चतुश्चक्रं प्रवक्ष्यामि शृणुष्व पार्वतीपते ।
वामदक्षिणयोगेन रेखापञ्चकमालिखेत् ॥१४८॥

पूर्वपश्चिमभेदेन रेखाः पञ्च समालिखेत् ।
चतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे च मन्त्रवित् ॥१४९॥

तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गहे ।
प्रलिखेत क्रमशश्चाद्ये चतुर्मन्दिरमध्यके ॥१५०॥

शीघ्रञ्च शीतलं जप्तं सिद्धञ्चापि ततः परम् ।
अकारञ्च उकारञ्च लृसोकारं ततः परम् ॥१५१॥

ऊद्‌र्ध्वस्थमिति वर्णं तु शीतलस्थं श्रृणु प्रभो ।
अकारच उकारञ्च (लृ लृ)सौकारञ्च ततः परम् ॥१५२॥

तदधो जगगेहस्थं वर्णं श्रृणु महाप्रभो ।
इकारञ्च ऋकारञ्च ततः परम् ॥१५३॥

सिद्धगेहस्थितं वर्णं श्रृणु सर्वसुखप्रदम् ।
तद्‍दक्षिणचतुगेहे स्थितान् वर्णान् वदामि तान् ॥१५४॥

आहलादञ्च प्रत्ययञ्च मुखञ्च शुद्धमित्यपि ।
एतत्कुलस्थान् सर्वाणीन् शुभाशुभफलप्रदान् ॥१५५॥

करकाञ्च ऋकारञ्च ञकारकम् ।
आहलादस्थमिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम् ॥१५६॥

प्रत्ययस्थं गकारञ्च घकारं टठामित्यपि ।
मुखस्थं हि ङ्कारञ्च चकारं डढामित्यपि ॥१५७॥

शुद्धस्थञ्च उकारञ्च जकारं णतमित्यपि ।
तदधःस्थं चतुर्गेहं लौकिक सात्त्विक तथा ॥१५८॥

मानसिंक राजसिक चतुर्गेहस्थितं त्विमम् ।
लौकिकस्थं थकारञ्च दकारञ्च मकारकम् ॥१५९॥

सात्त्विकस्थं धकारञ्च लकारञ्च यकारकम् ।
मानसिकञ्च श्रृणु भो पकारञ्च फमित्यपि ॥१६०॥

श्रृणु राजसिकत्वञ्च भकारं वनमित्यपि ।
तन्नामस्थं चतुर्गेहं श्रृणु पञ्चानन प्रभो ॥१६१॥

सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्त्रं प्रकीर्तितम् ।
ऊद्‌र्ध्वगेहस्थितान् वर्णमन्त्रान् गृहणाति यो नरः ॥१६२॥

वर्जयित्वा सुप्तमन्त्रं क्षितं लिप्तञ्च दुष्टकम् ।
ऐहिके सिद्धिमाप्नोति परे मुक्तिमवाप्नुयात् ॥१६३॥

यद्यभाग्यवशात्सुतादिषु गेहेषु लभ्यते ।
तदा मन्त्रं शोधयेद्‍ वै सुप्तस्तम्भितकीलितैः ॥१६४॥

वर्द्धितैर्दोषजालस्थैरशुभं भूतशुद्धये ।
भूतलिया पुटीकृत्या जप्त्वा सिद्धिं ततो लभेत् ॥१६५॥

न तु वा वर्जयेद्‍ गेहं चतुष्कं वर्णवेष्टितम् ।
सुप्तनेगस्थितं वर्णं श्रृणु पञ्चानन प्रभो ॥१६६॥

वकारञ्च हकारञ्च ततोऽन्यद्‍गृअहसंस्थितम् ।
शकारञ्च लकारञ्च क्षिप्तगेहस्थितद्वयम् ॥१६७॥

धकारञ्च क्षकारञ्च लिप्तगेहस्थितं द्वयम् ।
दुष्टगेहस्थितं नाथ शकारगगनं तथा ॥१६८॥

निजं सौभाग्ययुक्तं यत्तमन्त्रं तदुपाश्रयेत् ।

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP