श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय ८

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशरजी उवाच

पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥१॥

तस्यां च पत्र्च पुत्रानुत्पादयामास ॥२॥

नहुषक्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पत्र्चमः पुत्रोऽभूत् ॥३॥

क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥४॥

काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥५॥

गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताभृत् ॥६॥

काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥७॥

धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥८॥

स हि संसिद्धकार्यकरणस्सकलसम्भूतिष्वशेषज्ञानविद् भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः ॥९॥

काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥१०॥

तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः ॥११॥

स च मद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥१२॥

तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्याभिहितो वत्सो‍ऽभवत् ॥१३॥

सत्यपरतया ऋतध्वजसंज्ञामवाप ॥१४॥

ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥१५॥

तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्‍लोको गीयते ॥१६॥

षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च । अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥१७॥

तस्याप्यलर्कस्य सन्नतिनामाभवदात्मजः ॥१८॥

सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे ॥१९॥

ततश्च सत्यकेतुस्तस्माद्विभुस्तत्तनयस्सुविभुस्ततश्च सुकुमारस्तस्यापि धृष्टकेतुस्ततश्च

वीतिहोरस्तस्माद्भार्गो भार्गस्य भार्गभूमिस्ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्य भूभृतः काथिताः ॥२०॥

रजेस्तु सन्ततिः श्रृयताम् ॥२१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP