सूक्ष्मचक्रं प्रवक्ष्यामि हिताहितफलप्रदम् ॥१६९॥

एतदुक्ताक्षरं शम्भो गृहीत्वा जपमाचरेत् ।
वामदक्षिणमारभ्य सप्तरेखाः समालिखेत् ॥१७०॥

भित्वा तदङ्कान् मन्त्री च रेखातुष्टयं लिखेत् ।
दक्षिणादिक्रमेणैव बद्धमन्दिरमध्यके ॥१७१॥

मन्त्रक्षराणि विलिखेङ्कचारेण साधकः ।
तदङ्कं श्रृणु यत्नेन नराणां भुक्तिमुक्तिदम् ॥१७२॥

प्रथमे मन्दिरे नाथ भुजाङ्कं विलिखेत्ततः ।
विष्णुमन्त्रादिगेहे च वेदाङ्कं विलिखेद्‍ बुधः ॥१७३॥

तत्पश्चादष्टमाङ्कं च भुजाधः षष्ठमेव च ।
तद्‍गेहं शङ्कस्यापि तत्पश्चाद्‌दशमं गृहे ॥१७४॥

तत्पश्चाद्‌द्वादशाङ्कञ्च नायिकास्थानमेव च ।
षष्ठाधोयुगलाङ्कञ्च तत्पश्चादष्टमं तथा ॥१७५॥

तद्‌गृहं शम्भुना व्यस्तं तत्पश्चादष्टमं तथा ।
युगलाधोगृहे चापि चतुर्दशाक्षरं तथा ॥१७६॥

तद्‌दक्षिणे सूर्यगेहं चतुद्‌र्दशाक्षरान्वितम् ।
तत्पश्चात् षोडशाङ्ञ्च पुनरङ्कं लिखेत्ततः ॥१७७॥

तद्‌दक्षिणे वेदवर्णं तत्पश्चादष्टमाक्षरम् ।
ब्रह्ममन्दिरमेवं तत् षोडशाधः पुनः श्रृणु ॥१७८॥

अष्टमाङ्कं ततो युग्ममष्टादशाक्षरं ततः ।
प्रथमस्थं द्वितीयस्थं गुहणीयाद्‍ शुभदं स्मृतम् ॥१७९॥

तृतीयस्थं महापापं सर्वमन्त्रेषु कीर्तितम् ।
द्वितीयं प्रथमं दुःखं तृतीयं सर्वभाग्यदम् ॥१८०॥

तृतीयञ्च तथा नाथ गृहणीयन्निजसिद्धये ।
तृतीये प्रथमं भद्रं द्वितीयं दुःखदायकम् ॥१८१॥

तृतीयञ्च तथा प्रोक्तमष्टाक्षरगृहं भयम् ।
चतुर्दशाक्षरं भद्रं सूर्यमन्त्रं द्वितीयकम् ॥१८२॥

तृतीयस्थं षोडशाङ्के महाकल्याणदायकम् ।
अष्टमूर्तिः षोडशाङ्के चतुर्थे शत्रुमारणम् ॥१८३॥

तृतीयगृहमध्यस्थं ब्रह्मकल्याणदायकम् ।
वस्वक्षंर सर्वशेषगृहमध्यस्थमेव च ॥१८४॥

अष्टमञ्च महाभद्रं क्षमं चित्तभयप्रदम् ।
अष्टादशाङ्कं शुभदं शेषगेहत्रये तथा ॥१८५॥

येषां यदक्षराणाञ्च मन्त्रं चेतासि वर्तते ।
एतत् शुभाशुभं ज्ञात्वा मन्त्रवर्णं तदाभ्यसेत् ॥१८६॥

विष्णुमन्त्रस्थितं मन्त्रं नायिकास्थं शिवस्थकम् ।
सूर्यस्थं ब्रहासंस्थञ्च गृहणीयात् शाक्त एव च ॥१८७॥

वैष्णवो विष्णुमन्त्रार्थं शैवः शिवमुपाश्रयेत् ।
नायिकामन्त्रजापी च नायिकार्णं सदाभ्यसेत् ॥१८८॥

सूर्यमन्त्रविचारार्थी सूर्यमन्त्रं समाश्रयेत् ।
एकस्थं युगलस्थानं तृतीयस्थानमेव च ॥१८९॥

ज्ञात्वा मन्त्रं प्रगृहणीयात् अन्यथा चाशुभं भवेत् ।
एतदन्यतमं मन्त्रं दिव्यवीरेषु गीयते ॥१९०॥

ततश्चक्रं पशोरुक्तं सर्वसिद्धिप्रदं ध्रुवम् ।
एतच्चक्रप्रभावेण पशुर्वीरोपमः स्मृतः ॥१९१॥

सर्वसिद्धियुतो भूत्वा वत्सरात्तां प्रपश्यति ॥१९२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महामन्त्रोद्‌दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरवीभैरवसंवादे चतुर्थः पटलः ॥४॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP