलिका ।
यथा रत्नावल्याम्---सुसङ्गता---सहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि ।
सागरिका--कस्स किदे अहं आअदा सुसङ्गता--णं क्खु चित्तफलअस्स ।
अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ।

असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् ।
अगृह्णतो ऽपि मूर्खस्य पुरो यच्च हितं वचः ॥२६२॥

तत्राद्यं यथा मम प्रभावत्याम्--प्रद्युम्नः-- (सहकारवल्लीमवलोक्य सानन्दम्) अहो कथमिहैव--- अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतम् मे ॥

एवमसंबद्धोत्तरे ऽपि ।
तृतीयं यथा--वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् ।

व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः ।

यथा मालविकाग्निमित्र---(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकः--मा दाव उवदेसमुद्धा गमिस्ससि ।
(इत्युपक्रमेण) गणदासः--(विदूषकं प्रति---) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः ।
विदूषकः--पढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा ।
(मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः ।

दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत् ॥२६३॥

क्रमेण यथा--- प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता ।
भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ॥

तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।
सुखैकायतनं जातं दुःखायैव ममाधुना ॥

एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि ।
वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् ।
यथा---मालविका ।
अथ प्रहसनम्---
भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् ।
भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥२६४॥

अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ ।
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥२६५॥

तत्र---
तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः ।
एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते ।

यथा कन्दर्पकेलिः ।

आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः ॥२६६॥

यथा---धूर्तचरितम् ।

वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे ।
तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितम् ॥२६७॥

यथा--लटकमेलकादिः ।
मुनिस्त्वाह--- वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः ।
अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णम् ॥

इति ।

विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः ।
भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः ॥२६८॥

इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तम् ।
अथोपरूपकाणि ।

तत्र नाटिका कॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका ।
प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥२६९॥

स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृपवंशजा ॥२७०॥

सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः ।
देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ॥२७१॥

पदे पदे मानवती तद्वशः सङ्गमो द्वयोः ।
वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः ॥२७२॥

द्वयोर्नायिकानायकयोः ।
यथा--रत्नावली---विद्धशालभञ्जिकादिः ।
अथ त्रोटकम्-
सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् ।
त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ॥२७३॥

प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारो ऽङ्गी ।
सप्ताङ्कं यथा--स्तम्भितरम्भम् ।
पञ्चाङ्कं यथा--विक्रमोर्वशी ।
अथ गोष्ठी---
प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता ।
नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी ॥२७४॥

हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता ।
कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता ॥२७५॥

यथा---रैवतमदनिका ।
अथ सट्टकम्--
सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् ।
न च विष्कम्भको ऽप्यत्र प्रचुरश्चाद्भुतो रसः ॥२७६॥

अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमम् ।

यथा---कर्पूरमञ्जरी ।
अथ नाट्यरासकम्---
नाट्यरासकमेकाङ्कं बहुताललयस्थिति ॥२७७॥

उदात्तनायकं तद्वत्पीठमर्देपनायकम् ।
हास्यो ऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ॥२७८॥

मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च ।
केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलम् ॥२७९॥

तत्र सन्धैद्वयवती यथा--नर्मवती ।
सन्धैचतुष्टयवती यथा--विलासवती ।
अथ प्रस्थानकम्--
प्रस्थाने नामको दासो हीनः स्यादुपनायकः ।
दासी च नायिका वृत्तिः कौशिकी भारती तथा ॥२८०॥

सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः ।
अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ॥२८१॥

यथा---शृङ्गारतिलकम् ।
अथोल्लाप्यम्---
उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम् ।
शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः ॥२८२॥

उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरम् ।
चतस्त्रो नायिकास्तत्र त्रयो ऽङ्का इति केचन ॥२८३॥

शिल्पकाङ्गानि वक्ष्यमाणानि ।
यथा--देवीमहादेवम् ।
अथ काव्यम्---
काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलम् ।
खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम् ॥२८४॥

वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितम् ।
नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः ॥२८५॥

यथा---यादवोदयम् ।
अथ प्रेङ्खणम्---
गर्भावमर्शरहितं प्रेङ्खणं हीननायकम् ।
असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् ॥२८६॥

नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् ।
नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥२८७॥

यथा---वालिवधः ।
अथ रासकम्---
रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् ।
भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतम् ॥२८८॥

असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम् ।
श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् ॥२८९॥

उदात्तभावविन्यससंश्रितं चोत्तरोत्तरम् ।
इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते ॥२९०॥

यथा---मेनंकाहितम् ।
अथ संलापकम्---
संलापके ऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः ।
पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः ॥२९१॥

भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः ।
न तत्र वृत्तिर्भवति भारती न च कौशिकी ॥२९२॥

यथा---मायाकापालिकम् ।
अथ श्रीगदितम्---
प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् ।
प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् ॥२९३॥

भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम् ।
मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम् ॥२९४॥

यथा---क्रीडारसातलम् ।

श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि ।
एकाड्को भारतीप्राय इति केचित्प्रचक्षते ॥२९५॥

ऊह्यमुदाहरणम् ।
अथ शिल्पकम्---
चत्वारः शिल्पके ऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा ।
अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ॥२९६॥

वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः ।
सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु ॥२९७

आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः ।
प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः ॥२९८॥

विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः ।
साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा ॥२९९॥


लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनम् ।
चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ॥३००॥

संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् ।
यथा---कनकावतीमाधवः ।
अथ विलासिका---
शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता ।
विदूषकविटाभ्यां च पीठमर्देन भूषिता ॥३०१॥

हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका ।
स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका ॥३०२॥

केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति ।
तस्यास्तु "दुर्मल्लिकायामन्तर्भावः" इत्यान्ये ।
अथ दुर्मल्लिका---
दुर्मल्ली चतुरङ्का स्यात् कौशिकीभारतीयुता ।
अगर्भा नागरनरान्यूननायकभूषिता ॥३०३॥

त्रिनालिः प्रथमो ऽङ्कास्यां विटक्रीडामयो भवेत् ।
पञ्चनालिद्वितीयो ऽङ्को विदूषकविलासवान् ॥३०४॥

षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् ।
चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः ॥३०५॥

यथा---बिन्धुमती ।
अथ प्रकरणिका---
नाटिकैव प्रकरणी सार्थवाहादिनायका ।
समानवंशजा नेतुर्भवेद्यत्र च नायिका ॥३०६॥

मृग्यमुदाहरणम् ।
अथ हल्लीशः---
हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।
वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला ।
मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ॥३०७॥

यथा---कोलिरैवतकम् ।
अथ भाणिका--
भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता ।
कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता ॥३०८॥

उदात्तनायिका मन्दनायकात्राङ्गसप्तकम् ।
उपन्यासो ऽथ विन्यासो विबोधः साध्वसं तथा ॥३०९॥

समर्पणं निवृत्तिश्च संहार इति सप्तमः ।
उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ॥३१०॥

निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः ।
भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम् ॥३११॥

सोपालम्भवचः कोपपीडयेह समर्पणम् ।
निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ॥३१२॥

संहार इति च प्राहुर्यत्कार्यस्य समापनम् ।

स्पष्टान्युदाहरणानि ।
यथा---कामदत्ता ।
एतेषां सर्वेषां नाटकप्रकृतित्वे ऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः ।
यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः ।
अथ श्रव्यकाव्यानि---
श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ॥३१३॥

तत्र पद्यमयान्याह---
छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् ।
द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते ॥३१४॥

कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ।

तत्र मुक्तकं यथा मम--- "सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनो ऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परम् ।
धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका-- दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च" ॥

युग्मकं यथा मम--- "किं करोषि करोपान्ते कान्ते ! गण्डस्थलीमिमाम् ।
प्रणयप्रवणो कान्ते ऽनैकान्ते नोचिताः क्रुधः ॥

इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयम् ।
तावदाविरभूच्चूते मधुरो मधुपध्वनिः" ॥

एवमन्यान्यपि ।

सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ॥३१५॥

सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवो ऽपि वा ॥३१६॥

शृङ्गारवीरशान्तानामेको ऽङ्गी रस इष्यते ।
अङ्गानि सर्वे ऽपि रसाः सर्वे नाटकसन्धयः ॥३१७॥

इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ॥३१८॥

आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् ॥३१९॥

एकवृत्तमयैः पद्यैरवसाने ऽन्यवृत्तकैः ।
नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥३२०॥

नानावृत्तमयः कापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ॥३२१॥

संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ।
प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः ॥३२२॥

संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः ।
रणप्रयाणोपयममन्त्रमुत्रोदयादयः ॥३२३॥

वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ।
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ॥३२४॥

नामास्य सर्गोपादेयकथया सर्गनाम तु ।

सन्ध्यङ्गानि यथालाभमत्र विधेयानि "अवसाने ऽन्यवृत्तकैः" इति बहुवचनमविवक्षितम् ।
साङ्गोपाङ्गा इति जलकेलिमधौपानादयः ।
यथा---रघुवंश---शिशुपालवः---नैषधादयः ।
यथा वा मम---राघवविलासादिः ।

अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ॥३२५॥

अस्मिन्महाकाव्ये ।
यथा---महाभारतम् ।

प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः ।
छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि ॥३२६॥

यथा---सेतुबन्धः ।
यथा वा मम---कुवलयाश्वचरितम् ।

अपभ्रंशनिबद्धे ऽस्मिन् सर्गाः कुडवकाभिधाः ।
तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ॥३२७॥

यथा---कर्णपराक्रमः ।

भाषाविभाषानियमात्काव्यं सर्गसमुज्भ्क्तितम् ।
एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितम् ॥३२८॥

यथा---भिक्षाटनम्, आर्याविलासश्च ।

खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च ।

यथा---मेघदूतादि ।

कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ॥३२९॥

व्रज्याक्रमेण रचितः स एवातिमनोरमः ।

सजातीयानामेकत्र सन्निवेशो व्रज्या ।
यथा मुक्तावल्यादिः ।
अथ गाद्यकाव्यानि ।
तत्र गद्यम्---
वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च ॥३३०॥

भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ।
आद्यं समासरिहितं वृत्तभागयुतं परम् ॥३३१॥

अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ।

मुक्तकं यथा---"गुरुर्वचसि पृथुरुरसि--" इत्यादि ।
वृत्तगन्धि यथा मम-- "समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर" इत्यादि ।
अत्र "कुण्डलीकृतकोदण्डऽ--इत्यनुष्टुब्वृत्तस्य पादः, "समरकण्डूल" इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः ।
उत्कलिकाप्रायं यथा ममैव---"अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल---" इत्यादि ।
चूर्णकं यथा भम--"गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !" इत्यादि ।

कथायां सरसं वस्तु गद्यैरेव विनिमितम् ॥३३२॥

क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।
आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥३३३॥

यथा---कादाम्बर्यादिः ।

आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनम् ।
अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् ॥३३४॥

कथांशानां व्यवच्छेद आश्वास इति वध्यते ।
आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥३३५॥

अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् ।

यथा---हर्षचरितादिः ।
"अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्" ।
इति दण्ड्याचार्यवचनात् केचित् आख्यायिका नायकेनैव निबद्धव्या" इत्याहुः, तदयुक्तम् ।
आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः ।
यदुक्तं दण्डिनैव---अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः" ।
इति ।
एषामुदाहरणम्---पञ्चतन्त्रादि ।
अथ गद्यपद्यमयानि---
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥३३६॥

यथा---देशराजचरितम् ।

गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते ।

यथा---विरुदमणिमाला ।

करम्भकं तु भाषाभिविविधाभिर्विनिर्मितम् ॥३३७॥

यथा मम---षोडशभाषामयी प्रशास्तिरत्नावली ।
एवमन्ये ऽपि भेदा उद्देशमात्रप्रसीद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः ॥

इति साहित्यदर्पणो दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:19.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुगदुमी साखर

  • स्त्री. हलक्या प्रकारची पिठी साखर . [ मगदुमी ] 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.