श्रीभैरवी उवाच
अथ वक्ष्यामि चक्रान्यत् श्रृणु भैरव सादरम् ।
येन हीना न सिद्‌ध्यन्ति महाविद्या वरप्रदाः ॥१॥

ब्रह्मचक्रम्
तव चक्रं ब्रह्माणा व्यक्तं ब्रह्मचक्रमुदाह्रतम् ।
यस्य ज्ञानात् स्वयं ब्रह्मा स्वबलेन भवं सृजेत् ॥२॥

अकालमृत्युहरणं परं ब्रह्मपदं व्रजे ।
चतुष्कोणे चतुष्कोणं तन्मध्ये च चतुश्चतुः ॥३॥

मध्यगेहं वेष्टयित्वा इष्टं मन्दिरमुत्तमम् ।
अष्टकोणे महादेव षोडशस्वरमालिखेत् ॥४॥

अष्टकोणं वेष्टयित्त्वा वृत्तयुग्मं लिखेत् सुधीः ।
मध्यगेहे चतुष्कोणे कादिक्षान्तञ्च वर्णकम् ॥५॥

दक्षिणावर्त्तयोगेन विलिखेत् साधकोत्तमः ।
तदूद्‌र्ध्वे स्वगृहे चाङ्कं विलिख्य गणयेत् सुधीः ॥६॥

चतुर्गेहस्योद्‌र्ध्वदेशे युग्मगेहे क्रमाल्लिखेत् ।
साध्यस्य साधकस्यापि मेषादिकन्यकान्तकम् ॥७॥

अधो लिखेत्तुलाद्यन्तमिति राश्यादिकं शुभम् ।
ततो लिखेद्‍ गेहदक्षे युग्मगेहे महेश्वर ॥८॥

तारकाश्विनी ताराद्यन्तान् दक्षिणतो लिखेत् ।
वर्णक्रमेण विलिखेद्‍ वेदमन्दिरमण्डले ॥९॥

ऊद्‌र्ध्वाधः क्रमशो लेख्यमङुतारं सुरेश्वर ।
ततो हि गणयेमन्त्री योजयित्वा क्रमेण तु ॥१०॥

सुखं राज्यं धनं वृद्धि कलहं कालदर्शनम् ।
सिद्धिमृद्धिमष्टकोणे विदित्वा च शुभाशुभम् ॥११॥

गणयेद्राशिनक्षत्रं मनुचाहं विवर्जयेत् ।
सुखे सुखमवाप्नोति राज्ये राज्यमवाप्नुयात् ॥१२॥

धने धनवाप्नोति वृद्धौ वृद्धिवाप्नुयात् ।
मेषो वृषामिथुनश्च कर्कटः सिंह एव च ।
कन्यका देवता ज्ञेया नक्षत्राणि पुनः श्रृणु ॥१३॥

ऊद्‌र्ध्वयुग्मगृहस्यापि दक्षवामे च भागके ।
नक्षत्राणि सन्ति यानि तानि श्रृणु महाप्रभो ॥१४॥

अश्विनी मृगशिरश्लेषा हस्तानुराधिका तथा ।
उत्तरषाढिकार्द्रा वा पूर्वभाद्रपदा तथा ॥१५॥

दक्षाग्रहस्तितास्ताराः स्पष्टीभूताश्च देवताः ।
एतासामधिपा एते राशयो ग्रहरुपिणः ॥१६॥

कर्कटकेशरी कन्यादेवताः परिकीर्तिताः ।
एतेषाञ्चापि वर्णानामधिपाश्चेति राशयः ॥११७॥

ककास्य(ड?) खकास्य ञकारस्य टकारपः ।
दकारस्य फकारस्य यकारस्य सकारपः ॥१८॥

नकारस्यापि पतयो ज्ञेयाश्च क्रमशः प्रभो ।
संश्रृणु रोहिणीपुष्या तथा चोत्तरफाल्गुनी ॥१९॥

विशाखा च तथा ज्ञेया पूर्वाषाढा च तारका ।
तथा शतभिषातारा वाममन्दिरपर्वगाः ॥२०॥

एतासामधिपा एते राशयो ग्रहरुपिणः ।
मेषो वृषो मिथुनश्च ईश्वरोः परिकीर्तिताः ॥२१॥

एतद्‌गेहस्थितं वर्णमेते रक्षन्त्यनित्यशः ।
ककारस्य नकारस्य ऋकारस्य उकारपः ॥२२॥

अकारस्य पकारस्य मकारस्य वकारपः ।
हकारस्यधिपा एते ऋद्धिमोक्षफलप्रदाः ॥२३॥

दक्षिणाधोगृहस्यापि देवता इति राशयः ।
तुला च वृश्चिकश्चैव धनुश्चैव ग्रहेश्वरः ॥२४॥

एतासां तारकाणाञ्च पतयो गदिता मया ।
भरण्यार्द्रघाचित्राज्येष्ठाश्रवनवल्लभाः ॥२५॥

तथोत्तरभाद्रपदा वल्लभाः राशयो मताः ।
अथ गेहस्थितं वर्णं श्रृणु नाथ भयापह ॥२६॥

यकारस्य दकारस्य टकारस्य नकारपः ।
धकारस्य वकारस्य चकारस्य यकारपः ॥२७॥

क्षकारपणका एते राशयः परिकीर्तिताः ।
धनवृत्तिप्रदा नित्या नित्यस्थाननिवासिनः ॥२८॥

वामाधोमन्दिरस्यापि वल्लभा इति राशयः ।
मकराधस्तु कोष्ठेषु मीनो राशिफलस्थिताः ॥२९॥

एतानि भानि रक्षन्ति शूलपाशसिधारकाः ।
पुनर्वसुः कृत्तिका च तथाभवंपूर्वफल्गुनी ॥३०॥

स्वाती मूला धनिष्ठा च रेवती वामगेहगाः ।
एतासमाधिपा एते जलस्था ग्रहदेवताः ॥३१॥

एतान् वर्णान् प्ररक्षन्ति गृहस्था नव राशयः ।
धकारस्य जकारस्य टकारस्य तकारपः ॥३२॥

नकारस्य भकारस्य लकारस्य तकारपः ।
कलहादिमहादोषकालदर्शनकारकाः ॥३३॥

राशयो लोकहा नाथ तन्मन्त्रं परिवर्जयेत् ।
यद्येकदेवतागेहं विभिन्नञ्च सुशोभनम् ॥३४॥

चतुः स्थानं युगस्थानं सर्वत्रापि निषेधकम् ।
एकगेहस्थितं मन्त्रं बहुसौख्यप्रदायकम् ॥३५॥

नाम्न आद्यक्षरं नीत्वा राशिनक्षत्रविस्मृतौ ।
सभाव साधकश्रेष्ठः कलहे कलहं भवेत् ॥३६॥

रिपुश्चेन्मूलनाशः स्यात् कलहोऽपि सुरेश्वर ।
नेत्रयुग्मे स्वरं पाति सिंहो हि कन्यकां तथा ॥३७॥

कर्णयुग्मं तुला पाति संयुगं वृश्चिको धनुः ।
चयुगं मकरः पाति कुम्भो मीनश्च पाति हि ॥३८॥

ओष्ठाञ्च पाति च तथा अधरं मेष एव च ।
दन्तयुग्मं वृषः पाति मिथुनः शेषगोऽक्षरः ॥३९॥

यस्य ये ये राशयः स्युस्तस्य तत्तच्छुभं स्मृतम् ।
एकराशिः शुभं नित्यं ददाति च मनोरथम् ॥४०॥

अन्यत्र दुखदं प्रोक्तं साधकः सिद्धिभाग्‍ भवेत् ।
भिन्नराशौ वर्जनीयं कलहं कालदर्शनम् ॥४१॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP