संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १२४

भूमिखंडः - अध्यायः १२४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
अंतर्द्धानं गते विष्णौ वेनो राजा महामतिः
क्व गतो देवदेवेश इति चिंतापरोऽभवत् ॥१॥
हर्षेण महताविष्टश्चिंतयित्वा नृपोत्तमः
समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः ॥२॥
तमुवाच महात्मानं हर्षेण महता तदा
त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात् ॥३॥
नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो
मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः ॥४॥
यजेहमश्वमेधेन दास्ये दानान्यनेकशः
विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः ॥५॥
संभरस्व महाभाग संभारांस्त्वं नृपोत्तम
आमंत्रय महाभाग ब्राह्मणान्वेदपारगान् ॥६॥
एवं पृथुः समादिष्टो वेनेनापि महात्मना
प्रत्युवाच महात्मा स वेनं पितरमादरात् ॥७॥
कुरु राज्यं महाराज भुंक्ष्व भोगान्मनोनुगान्
दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम् ॥८॥
एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परम्
धनुरादाय पृथ्वीशः सबाणं यत्नपूर्वकम् ॥९॥
आदिदेश भटान्सर्वान्घोषध्वं भूतले मम
पापमेव न कर्तव्यं कर्मणा त्रिविधेन वै ॥१०॥
करिष्यंति च यत्पापं आज्ञां वेनस्य भूपतेः
उल्लंघ्य वध्यतां सो हि यास्यते नात्र संशयः ॥११॥
दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनम्
यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः ॥१२॥
एवं शिक्षां प्रदत्वासौ राज्यं भृत्येषु वेनजः
निःक्षिप्य च गतो विप्रास्तपसोर्थे तपोवनम् ॥१३॥
सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान्
शतवर्षप्रमाणं वै निराहारो बभूव ह ॥१४॥
तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह
तपस्तपसि कस्मात्त्वं तन्मे त्वं कारणं वद ॥१५॥
पृथुरुवाच-
वेन एष महाप्राज्ञः पिता मे कीर्तिवर्द्धनः
समाचरति यः पापमस्य राज्ये नराधमः ॥१६॥
शिरश्छेत्ता भवत्वेष तस्य देवो जनार्दनः
अदृष्टैश्च महाचक्रैर्हरिः शास्ता भवेत्स्वयम् ॥१७॥
मनसा कर्मणा वाचा कर्तुं वांछति पातकम्
तेषां शिरांसि त्रुट्यंतु फलं पक्वं यथा द्रुमात् ॥१८॥
एतदेव वरं मन्ये त्वत्तः शृणु सुरेश्वर
प्रजानां दोषभावेन न लिप्यति पिता मम ॥१९॥
तथा कुरुष्व देवेश वरं दातुं यदीच्छसि
ददस्व उत्तमं कामं चतुर्मुखनमोऽस्तु ते ॥२०॥
ब्रह्मोवाच-
एवमस्तु महाभाग पिता ते पूततां गतः
विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो ॥२१॥
एवं पृथुं समुद्दिश्य वरं दत्वा गतो विभुः
पृथुरेव समायातो राज्यकर्मणि संस्थितः ॥२२॥
वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत्
यस्तु चिंतयते पापं त्रिविधेनापि कर्मणा ॥२३॥
शिरश्छेदो भवेत्तस्य यथाचक्रैर्निकृंतितः
तदाप्रभृति वै पापं नैव कोपि समाचरेत् ॥२४॥
इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः
सर्वलोकाः समाचारैः परिवर्तंति नित्यशः ॥२५॥
दानभोगैः प्रवर्तंते सर्वधर्मपरायणाः
सर्वसौख्यैः प्रवर्द्धंते प्रसादात्तस्य भूपतेः ॥२६॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुर्विंशत्यधिक शततमोऽध्यायः ॥१२४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP