मथुराखण्डः - अध्यायः ०४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
राजन्नेवं वदंतीनां गोपिनां विरहं परम् ।
विज्ञाय भगवान्देवः शीघ्रं तासां गृहान्ययौ ॥१॥
यावंत्यो योषितो राजंस्तावद्‌रूपधरो हरिः ।
स्वयं संबोधयामास वाग्भिः सर्वाः पृथक् पृथक् ॥२॥
श्रीराधामंदिरं गत्वा दृष्ट्वा राधां च मूर्च्छिताम् ।
रहःस्थितां सखीसंघे ननाद मुरलीं कलम् ॥३॥
श्रुत्वा वंशीध्वनिं राधा सहसोत्थाय चातुरा ।
नेत्र उन्मील्य ददृशे श्रीगोविंदं समागतम् ॥४॥
पद्मिनीव गतानन्दं पद्मिनी पद्मिनीपतिम् ।
वीक्ष्योत्थायागता तस्मै सादरेणासनं ददौ ॥५॥
अश्रुपूर्णमुखीं दीनां राधां कमललोचनाम् ।
शोचंतीं भगवानाह मेघगंभीरया गिरा ॥६॥
श्रीभगवानुवाच -
विमनास्त्वं कथं भद्रे मा शोचं कुरु राधिके ।
अथवा गंतुकामं मां श्रुत्वाऽसि विरहातुरा ॥७॥
भुवो भारावताराय कंसादीनां वधाय च ।
ब्रह्मणा प्रार्थितः साक्षाज्जातोऽहं वै त्वया सह ॥८॥
मथुरां हि गमिष्यामि हरिष्यामि भुवो भरम् ।
शीघ्रमत्रागमिष्यामि करिष्यामि शुभं तव ॥९॥
श्रीनारद उवाच -
इत्युक्तवंतं जगदीश्वरं हरिं
राधा पतिं प्राह वियोगविह्वला ।
दावाग्निना दावलतेव मूर्च्छिता
सुकंपरोमांचित भावसंवृता ॥१०॥
श्रीराधोवाच -
भुवो भरं हर्तुमलं पुरीं व्रज
कृतं परं मे शपथं शृणु त्वतः ।
गते त्वयि प्राणपते च विग्रहं
कदाचिदत्रैव न धारयाम्यहम् ॥११॥
यदात्थ मे त्वं शपथं न मन्यसे
द्वितीयवारं प्रददामि वाक्पथम् ।
प्राणोऽधरे गन्तुमतीव विह्वलः
कर्पूरधूलेः कणवद्‌गमिष्यति ॥१२॥
श्रीभगवानुवाच -
वचनं वै स्वनिगमं दूरीकर्तुं क्षमोऽस्म्यहम् ।
भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः ॥१३॥
श्रीदाम शापात्पूर्वस्माद्‌‌गोलोके कलहान्मम ।
शतवर्षं ते वियोगो भविष्यति न संशयः ॥१४॥
मा शोकं कुरु कल्याणि वरं मे स्मर राधिके ।
मासं मासं वियोगे ते दर्शनं मे भविष्यति ॥१५॥
श्रीराधोवाच -
मासं प्रति वियोगे मे दातुं स्वं दर्शनं हरे ।
चेन्नागमिष्यसि तदाऽसून्दुःखात् संत्यजाम्यहम् ॥१६॥
लोकाभीराम जनभूषण विश्वदीप
कंदर्पमोहन जगद्‍वृजिनार्तिहारिन् ।
आनन्दकन्द यदुनन्दन नन्दसूनो
अद्यागमस्य शपथं कुरु मे पुरस्त्वम् ॥१७॥
श्रीभगवानुवाच -
रंभोरु मासं प्रति ते वियोगे
चेन्नागमिष्ये शपथं गवां मे ।
निःसंशयं निष्कपटं वचस्त्व-
मवेहि राधे कथितं मया यत् ॥१८॥
यो मित्रतां निष्कपटं करोति
निष्कारणो धन्यतमः स एव ।
विधाय मैत्रीं कपटं विदध्यात्
तं लंपटं हेतुपटं नटं धिक् ॥१९॥
कर्मेन्द्रियाणीह यथा रसादीं-
स्तथा सकामा मुनयः सुखं यत् ।
मनाङ् न जानंति हि नैरपेक्षं
गूढं परं निर्गुणलक्षणं तत् ॥२०॥
जानंति संतः समदर्शिनो ये
दांता महांतः किल नैरपेक्षाः ।
ते नैरपेक्ष्यं परमं सुखं मे
ज्ञानेंद्रियादीनि यथा रसादीन् ॥२१॥
सर्वं हि भावं मनसः परस्परं
न ह्येकतो भामिनि जायते ततः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
प्रेम्णा समानं भुवि नास्ति किंचित् ॥२२॥
यथा हि भांडीरवटे मनोरथो
बभूव राधे हि तथा भविष्यति ।
अहैतुकं प्रेम च सद्‌भिराश्रितं
तच्चापि संतः किल निर्गुणं विदुः ॥२३॥
ये राधिकायां त्वयि केशवे मयि
भेदं न कुर्वंति हि दुग्धशौक्ल्यवत् ।
त एव मे ब्रह्मपदं प्रयान्ति
तदहैतुकस्फूर्जितभक्तिलक्षणाः ॥२४॥
ये राधिकायां त्वयि केशवे मयि
पश्यन्ति भेदं कुधियो नरा भुवि ।
ते कालसूत्रं प्रपतन्ति दुःखिता
रंभोरु यावत्किल चंद्रभास्करौ ॥२५॥
श्रीनारद उवाच -
एवमाश्वास्य तां राधां सर्वं गोपीगणं तथा ।
आययौ नंदभवनं भगवान्नयकोविदः ॥२६॥
अथ सूर्योदये जाते नंदाद्याः शकटैर्बलिम् ।
नीत्वा रथान्समारुह्य सर्वे श्रीमथुरां ययुः ॥२७॥
आरुह्य रामकृष्णाभ्यां स्वं रथं गांदिनीसुतः ।
प्रयाणमकरोद्‌राजन्मथुरां द्रष्टुमुद्यतः ॥२८॥
कौटिशःकोटिशो गोप्यो मार्गे मार्गे समास्थिताः ।
पश्यंत्यस्तन्निर्गमनं क्रोधाढ्या मोहविह्वलाः ॥२९॥
क्रूर क्रूरेति चाक्रूरं वदन्त्यः परुषं वचः ।
रुरुधुः सर्वतो यानं यथार्कं सरथं घनाः ॥३०॥
अक्रूरस्य रथं राजन् निजघ्नुर्यष्टिभिर्भृशम् ।
अश्वांस्तथा सारथिं च भगवद्‌विरहातुराः ॥३१॥
अश्वास्तत्र समुत्पेतुस्ताडितास्त इतस्ततः ।
गोपीद्व्यङ्गुलिघातेन सारथिः पतितो रथात् ॥३२॥
विहाय लज्जां लोकस्य समाकृष्य रथाद्‌बलात् ।
कंकणैस्तेडुरक्रूरं पश्यतोः कृष्णरामयोः ॥३३॥
गोपीयूथबलं दृष्ट्वा सबलो भगवान् हरिः ।
गोपीः संबोधयामास रक्षित्वा गांदिनीसुतम् ॥३४॥
संध्यायामागमिष्यामि मा शोकं कुरुतांगनाः ।
पश्यतश्चास्य मद्धास्यं मा कुर्वन्तु व्रजौकसः ॥३५॥
इत्येवमुक्त्वा सरथः समागतो
ऽक्रूरेण कृष्णो बलदेवसंयुतः ।
तुरंगमैर्वेगमयैर्मनोहरैः
ययौ पुरीं यादववृन्दमण्डिताम् ॥३६॥
यावद्‌रथः केतुरुताश्वरेणुः
आलक्ष्यते तावदतीव मोहात् ।
स्थिता ह्यभूवन्पथि चित्रवत्ताः
स्मृत्वा हरेर्वाक्यमुतागताशाः ॥३७॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीमथुराप्रयाणं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP