संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
मातृस्थापनविधिपटलः

सुप्रभेदागमः - मातृस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि मातृणां स्थापनं परम् ।
नै-ऋतस्य वधार्थाय ब्रह्मणाचापि निर्मिताः ॥१॥

ब्रह्माणीं ब्रह्मवत् कुर्यात् महेशीमिश्वरोपमाम् ।
कुमारवच्चकौ मारीं विष्णुवद्वैष्णवीं तथा ॥२॥

क्रोधाननान्तु वाराहीं वामिनीं तु हलायुधाम् ।
चक्राणीं चक्रवत् कुर्यात् चामुण्डीमुग्ररूपिणीम् ॥३॥

सुविकीर्णजटाभारां श्यामवर्णाञ्चतुर्भुजाम् ।
कपालशूलहस्ताञ्च चामुण्डीं कारयेत् ततः ॥४॥

वरदाभयहस्तास्तु तत्तदायुधधारिणः ।
तत्तद्वर्णसमायुक्ता वाहनध्वजसंयुताः ॥५॥

चतुर्भुजास्तु सर्वाश्च नलिनास्ताश्च संस्थिताः ।
वीरभद्रन्तु पूर्वे तु विघ्नेशं पश्चिमं दिशि ॥६॥

वीरासनस्थं वीरेशं विघ्नेशञ्च तथा कुरु ।
मृद्दारुशैल लोहैर्वा कृत्वा तु प्रतिमां बुधः ॥७॥

रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।
नेत्रस्य मोक्षणं पश्चाच्छयने वाधिवासनम् ॥८॥

शिखाग्नौ विधिवत् कृत्वा ध्यात्वा होमं समाचरेत् ।
स्थापयेत् सुमुहूर्ते तु सुनामाद्यैश्च मन्त्रतः ॥९॥

मातृणां हविषं दत्वामातृगायत्रि मन्त्रतः ।
यामलोक्त क्रमेणैव मातृयायागं समाचरेत् ॥१०॥

मातृणां स्थापनं प्रोक्तं विघ्नेशस्थापनं शृणु ।

इति मात्रस्थापनविधिपटल द्विचत्वारिंशत्तमः ॥४२॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP