प्रथमः पटलः - विविध साधनानि १

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


भैरव उवाच
परा श्रीपरमेशनीवदनाम्भोजनिःसृतम् ।
श्रीयामलं महातन्त्रं स्वतन्त्रं विष्णुयामलम् ॥१॥
शक्तियामलमाख्यातं ब्रह्मणः स्तुतिहेतुना ।
ब्रह्मयामलवेदाङु सर्वञ्च कथितं प्रिये ॥२॥

सरला
साम्बं सदाशिवं नत्वा गजवक्त्रं सरस्वतीम् ।
स्वपितरं मनसा ध्यात्वा मातरं कमलां सतीम्  ॥१॥
रामान्वितकुबेरस्य आत्मजः श्रीसुधाकरः ।
रुद्रयामलग्रन्थस्य भाषाटीकां तनोम्यहम्  ॥२॥
सिद्धि दिशन्तु मे देव्यो मातरो ललितादयः ।
तन्त्रप्रोक्तास्तथा देवा भैरवीभैरवादयः ॥३॥
दूरीकुर्वन्तु विघ्नानि मङुलानि दिशन्तु च ।
पारयन्तु च तन्त्राब्धि दुर्विगाहं सुदुस्तरम्  ॥४॥

इदानीमुत्तराकाण्डं वद श्रीरुद्र्यामलम्  ।
यदि भाग्य्वशाद्‌ देवि! तव श्रीमुखपङ्कजे ॥३॥

यानि यानि स्वतन्त्राणि संदत्तानि महीतले ।
प्रकाशय महातन्त्रं नान्यन्त्रेषु तृप्तिमान्‍   ॥४॥

सर्ववेदान्तवेदेषु कथितव्यं ततः परम् ।
तदा ते भक्तवर्गाणां सिद्धिः सञ्चरते ध्रुवम्  ॥५॥

यदि भक्ते दया भद्रे ! वद त्रिपुरसुन्दरि ।
महाभैरववाक्यञ्च पङ्कजायतलोचना ॥६॥

श्रुत्वोवाच महाकाली कथयामास भैरवम्  ।
शम्भो महात्मदर्पघ्न कामहीन कुलाकुल ॥७॥

चन्द्रमण्डलशीर्षाक्ष हालाहलनिषेवक ।
आद्वितीयाघोरमूर्त्ते रक्तवर्णाशिखोज्ज्वल ॥८॥

महाऋषिपते देव सर्वेषाञ्च नमो नमः ।
सर्वेषा प्राणमथन श्रृणु आनन्दभैरव ॥९॥

आदौ बालाभरवीणाम साधनं षट्‌कलात्मकम् ।
पश्चात्कुमारीललिताशाधनं परमाद्‍भुतम्  ॥१०॥

कुरुकुल्लाविप्रचित्तासाधनं शक्तिसाधनम्  ।
योगिनीखेचरीयक्षकन्यकासाधन ततः ॥११॥

उन्मत्तभैरवीविद्या-कालीविद्यादिसाधनम्  ।
पञ्च्मुद्रासाधनञ्च पञ्चबाणादिसाधनम् ॥१२॥

प्रत्यङिरासाधनञ्च कलौ साक्षात्कार परम् ।
हरितालिकास्वर्णविद्याधूम्रविद्यादिसाधनम् ॥१३॥

आकाशगङा विविधा कन्यकासाधनं ततः ।
भ्रूलतासाधन सिद्धसाधनं तदन्तरम्  ॥१४॥

उल्काविद्यासाधनं च पञ्चतारादिसाधनम् ॥
अपराजितापुरुहूताचामुण्डासाधनं ततः ॥१५॥

कालिकासाधनं कौलसाधनं घनसाधनम् ।
चर्चिकसाधनं पश्चात् घर्घसाधनं ततः ॥१६॥

विमलासाधनं रौद्री त्रिपुरासाधनं ततः ।
सम्पत्प्रदासप्तकूटसाधनं चेटीसाधनम् ।
शक्तिकूटादिषट्‌कूटानवकूटदिसाधनम्  ॥१७॥

कनकाभाकाञ्चनाभावहन्याभासाधनं ततः ।
वज्रकूटापञ्चकूटासकलासाधनं ततः ॥१८॥
तारिणीसाधनं पश्चात् षोडशीसाधनं स्मृतम् ।
छिन्नादि-उग्रप्रचण्ड्यादिसाधनं सुमनोहरम्  ॥१९॥

उल्कामुखीरक्तमुखीसाधनं वीरसाधनम् ।
नानाविधाननिर्माणशवसाधनमेव च ॥२०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP