संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११७

भूमिखंडः - अध्यायः ११७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
नहुषः प्रियया सार्द्धं तया चैव सरंभया
ऐंद्रेणापि स दिव्येन स्यंदनेन वरेण च ॥१॥
नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम्
दिव्यैर्मंगलकैर्युक्तं भवनैरुपशोभितम् ॥२॥
हेमतोरणसंयुक्तं पताकाभिरलंकृतम्
नानावादित्रनादैश्च बंदिचारणशोभितम् ॥३॥
देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम्
नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यंदनैस्तथा ॥४॥
नानामंगलशब्दैश्च वेदध्वनिसमाकुलम्
गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः ॥५॥
सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम्
वेदमंगलघोषैश्च ब्राह्मणैश्चैव पूजितः ॥६॥
ददृशे पितरं वीरो मातरं च सुपुण्यकाम्
हर्षेण महताविष्टः पितुः पादौ ननाम सः ॥७॥
अशोकसुंदरी सा तु तयोः पादौ पुनः पुनः
ननाम भक्त्या भावेन उभयोः सा वरानना ॥८॥
रंभा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत्
नमस्कृत्वा समाभाष्य स्वगुरुं नृपनंदनः ॥९॥
अनामयं च पप्रच्छ मातरं पितरं प्रति
एवमुक्तो महाभागः सानंदपुलकोद्गमः ॥१०॥
आयुरुवाच-
अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ
भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत् ॥११॥
कृतकृत्योस्मि संजातस्त्वयि जाते महौजसि
स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः ॥१२॥
इंदुमत्युवाच-
पर्वणि प्राप्य इंदोस्तु तेजो दृष्ट्वा महोदधिः
वृद्धिं याति महाभाग तथाहं तव दर्शनात् ॥१३॥
वर्द्धितास्मि सुहृष्टास्मि आनंदेन समाकुला
दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद ॥१४॥
एवं संभाष्य तं पुत्रमालिंग्य तनयोत्तमम्
शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् ॥१५॥
अभिनंद्य सुतं प्राप्तं नहुषं देवरूपिणम्
आशीर्भिश्चार्चयद्देवी पुण्या इंदुमती तदा ॥१६॥
सूत उवाच-
अथासौ मातरं पुण्यां देवीमिंदुमतीं सुतः
कथयामास वृत्तांतं यथाहरणमात्मनः ॥१७॥
स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः
हुंडेनापि यथा युद्धं हुंडस्यापि निपातनम् ॥१८॥
समासेन समस्तं तदाख्यातं स्वयमेव हि
मातापित्रोर्यथा वृत्तं तयोरानंददायकम् ॥१९॥
मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम्
हर्षेण महताविष्टौ संजातौ पूर्णमानसौ ॥२०॥
नहुषो धनुरादाय इंद्रस्य स्यंदनेन वै
जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् ॥२१॥
पित्रे समर्पयामास वसुपूर्णां वसुंधराम्
पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः ॥२२॥
पितरं याजयामास राजसूयादिभिस्तदा
महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः ॥२३॥
सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः
सुसंपूर्णौ कृतौ तौ तु पितरौ चायुसूनुना ॥२४॥
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम्
अभ्यषिंचन्महात्मानं नहुषं वीरमर्दनम् ॥२५॥
मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा
अभिषिंच्य स्वराज्ये तं समेतं शिवकन्यया ॥२६॥
भार्यायुक्तः स्वकायेन आयु राजा महायशाः
दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः ॥२७॥
ऐंद्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः
हरलोकं जगामाथ मुनिभिर्देवपूजितः ॥२८॥
स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा
हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः ॥२९॥
पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम्
जनितव्यं महाभाग किमन्यैः शोककारकैः ॥३०॥
यथा जातः स धर्मात्मा नहुषः पितृतारकः
कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपंडितः ॥३१॥
एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः
अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिंजल ॥३२॥
एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम्
आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः ॥३३॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP