संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|वेलानाम अष्टमो लम्बकः| जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च वेलानाम अष्टमो लम्बकः चन्द्रसाराख्यायिका जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च Translation - भाषांतर N/Aचन्द्रसारे प्रयातेऽथ संगते च मृगीदृशा । वत्सेश्वरात्मजो हृष्टस्तत्कथाविस्मयाकुलः ॥६१॥ दत्तां रुचिरदेवेन राजपुत्रीमवाप्तवान् । इद्याधराधिराज्याय पुरः सिद्धिमिवागताम् ॥६२॥ जिनेन्द्रसेनां संप्राप्य कन्याप्रिणयोत्सवे । तामेवारुह्य करिणीं प्रययौ नरवाहनः ॥६३॥ व्रजन्सर्वात्मना प्रपय मगधाधिपतेः पुरीम् । तेन संफूजितः प्रायात्कौशाम्बीं वल्लभासखः ॥६४॥ तत्र प्रणम्य वत्सेशं दृष्ट्वा मदनमञ्चुकाम् । ईर्षाकोपकषायाक्षीं प्रणामानतशेखरः ॥६५॥ रहः प्रसादयामास विलासहसितावधिम् । हटकण्ठग्रहानन्दमुकुलीकृतलोचनाम् ॥६६॥ तां सेवमानो लावण्यनदीं मदनमञ्चुकाम् । नरवाहनदत्तोऽभूदभिषिक्त इवामृतैः ॥६७॥ ततः कदाचित्प्रत्यूषे फुल्ले कमलकानने । संध्यारागारुणे व्योम्नि तत्प्रभाभिरिवावृते ॥६८॥ प्रभातवातनिःश्वासन्गाढं रक्तेंऽशुमालिनि । उदयाद्रिमिवारूढे वियुक्तां द्रष्टुमब्जिनीम् ॥६९॥ शुश्राव राजतनयस्तारमन्तःपुरान्तिके । अकाण्डे करुणारावं कीर्णशोकसशङ्कितः ॥७०॥ किमेतदिति पृष्टोऽथ वयस्यस्तेन गोमुखः । चिरादकथयद्भूमिं विलिखन्सास्रवीक्षितैः ॥७१॥ हृता सा केन भूतेन देवी मदनमञ्चुका । अदृष्टमूर्तिना रत्नपर्यङ्कोत्सङ्गशायिने ॥७२॥ श्रुत्वेति सुहृदो वाक्यं बभूव नरवाहनः । अवारितमहाशोकपूर्णनिःस्पन्दलोचनः ॥७३॥स कोपशोकसंरुद्धो निष्प्रतीकारविक्रियः ।हा प्रिये प्रेमसुभगे वचो देहीत्यभाषत ॥७४॥ अन्तःपुरे मदनमञ्चुकया वियुक्तो लीलाशुकेषु न ददौ स दृशं सबाष्पाम् । ये तत्प्रसादनकला प्रणये बभूवु - र्नर्मोक्तिभिर्विहितविभ्रमकेलिकारः ॥७५॥ इति जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च ॥२॥ इति श्रीक्षेमेन्द्रविरचिते बृहत्कथासारे वेलानामाष्टमो लम्बकः ॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP