TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
सप्तचत्वारिंशोऽध्यायः

हरिवंश पर्व - सप्तचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सप्तचत्वारिंशोऽध्यायः
कालनेमिनः युद्धं एवं प्रभावम्

वैशम्पायन उवाच
दानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः ।
व्यवर्धत महातेजास्तपान्ते जलदो यथा ॥१॥
त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा तै दानवेश्वराः ।
उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् ॥२॥
ते वीतभयसंत्रासा मयतारपुरोगमाः ।
तारकामयसंग्रामे सततं जयकाङ्क्षिणः ।
रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः ॥३॥
अस्त्रमभ्यस्यतां तेषां व्यूहं च .परिधावताम् ।
प्रेक्षतां चाभवत् प्रीतिर्दानवं कालनेमिनम् ॥४॥
ये तु तत्र मयस्यासन् मुख्या युद्धपुरस्सराः ।
तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ॥५॥
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ।
विप्रचित्तिसुतः श्वेतः खरलम्बावुभावपि ॥६॥
अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च ।
स्वर्भानुश्चामरप्रख्यो वक्रयोधी महासुरः ॥७॥
एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः ।
दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् ॥८॥
ते गदाभिश्च गुर्वीभिञ्चक्रैश्च सपरश्वधैः ।
अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः ॥९॥
पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥१०॥
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः ॥११॥
दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः ।
सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च सायकैः ॥१२॥
वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ।
विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः ॥१३॥
ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः ।
कालनेमिं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥१४॥
सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः ।
द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे ॥१५॥
देवतानामपि चमू रुरुचे शक्रपालिता ।
दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा ॥१६॥
वायुवेगवती सौम्या तारागणपताकिनी ।
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥१७॥
यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता ।
सम्प्रदीप्ताग्निपवना नारायणपरायणा ॥१८॥
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।
रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥१९॥
तयोश्चम्वोस्तदा तत्र बभूव स समागमः ।
द्यावापृथिव्योः संयोगो यथा स्याद् युगपर्यये ॥२०॥
तद् युद्धमभवद् घोरं देवदानवसंकुलम् ।
क्षमापराक्रममयं दर्पस्य विनयस्य च ॥२१॥
निश्चक्रमुर्बलाभ्यां तु ताभ्यां भीमाः सुरासुराः ।
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः ॥२२॥
ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः ।
वनाभ्यां पर्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः ॥२३॥
समाजघ्नुस्ततो भेरीः शङ्खान् दध्मुश्च नैकशः ।
स शब्दो द्यां भुवं चैव दिशश्च समपूरयत् ॥२४॥
ज्याघाततलनिर्घोषो धनुषां कूजितानि च ।
दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान् ॥२५॥
तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः ॥२६॥
देवतास्त्वशनीर्घोराः परिघांश्चोत्तमायसान् ।
ससर्जुराजौ निस्त्रिंशान् गदा गुर्वीश्च दानवाः ॥२७॥
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।
परिपेतुर्भृशं केचिन्द्रब्जाः केचित् ससर्जिरे ॥२८॥
ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः ।
समीयुस्ते नु संरब्धा रोषादन्योन्यमाहवे ॥२९॥
संवर्तमानाः समरे विवर्तन्तस्तथापरे ।
रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः ॥३०॥
तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् ।
बभूवाथ प्रसक्तानां नभसीव पयोमुचाम् ॥३१॥
बभञ्जिरे रथान् केचित् केचित् सम्मृदिता रथैः ।
सम्बाधमेके सम्प्राप्य न शेकुश्चलितुं रथाः ॥३२॥
अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः ।
संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः ॥३३॥
अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि ।
क्षरज्जलानां सदृशा जलदानां समागमे ॥३४॥
तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।
देवदानवसंक्षुब्ध सकुलं युद्धमाबभौ ॥३५॥
तद् दानवमहामेघं देवायुधतडित्प्रभम् ।
अन्योन्यबाणवर्ष तद् युद्धं दुर्दिनमाबभौ ॥३६॥
एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः ।
व्यवर्द्धत समुद्रौघैः पूर्यमाण इवास्तुदः ॥३७॥
तस्य विद्युच्यला पीडाः प्रदीप्ताशनिवर्षिणः ।
गात्रे नगशिरः प्रख्या विनिष्पेषुर्बलाहकाः ॥३८॥
क्रोधान्निःश्वररतस्तस्य भ्रूभेदस्वेदवर्षिणः ।
साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः ॥३९॥
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः ।
पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः ॥४०॥
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव ॥४१॥
सोऽनिलोद्धूतवसनस्तस्थौ संग्राममूर्धनि ।
संध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः ॥४२॥
ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः ।
अपातयद् देवगणान् वज्रेणेव महागिरीन् ॥४३॥
बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवाः कालनेमिहता युधि ॥४४॥
मुष्टिभिर्निहताः केचित् केचिच्च विदलीकृताः ।
यक्षगन्धर्वपतयः पेतुः सह महोरगैः ॥४५॥
तेन वित्रासिता देवाः समरे कालनेमिना ।
न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः ॥४६॥
तेन शक्रः सहस्राक्षः स्तम्भितः शरबन्धनैः ।
ऐरावतगतः संख्ये चलितुं न शशाक ह ॥४७॥
निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः ।
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥४८॥
रणे वैश्रवणस्तेन परिघैः कालरूपिभिः ।
व्यलपल्लोकपालेशस्त्याजितो धनदक्रियाम् ॥४९॥
यमः सर्वहरस्तेन दण्डप्रहरणो रणे ।
याम्यामवस्थां समरे नीतः स्वां दिशमाविशत् ॥५०॥
स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् ।
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥५१॥
स नक्षत्रपथे गत्वा दिव्यं स्वर्भानुदर्शितम् ।
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत् ॥५२॥
चालयामासदीप्तांशुं स्वर्गद्वारात्स भास्करम् ।
सायनं चास्य विषयं जहार दिनकर्म च ॥५३॥
सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् ।
वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥५४॥
ससमुद्राः समानीय सर्वाश्च सरितो बलात् ।
चकारात्मवशे वीर्याद् देहभूताश्च सिन्धवः ॥५५॥
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।
स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥५६॥
स स्वयम्भूरिवाभाति महाभूतपतिर्महान् ।
सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥५७॥
स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् ।
पावकानिलसंघातो रराज युधि दानवः ॥५८॥
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवाप्यये ।
तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम् ॥५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः॥४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-12T13:30:47.7070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bond deposit method

  • बंधपत्र ठेव पद्धति 
  • बंध निक्षेप पद्धति 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.