अथाष्टपञ्चाशत्तमः पटलः - काकिनीसिद्धिसाधनवर्णनम्

काकिणीसाधनम्


अथाष्टसिद्धिमाहात्म्यं श्रृणु श्रीचन्द्रशेखर ।
मन्त्रोद्धारं तथा न्यासं कवचाङु तव प्रियम् ॥१॥

स्तोत्रं सहस्त्रनामाख्यं साष्टोत्तरमनुप्रियम् ।
साकारध्यानमखिलं सालोक्यादिपदप्रदम् ॥२॥

यस्य करणमात्रेण सुरो भवति मानुषः ।
वृक्षबीजाद् भवेद् वृक्षः श्रद्धयाश्च फलोदयः ॥३॥

तथा तथैव मन्त्राणामुदयो बीजयोगतः ।
बीजं तु परमं ज्ञानं बीजाधीनं चराचरम् ॥४॥

बीजमाश्रित्य सर्वेन्द्राः प्रतिभान्ति महौजसः ।
कोटिसूर्यप्रतीकाशाः प्राणस्थाननिवासिनः ॥५॥

के चाप्ययुतसूर्याभाः शतसूर्यसमप्रभाः ।
केचिद् द्वादशसूर्याभाः को जनश्चैकभासुराः ॥६॥

कोपि नाम मुनिर्दीप्तः कोपि चन्द्रसमप्रभः ।
कोपि श्रीकान्तिकिरणः शङ्खचक्रगदाधरः ॥७॥

एते बीजससमुद्भूता निर्बीजाश्च पञ्चदेवताः ।
ब्रह्मविष्णुशिवानन्दभैरवाः प्राणदेवताः ॥८॥

ब्रह्मब्रह्मस्वरुपेण श्वासमार्गप्रवेशकः ।
विष्णुवैष्णवतत्त्वेन कुम्भकान्तर्गतः प्रभुः ॥९॥

शिवः संहारुपेण महाप्रलयगः प्रभुः ।
आनन्दभैरवः श्रीमान् मूलज्ञानीपरात्परः ॥१०॥

मूलाम्भोजाद् ब्रह्मरन्ध्रं यावत्तत्र प्रवेशिका ।
प्राण्विद्यास्वरुपेण बीजरुपा सनातनी ॥११॥

सा भाव्या योगिभिर्नित्यं योगाङैरतिभाव्यते ।
योगशास्त्रं विना नाथ के जानन्ति महर्षयः ॥१२॥

अत्यन्तदुःखसाध्या सा योगिज्ञेयो मनोयवा ।
नानारुपा बृहद्रूपा श्वासोच्छ्‌वासप्रकाशिनी ॥१३॥

ह्रदयाम्भोजमध्यस्था ईश्वरस्थानवासिनी ।
कालचञ्चुप्रकाशा सा सर्वभूतह्रदिस्थिता ॥१४॥

सर्वेषां ज्ञानकर्ती च सर्वानन्दकरी ह्रदि ।
सा देवी काकिनी विद्या ईश्वरो परमा कला ॥१५॥

विभाव्या कोटिसूर्याभा कोटिचन्द्रसमानना ।
तस्या मन्त्रं महामन्त्रं ब्रह्ममन्त्रं हि योगिनाम् ॥१६॥

श्रृणुनाथ कुलानन्द भैरव्यादिमनुं मुदा ।
एतन्मन्त्रप्रभावेण परात्मानं वशं नयेत् ॥१७॥

दीर्घप्रणवमुच्चार्य वामनेत्रं समुद्धरेत् ।
मायान्ते वाग्भवं बीजं कामबीजं समुद्धरेत् ॥१८॥

कामबीजं तथैश्वर्ये नमोऽन्ते वहिनकामिनी ।
एतन्मन्त्रप्रसादेन भवेत् कालवशः क्षणात् ॥१९॥

अत्यन्तसुखमाप्नोति भयाज्ञानापहो भवेत् ।
कामेन पुटितं मन्त्रं वाग्भवेनापि वा प्रभो ॥२०॥

स्वमन्त्रपुटितं कृत्वा सिद्धिः स्यदचिरादिह ।
अथान्यमन्त्रं वक्ष्यामि सावधानोऽवधारय ॥२१॥

भद्रकालीं समुद्धृत्य किङ्किणीबीजमुद्धरेत् ।
बालाबीजं समुद्धृत्य माहेश्वर्यै नमो द्विठः ॥२२॥

केवलं मूलमन्त्रेण पुटितं मूलमन्त्रकैः ।
पूजयेत् परया भक्त्या ह्रदयाम्भोजमण्डले ॥२३॥

अप्रकाश्यमिमं मन्त्रं सर्वतन्त्रेषु गोपितम् ।
लक्षजपेन सिद्धिः स्याद् ह्रदयाब्जे स्थरो भवेत् ॥२४॥  द्

अकस्माद्दीपकलिकाकारं जीवं प्रपश्यति ।
ततो भवेन्महायोगी ईश्वरीमन्त्रसाधनात् ॥२५॥

ध्यानं वक्ष्यामि पूजाया गुह्याद् गुह्यतरं परम् ।
ध्यात्वा पाद्यादिभिर्नाथ मनः कल्पितपुष्पकैः ॥२६॥

पूजयेत्परया भक्त्या मन्त्रध्यानपरायणः ॥२७॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP