TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चन्द्रसाराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


चन्द्रसाराख्यायिका
प्रथमो गुच्छः ।

हेतवे सर्वसिद्धीनां कल्मषक्षयकेतवे ।
भवाब्धिसेवते तुभ्यं नमोऽस्तु वृषकेतवे ॥१॥
ततः कदाचिदुद्याने विहरन्नरवाहनः ।
ददर्श राजतनयावश्विनाविव रूपिणै ॥२॥
तौ दृष्ट्वा निश्चलदृशा स्मयसंतोषनिर्भरः ।
कुतो युवामित्यपृच्छन्मुखेन्दुकृतचन्द्रिकौ ॥३॥
उवाचैकः प्रणम्याथ देव त्वां द्रष्टुमागतौ ।
आवां तुरङ्गकरिणीजवाधिक्यविवादतः ॥४॥
अस्ति वैशालिका नाम नगरी संपदां निधिः ।
नन्दनो नाम नृपतिस्तस्यामासीन्महायशाः ॥५॥
तस्य स्तस्तनयौ लक्ष्मीसंक्रान्तिमणिदर्पणौ ।
अहं रुचिरदेवाख्यः पोतश्चायं ममानुजः ॥६॥
कन्या जिनेन्द्रसेनाख्या स्वसा च मम सुन्दरी ।
प्रकाशितं रत्नदीपशिखयेव कुलं यया ॥७॥
अस्ति मे करिणी भद्रा केशिनी नाम विश्रुता ।
निर्मिता जवशिक्षायै मरुतामिव वेधसा ॥८॥
पोतस्याप्यस्ति तुरगो गरुत्मानिव रंहसा ।
जगत्प्रदक्षिणीकर्तुं जवो मूर्तिमिवाश्रितः ॥९॥
तद्वेगजातविजये पणबन्धः कृतो मिथः ।
आवाभ्यां देव तत्र त्वं प्रमाता भव सर्ववित् ॥१०॥
तदेह्यस्मत्पुरीं तावद्गच्छाम इति तद्गिरा ।
ययौ मनोरथजवं रथमारुह्य तत्परम् ॥११॥
तद्राजधानीमासाद्य कान्ताभिर्नयनोत्पलैः ।
अर्च्यमानः स्मरधिया तदन्तःपुरमाविशत् ॥१२॥
ताभ्यां स पूजितस्तत्र भ्जे रत्नासनं कृती ।
धाम्नां निधेरिवोदारमुदयाचलशेखरम् ॥१३॥
अथायातां सपर्यायै तत्खसारं ददर्श सः ।
जिनेन्द्रसेनामुन्निद्रचन्द्रबिम्बनिभाननाम् ॥१४॥
मुहुर्भङ्गाङनाकृष्टकेतकाग्रदलत्विषा ।
कुर्वाणां दृष्टिभङ्गेन कृष्णसारप्रभा दिशः ॥१५॥
लज्जावनतपक्ष्माग्रनेत्रांशुशबलस्तनीम् ।
भ्रमभ्द्रमरसंभारस्तबकामिव मञ्जरीम् ॥१६॥
पुरः प्राप्तां प्रणामाय रनन्नूपुरमेखलाम् ।
संचारिणीं कलरणत्कलहंसामिवाब्जिनीम् ॥१७॥
तां दृष्ट्वा पद्मवदनां विस्मितो नरवाहनः ।
हर्षमन्मथकम्पानां क्षणात्परिचितोऽभवत् ॥१८॥
तत्प्रणामाकुला सापि बभौ कर्णोत्पलच्युतैः ।
केसरैरिव तत्कालं संजातपुलकाङ्कुरैः ॥१९॥
स्थित्वा मुहूर्तं वचसा स तयो राजपुत्रयोः ।
सज्जीकृतां तां करिणीमश्वं च द्रष्टुमभ्यगात् ॥२०॥
विचार्य विपुले देशे तयोर्वाताधिकं जवम् ।
बबन्ध विजयोष्णीषं करिण्याः कुम्भमण्डले ॥२१॥
जिते वाजिनि दन्तिन्या पुररन्तःपुरं ययौ ।
प्रीत्या रुचिरदेवेन सेवितो नरवाहनः ॥२२॥
अत्रान्तरे वत्सराज विसृष्टो लेखहारकः ।
देव त्वामीहते द्रष्टुमित्याह नरवाहनम् ॥२३॥
श्रुत्वा रुचिरदेवस्तदुवाच रचिताञ्जलिः ।
देवं वत्सेश्वरो वेत्तु निजदासगृहे स्थितमम ॥२४॥
इत्युक्त्वा विरते तस्मिन्प्रस्थानाभिमुखे तथा ।
राजपुत्रे पितुर्भीत्या स्तिमितेव सभाभवत् ॥२५॥
सूचितोऽथ प्रतीहार्या प्रणामानतशेखरः ।
प्रविश्य चन्द्रसाराख्यः सार्थवाहस्तमभ्यधात् ॥२६॥
देव यात्राभिधे देशे बभूव धनदोपमः ।
वणिक्कुसुमसाराख्यस्तस्याहं वल्लभः सुतः ॥२७॥
अहं तदाज्ञया यातः कदाचिद्द्रविणार्जने ।
सार्धं सुवचनाख्येन सुहृदा सरितां पतिः ॥२८॥
तत्रोद्धतमहावातैः प्रतीपं तटमागते ।
मम प्रवहणे राज्ञा बद्धोऽहं धनवाञ्छया ॥२९॥
ततो महीधराख्येन परिज्ञाय कृपाजुषा ।
वणिजा कुलमित्रेण सेवितोऽहं नृपाज्ञया ॥३०॥
संमानितो भूमिभुजा तत्पुरे सुचिरं स्थितः ।
फुल्लवाललताजाले जाते मत्तालिकोकिले ॥३१॥
वणिजः शिखराख्यस्य पुत्रीं जैत्रीं विधुद्युतेः ।
अवश्यमहमुद्याने विलासललितेक्षणाम् ॥३२॥
तां दृष्ट्वा याचितोऽभ्येत्य ततस्तज्जनको मया ।  
प्राह मां स न ते चैषा दातुं मे युज्यते स्वयम् ॥३३॥
ज्ञानिना भिक्षुणा पूर्वमहमुक्तो हितैषिणा ।
देया मातामहे न एयं नानुकूला तवात्मजा ॥३४॥
इति तेन निषिद्धोऽहं न ददामि सुतां स्वयम् ।
अद्यैव प्राहिणोम्येनां मातामहगृहे सखे ॥३५॥
अब्धिना सिंहलद्वीपं तं देशं त्वमपि व्रजः ।
इत्युक्त्वा विससर्जाशु पुत्रीं प्रवहणेन सः ॥३६॥
ततो बलवता तस्याः कर्णमेव नभस्वता ।
अभज्यत प्रवहणं तद्विवेद च तत्पिता ॥३७॥
पुत्रीवियोगदुःखार्ते तस्मिन्बन्धुजनैः शनैः ।
आश्वासिते तद्विरहादभवच्छोककर्शिथ ॥३८॥
ततः सह वयस्येन सिंहलद्वीपगं क्षणात् ।
आरुह्याहं प्रवहणं प्रस्थितो दक्षिणां दिशम् ॥३९॥
अथ प्रवहणे भग्ने ममापि मकराकरे ।
अहं च फलसासक्तः प्राप्तो वेलावनावनिम् ॥४०॥
तत्र भ्रान्तश्चिरं प्राप्य मतङ्गाश्रमकाननम् ।
कन्यां शिवार्चनरतामपश्यं तटिनीतटे ॥४१॥
नवतामिव कामस्य यौवनस्येव दृप्तताम् ।
पूर्णतामिव चन्द्रस्य रूपस्येव विचित्रताम् ॥४२॥
तां दृष्ट्वा विस्मयजुषा तत्प्रविश्य तपोवनम् ।
दृष्ट्वा मया मतङ्गस्य तनया वृद्धकन्यका ॥४३॥
यमुना न आम मां प्राह भाषा चित्रसरस्वती ।
दन्तांशुभिः प्रोद्गिरन्ती मूर्तं पुण्यमिवोज्ज्वलम् ॥४४॥
भग्ने प्रवहणे पुत्र मतङ्गमुनिना स्वयम् ।
प्राप्तैषा वणिजः पुत्री शिखराख्यस्य सुन्दरी ॥४५॥
सुतेव पालितास्माभिः शिवार्चनरता सदा ।
समुद्रवेलालब्धेयमिह वेलेति विश्रुता ॥४६॥
इति श्रुत्वा परिज्ञाता सा मया चारुहासिनी ।
हर्शवेलास्मरारम्भविलोलतनुवल्लरी ॥४७॥
ततो दिव्यदृशा ज्ञात्वा मुनिपुत्री पुनः स्थितम् ।
प्राह मां पूर्वभार्येयं तव पुत्र सुलोचना ॥४८॥
इत्युक्त्वा विततारासौ तां मह्यं स्वसुतामिव ।
तामहं प्रपय दयितामश्रौषं मुनिभाषितम् ॥४९॥
इयं विद्याधरी पूर्वं जलकेलिविलासिनी ।
मुनिनान्तर्जलस्थेन शप्ता मर्त्यपदं गता ॥५०॥
आदिष्टं चापि योगोऽस्यास्त्वया सह सुदुःसहः ।
उत्कस्तेनैव दुःखान्तो नरवाहनदर्शनम् ॥५१॥
वैशालिके पुरवरे तुरङ्गकरिणीजवम् ।
यो ब्रवीति स विज्ञेयो भाविविद्याधरेश्वरः ॥५२॥
जन्मान्तरे तवाप्यस्ति शिवार्चा पुष्पहारिणः ।
किल्बिषं तत्तमेवाशु दृष्ट्वा सर्वं विनङ्क्ष्यति ॥५३॥
इति श्रुत्वा ततो लग्ने तां प्राप्य हरिणेक्षणाम् ।
प्रस्थितः स्वपुरीं वेलातटं प्राप्तो महोदधेः ॥५४॥
तत्रारोप्य प्रियां नावं य आवदस्मि समुद्यतः ।
तावत्सा कर्मयोगेन हृता नौर्मे महानिलैः ॥५५॥
ततो वियोगसंतप्तः प्रलापमुखरान् ।
दिवापि तिमिराक्रान्तामिव भ्रान्तोऽस्मि मेदिनीम् ॥५६॥
स च प्रवहनभ्रष्टः प्राप्तः पथि यदृच्छया ।
ततो विरहदग्धेन मया सुवचनः सुहृत् ॥५७॥
स मां प्रतापिनं प्राह दृष्टास्माभिस्तव प्रिया ।
समुद्रतीरे शोचन्ती स्फुटं तु न विभाषिता ॥५८॥
इति मित्रवचः श्रुत्वा प्राप्तोऽहं भवदन्तिकम् ।
त्वद्दर्शनावधिः शापो मुनिनाभिहितो यतः ॥५९॥
अधुना क्षीणशापोऽहं द्रष्टुमिचामि तां प्रियाम् ।
उक्त्वेति सार्थपः प्रायात्प्रणम्य नरवाहनम् ॥६०॥
इति चन्द्रसाराख्यायिका ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-12T20:39:25.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dibasic

  • Chem. द्विआम्लारिधर्मी 
  • द्विक्षारकीय 
  • द्विप्रोटॉनांकी, द्विआम्लारिअंकी 
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site