संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
प्रथमोऽध्यायः

उत्तरस्थानम् - प्रथमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो बालोपचरणीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
जातमात्रं विशोध्योल्बाद्बालं सैन्धवसर्पिषा
प्रसूतिक्लेशितं चानु बलातैलेन सेचयेत् ॥१॥
अश्मनोर्वादनं चास्य कर्णमूले समाचरेत्
अथास्य दक्षिणे कर्णे मन्त्रमुच्चारयेदिमम् ॥२॥
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे
आत्मा वै पुत्रनामासि सञ्जीव शरदां शतम् ॥३॥
शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि
नक्षत्राणि दिशो रात्रिरहश्च त्वाऽभिरक्षतु ॥४॥
स्वस्थीभूतस्य नाभिं च सूत्रेण चतुरङ्गुलात्
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायामवसञ्जयेत् ॥५॥
नाभिं च कुष्टतैलेन सेचयेत्स्नापयेदनु
क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा ॥६॥
कोष्णेन तप्तरजततपनीयनिमज्जनैः
ततो दक्षिणतर्जन्या तालून्नम्यावगुण्ठयेत् ॥७॥
शिरसि स्नेहपिचुना प्राश्यं चास्य प्रयोजयेत्
हरेणुमात्रं मेधायुर्बलार्थमभिमन्त्रितम् ॥८॥
एन्द्री ब्राह्मीवचाशङ्खपुष्पीकल्कं घृतं मधु
चामीकरवचाब्राह्मीताप्यपथ्या रजीकृताः ॥९॥
लिह्यान्मधुघृतोपेता हेमधात्रीरजोऽथवा
गर्भाम्भः सैन्धववता सर्पिषा वामयेत्ततः ॥१०॥
पाजापत्येन विधिना जातकर्माणि कारयेत्
सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः ॥११॥
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते
प्रथमे दिवसे तस्मात्त्रिकालं मधुसर्पिषी ॥१२॥
अनन्तामिश्रिते मन्त्रपाविते प्राशयेच्छिशुम्
द्वितीये लक्ष्मणासिद्धं तृतीये च घृतं ततः ॥१३॥
प्राङ्निषिद्धस्तनस्यास्य तत्पाणितलसम्मितम्
स्तन्यानुपानं द्वौ कालौ नवनीतं प्रयोजयेत् ॥१४॥
मातुरेव पिबेत्स्तन्यं तद्ध्य्लं देहवृद्धये
स्तन्यधात्र्यावुभे कार्ये तदसम्पदि वत्सले ॥१५॥
अव्यङ्गे ब्रह्मचारिण्यौ वर्णप्रकृतितः समे
नीरुजे मध्यवयसौ जीवद्वत्से न लोलुपे ॥१६॥
हिताहारविहारेण यत्नादुपचरेच्च ते
शुक्क्रोधलङ्घनायासाः स्तन्यनाशस्य हेतवः ॥१७॥
स्तन्यस्य सीधुवर्ज्यानि मद्यान्यानूपजा रसाः
क्षीरं क्षीरिण्य ओषध्यः शोकादेश्च विपर्ययः ॥१८॥
विरुद्धाहारभुक्तायाः क्षुधिताया विचेतसः
प्रदुष्टधातोर्गर्भिण्याः स्तन्यं रोगकरं शिशोः ॥१९॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्
ह्रस्वेन पञ्चमूलेन स्थिराभ्यां वा सितायुतम् ॥२०॥
षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम् ॥२१॥
दशमे दिवसे पूर्णे विधिभिः स्वकुलोचितैः
कारयेत्सूतिकोत्थानं नाम बालस्य चार्चितम् ॥२२॥
विभ्रतोऽङ्गैर्मनोह्वालरोचना गुरुचन्दनम्
नक्षत्रदेवतायुक्तं बान्धवं वा समाक्षरम् ॥२३॥
ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम्
प्रागुदक्शिरसः कुर्यात् बालस्य ज्ञानवान् भिषक् ॥२४॥
शुचिधौतोपधानानि निर्वलीनि मृदूनि च
शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च ॥२५॥
काको विशस्तः शस्तश्च धूपने त्रिवृतान्वितः
जीवत्खङ्गादिशृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥२६॥
धारयेदौषधीः श्रेष्ठा ब्राह्म्यैन्द्री जीवकादिकाः
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात्सततं वचाम् ॥२७॥
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षिणीम्
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि ॥२८॥
कर्णौ हिमागमे विध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥२९॥
दक्षिणेन दधत्सूचीं पालिमन्येन पाणिना
मध्यतः कर्णपीठस्य किञ्चिद्गण्डाश्रयं प्रति ॥३०॥
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते
घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ॥३१॥
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्
नोर्ध्वं न पार्श्वतो नाधः शिरास्तत्र हि संश्रिताः ॥३२॥
कालिकामर्मरीरक्ता स्तद्व्यधाद्रा गरुग्ज्वराः
सशोफदाहसंरम्भमन्या स्तम्भापतानकाः ॥३३॥
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्
स्थाने व्यधान्न रुधिरं न रुग्रागादिसम्भवः ॥३४॥
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्
आमतैलेन सिञ्चेच्च बहलां तद्वदारया ॥३५॥
विध्येत्पालद्यं हितभुजः सञ्चार्याऽथ स्थवीयसी
वर्तिस्त्र्यहात्ततो रुढं वर्धयेत शनैः शनैः ॥३६॥
अथैनं जातदशनं क्रमेणापनयेत्स्तनात्
पूर्वोक्तं योजयेत्क्षीरमन्नं च लघु बृंहणम् ॥३७॥
प्रियालमज्जमधुक मधुलाजसितोपलैः
अपस्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥३८॥
दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः
सङ्ग्राही धातुकीपुष्पशर्करालाजतर्पणैः ॥३९॥
रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः
अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत् ॥४०॥
त्रासयेन्नाविधेयं तं त्रस्तं गृह्णन्तिहि ग्रहाः
वस्त्रवातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम् ॥४१॥
ब्राह्मीसिद्धार्थकवचासारिवा कुष्ठसैन्धवैः
सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम् ॥४२॥
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्
वचेन्दुलेखामण्डूकी शङ्खपुष्पीशतावरीः ॥४३॥
ब्रह्मसोमामृताब्राह्मीः कल्कीकृत्य पलांशिकाः
अष्टाङ्गं विपचेत्सर्पिः प्रस्थं क्षीरचतुर्गुणम् ॥४४॥
तत्पीतं धन्यमायुष्यं वाङ्मेधास्मृतिबुद्धिकृत्
अजाक्षीराभयाव्योषपाठोग्राशिग्रुसैन्धवैः ॥४५॥
सिद्धं सारस्वतं सर्पिर्वाङ्मेधास्मृतिवह्निकृत्
वचामृताशठीपथ्याशङ्खिनीवेल्लनागरैः ॥४६॥
अपामार्गेण च घृतं साधितं पूर्ववद्गुणैः
हेम श्वेतवचा कुष्ठमर्कपुष्पी सकाञ्चना ॥४७॥
हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा
चत्वार एते पादोक्ताः प्राशा मधुघृतप्लुताः ॥४८॥
वर्षं लीढा वपुर्मेधाबलवर्णकराः शुभाः
वचायष्ट्याह्वसिन्धूत्थपथ्यानागरदीप्यकैः ॥४९॥
शुद्ध्य्ते वाग्घविर्लीढैः सकुष्ठकणजीरकैः ॥४९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने बालोपचरणीयो नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP