संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
सप्तदशोऽध्यायः

हरिवंश पर्व - सप्तदशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पितृकल्पः - भीष्म - मार्कण्डेयसंवादः, मार्कण्डेयस्य सनत्कुमारेण सह वार्तालापः

भीष्म उवाच
ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः ।
प्रश्नं तमेवान्वपृच्छं यन्मे पृष्टः पुरा पिता ॥१॥
स मामुवाच धर्मात्मा मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि कार्त्स्न्येन शृणुष्व प्रयतोऽनघ ॥२॥
अहं पितृप्रसादाद् वै दीर्धायुष्ट्वमवाप्तवान् ।
पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥३॥
सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम् ॥४॥
ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा ।
विमानं महदायान्तमुत्तरेण गिरेस्तदा ॥५॥
तस्मिन् विमाने पर्यङ्के ज्वलितादित्यसंनिभम् ।
अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम ॥६॥
अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।
सोऽहं तस्मै नमस्कृत्वा प्रणम्य शिरसा विभुम् ॥७॥
संनिविष्टं विमानस्थं पाद्यार्घ्याभ्यामपूजयम् ।
अपृच्छं चैव दुर्धर्षं विद्याम त्वां कथं विभो ॥८॥
तपोवीर्यात् समुत्पन्नं नारायण गुणात्मकम ।
दैवतं ह्यसि देवानामिति मे वर्तते मतिः ॥९॥
स मामुवाच धर्मात्मा स्मयमान इवानघ ।
न ते तपः सुचरितं येन मां नावबुध्यसे ॥१०॥
क्षणेनैव प्रमाणं स बिभ्रदन्यदनुत्तमम् ।
रूपेण न मया कृश्चिद् दृष्टपूर्वः पुमान् क्वचित् ॥११॥
सनत्कुमार उवाच
विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः ।
तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम् ॥१२॥
सनत्कुमार इति यः श्रुतो देवेषु वै पुरा ।
सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥१३॥
ये त्वन्ये ब्रह्मणः पुत्रा यवीयांसस्तु ते मम ।
भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः ॥१४॥
क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः ।
मरीचिस्तु तथा धीमान् देवगन्धर्वसेविताः ।
त्रीँल्लोकान् धारयन्तीमान देवगन्धर्वपूजिताः ॥१५॥
वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि ।
प्रजाधर्मं च कामं च व्यपहाय महामुने ॥१६॥
यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।
तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥१७॥
मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।
एष दृष्टोऽस्मि भवता कं कामं करवाणि ते ॥१८॥
इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता प्रीयमाणेन भारत ॥१९॥
ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ ॥२०॥
चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ।
स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके ।
रमे त्वयाहं विप्रर्षे शृणु सर्वं यथातथम् ॥२१॥
देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव ।
तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः ॥२२॥
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा दिवौकसः ।
न स्म किंचिद् विजानन्ति ततो लोकोऽप्यमुह्यत ॥२३॥
ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां ततस्तानब्रवीदिदम् ॥२४॥
प्रायश्चितं चरध्वं वै व्यभिचारो हि वः कृतः ।
पुत्रांश्च परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥२५॥
प्रायश्चित्तक्रियार्थं ते पुत्रान् पप्रच्छुरार्तवत् ।
तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा ॥२६॥
प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः ॥२७॥
प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः ।
गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा ॥२८॥
अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः ।
पितामहमुपागच्छन् संशयच्छेदनाय वै ॥२९॥
ततस्तानब्रवीद् देवो यूयं वै ब्रह्मवादिनः ।
तस्माद् यदुक्तं युष्माकं तत्तथा न तदन्यथा ॥३०॥
यूयं शरीरकर्तारस्तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥३१॥
अन्योन्यं पितरो यूयं ते चैवेति न संशयः ।
देवाश्च पितरश्चैव तद् बुध्यध्वं दिवौकसः ॥३२॥
ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः ।
ब्रह्मणा च्छिन्नसंदेहाः प्रीतिमन्तः परस्परम् ॥३३॥
यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ।
धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् ॥३४॥
यदुक्तं चैव युष्माभिस्तत् तथा न तदन्यथा ।
उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् ।
तस्माद् भवन्तः पितरो भविष्यन्ति न संशयः ॥३५॥
योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित् करिष्यति ।
राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥३६॥
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यदा ॥३७॥
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥३८॥
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥३९॥
श्राद्धे ये च प्रदास्यन्ति त्रीन् पिण्डान्नामगोत्रतः ।
सर्वत्र वर्तमानांस्तान् पितरः सपितामहान् ।
भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥४०॥
एवमाज्ञापितं पूर्वे ब्रह्मणा परमेष्ठिना ।
इति तद्वचनं सत्यं भवत्वद्य दिवौकसः ।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥४१॥
सनत्कुमार उवाच
त एते पितरो देवा देवाश्च पितरस्तथा ।
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥४२॥
इति खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : July 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP