मातृकाग्रन्थिनिकरे न्यसेत् पूर्वोक्तनामभिः ।
यदुक्तं पूर्वपटले तेषां नामाभिरेव च ॥३२॥

विन्यस्य मन्त्रपुटितं मन्त्रन्यासं ततश्चरेत् ।
काकिन्या अष्टशक्तिनां न्यासं कुर्यात्ततः परम् ॥३३॥

काकजिहवाद्विकाण्डेशी कामाख्या काकिनी ध्वजा ।
काकिनी काकमाला च काकचञ्चुप्रकाशिनी ॥३४॥

कोकिलाचाष्टशक्तीनां नाम्ना विन्यस्य मस्तके ।
कण्ठकूपे न्यसेत्पश्चात् षोडशस्वरसम्पुटम् ॥३५॥

ह्रदये विन्यसेन्नाथ कादिद्वादशसम्पुटम् ।
मन्त्रं विन्यस्य विधिना नाभौ मन्त्रेण सम्पुटम् ॥३६॥

डादिफान्तं तु विन्यस्य बादिलान्तं स्वलिङुके ।
मूलाधारे मूलमन्त्रपुटितं वादिसान्तकम् ॥३७॥

विन्यस्य व्यापकं न्यासं कृत्वाङानि च बन्धयेत् ।
ततः प्राणायाममेकं कृत्वा प्राणान् समाश्रयेत् ॥३८॥

ततः स्तोत्रं पठेद्धीमान् तत्सर्वं श्रृणु शङ्कर ।
हविष्याशी वशीभूत्वा साधयेदिह सिद्धये ॥३९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे काकिनीसिद्धिसाधन नामाष्टपञ्चाशत्तमः पटलः ॥५८॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP