माधुर्यखण्डः - अध्यायः १३

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
अथ देवांगनानां च गोपीनां वर्णनं शृणु ।
चतुष्पदार्थदं नॄणां भक्तिवर्धनमुत्तमम् ॥१॥
बभूव मालवे देशे गोपो नन्दो दिवस्पतिः ।
भार्यासहस्रसंयुक्तो धनवान् नीतिमान्परः ॥२॥
तीर्थयात्राप्रसंगेन मथुरायां समागतः ।
नन्दराजं व्रजाधीशं श्रुत्वा श्रीगोकुलं ययौ ॥३॥
मिलित्वा गोपराजं स दृष्ट्वा वृन्दावनश्रियम् ।
नन्दराजाज्ञया तत्र वासं चक्रे महामनाः ॥४॥
योजनद्वयमाश्रित्य घोषं चक्रे गवां पुनः ।
मुदं प्राप व्रजे राजन् ज्ञातिभिः स दिवस्पतिः ॥५॥
तस्य देवलवाक्येन सर्वा देवजनस्त्रियः ।
जाताः कन्या महादिव्या ज्वलदग्निशिखोपमाः ॥६॥
श्रीकृष्णं सुन्दरं दृष्ट्वा मोहिताः कन्यकाश्च ताः ।
दामोदरस्य प्राप्त्यर्थं चक्रुर्माघव्रतं परम् ॥७॥
अर्धोदयेऽर्के यमुनां नित्यं स्नात्वा व्रजांगनाः ।
उच्चैर्जगुः कृष्णलीलां प्रेमानन्दसमाकुलाः ॥८॥
तासां प्रसन्नः श्रीकृष्णो वरं ब्रूहीत्युवाच ह ।
ता ऊचुस्तं परं नत्वा कृताञ्जलिपुटाः शनैः ॥९॥
गोप्य ऊचुः -
योगीश्वराणां किल दुर्लभस्त्वं
सर्वेश्वरः कारणकारणोऽसि ।
त्वं नेत्रगामी भवतात्सदा नो
वंशीधरो मन्मथमन्मथांगः ॥१०॥
तथाऽस्तु चोक्त्वा हरिरादिदेवः
तासां तु यो दर्शनमाततान ।
भूयात्सदा ते हृदि नेत्रमार्गे
तथा स आहूत इवाशु चित्ते ॥११॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।
एककार्यार्थमागत्य कोटिकार्यं चकार ह ॥१२॥
परिकरीकृतपीतपटं हरिं
शिखिकिरीटनतीकृतकंधरम् ।
लकुटवेणुकरं चलकुंडलं
पटुतरं नतवेषधरं भजे ॥१३॥
भक्त्यैव वश्यो हरिरादिदेवः
सदा प्रमाणं किल चात्र गोप्यः ।
सांख्यं च योगं न कृतं कदापि
प्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥१४॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
देवजनस्त्री उपाख्यानं नाम त्रयोदशोऽध्यायः ॥१३॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP