संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
क्षेत्रेशस्थापनविधिपटलः

सुप्रभेदागमः - क्षेत्रेशस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि क्षेत्रेशस्य विधिक्रमम् ।
ईश्वरस्यायुतांशेन क्षेत्रपालोद्भवं तथा ॥१॥

ग्रामादा वै शदिग्भागे लोकरक्षार्थकारणम् ।
प्रासादं प्रतिमां तत्र पूर्वोक्तविधिना तथा ॥२॥

द्वारन्तु पश्चिमे मुख्यं दक्षिणे मध्यमं स्मृतम् ।
कन्यसञ्चेन्द्रदिक् द्वारं प्रतिमालक्षणं ततः ॥३॥

चतुर्भुजं त्रिणेत्रं वा षट्भुजञ्चाष्टहस्तकम् ।
सुदंष्ट्रं भैरवाकारं कृष्णवर्णं दिगंबरम् ॥४॥

सर्पयज्ञोपवीतञ्च शिरोमालाकरोटिकम् ।
ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणभूषितम् ॥५॥

त्रिशूलं दक्षिणेहस्ते वामहस्ते कपालकम् ।
खट्गञ्च दक्षिणेहस्ते वामहस्ते तु खेटकम् ॥६॥

एवं चतुर्भुजं विद्धि षत्भूजञ्च ततः शृणु ।
नागञ्च दक्षिणेपाणौ तोमरं वामहस्तके ॥७॥

प्रागुक्तायुधसंयुक्तं षट्भूजं त्विति कीर्तितम् ।
शूलं डमरुखट्वांगं दक्षिणे वामहस्तके ॥८॥

एवमष्टभुजं प्रोक्तं षट्भुजायुधसन्निभम् ।
जलस्थापनवत् कृत्वा रत्नन्यासादि पूर्वकम् ॥९॥

क्षेत्रपालं स्वमन्त्रेण प्रतिष्ठां सम्यगाचरेत् ।
क्षेत्रपालाधिकं प्रोक्तं शूलस्थापनकं शृणु ॥१०॥

इति क्षेत्रेशस्थापनविधिपटलः पञ्चाशत्तमः ॥५०॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP