TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मालतीमाधवम् - प्रथमोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


प्रथमोऽङ्कः ।
चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो
विद्युत्प्रायललाटलोचनशिखिज्वालाविमिश्रत्विषः ।
पान्तु त्वामकठोरकेतकशिखासंद्ग्धमुग्धेन्दवो
भूतेशस्य भुजङ्गवल्लिवलयस्रङ्ग्द्धजूटा जटाः ॥१॥
एतच्च ।
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि -
त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाचि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे -
र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥२॥
अपि च ।
दन्तश्रेणिषु संकलत्कलकलव्यावर्तनव्याकुला
नासालोचनकर्णकुञ्जकुहरेषूद्गद्गदध्वानिनः ।
गण्डग्रन्थ्यभिघातशीर्णकणिकाश्चूडास्रवन्त्यूर्मयः
शंभोर्बह्मकपालकंदरपरिस्पन्दोल्बणाः पान्तु वः ॥३॥
अन्यच्च ।
पक्षालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगलितसुधासारशात्कारिकोणं
तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥४॥
( नान्द्यन्ते । )
सूत्रधार :- अलमलम् । उदितभूयिष्ठ एव भगवानशेषभुवनद्वीपदीपः । तदुपतिष्ठे । (  प्रणम्य । )
कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते
धुर्यां लक्ष्मीमिह मयि भृशं घेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
भद्रं भद्र वितर भगवन्भूयसे मङ्गलाय ॥५॥
( नेपथ्याभिमुखमवलोक्य । ) मारिष, सुविहितानि रङ्गमङ्गलानि । संनिपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्तवास्तव्यो जनः । तत्किमित्युदासते भरताः । आदिष्टोऽस्मि विद्वत्परिषदा यथा - अद्य त्वयाऽपूर्ववस्तुप्रयोगेण वयं विनोदयितव्या इति । तत्परिषदं निर्दिष्टगुणप्रबन्धेनोपतिष्ठावः ।
नट :- ( प्रविश्य । ) भाव, कतमे ते गु णा यानुदाहरन्त्यार्यमिश्रा भगवन्तो भूमिदेवाः ।
सूत्रधार :- भूम्ना रसानां गहनाः प्रयोगाः
सौहार्दहृद्यानि विचेष्टितानि ।
औद्धत्यमायोजितकामसूत्रं
चित्राः कथा वाचि विदग्धता च ॥६॥
नट :- भाव, कस्मिन्प्रकरणे ।
सूत्रधार :- ( विचिन्त्य । ) स्मृतम् । अस्ति दक्षिणापथे पद्मपुरं नाम नगरम् । तत्र ब्राह्मणाः केचित्तैत्तिरीयाः पङ्क्तिपावनाः काश्यपाः पञ्चाग्नयः सोमपीथिनो धृतव्रता उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति ।
ते श्रोत्रियास्तत्त्वविनिश्चयाय
भूरिश्रुतं शाह्स्वतमाद्रियन्ते ।
इष्टाय पूर्ताय च कर्मणेऽर्था -
न्दारनपत्याय तपोर्थमायुः ॥७॥
तदामुष्यायणस्य तत्रभवतो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नीलकण्ठस्य पुत्रः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम कविर्निसर्गसौहृदेन भरतेषु वर्तमानः स्वकृतिमेवंगुणभूयसीमस्माकं हस्ते समर्पितवान् । यत्र खल्वियं वाचोयुक्तिः ।
ये नाम केचिदिह नः प्रथमन्त्यवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यत्नः ।
उत्पत्स्यते मम तु कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥८॥
तदुच्यन्तां तत्प्रख्यापनाय सवें कुशीलवा यथा - स्वसंगीतकप्रयोगे वर्णिकापरिग्रहे च त्वर्यतामिति । कविवर्णनां प्रति तेनैवमुक्तम् ।
गुणैः सतां न मम को गुणः प्रख्यापितो भवेत् ।
यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥९॥
अपि च ।
यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च
ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके ।
यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवं
तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥१०॥
नट :- तावद्भूमिकास्तथैव भावेन सर्वे वर्ग्याः पाठिताः । सौगतजरत्प्रव्राजिकायाः कामन्दक्यास्तु प्रथमां भूमिकां भव एक एवाधीते । तदन्तेवासिन्यास्त्वहमवलोकितायाः ।
सूत्रधार :- ततः किम् ।
नट :- प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरिग्रहः कथम् ।
सूत्रधार :- कलहंसमकरन्दयोः प्रवेशावसरे तत्सुविहितम् ।
नट :- तेन हि तत्प्रबन्धप्रयोगादेवात्रभवतः सामाजिकानुपास्महे ।
सूत्रधार :- बाढम् । एषोऽस्मि कामन्दकी संवृत्तः ।
नट :- अहमप्यवलोकिता ।
( इति निष्क्रान्तौ । )
प्रस्तावना ।

---------------------------------

( परिवृत्य रक्तपटिकानेपथ्य उभावुपविष्टौ प्रविशतः । )
कामन्दकी - वत्से अवलोकिते ।
अवलोकिता - आणवेदु भअवदी ।
कामन्दकी - अपि नाम कल्याणिनोर्भूरिवसुदेवरातापत्ययोरनयोर्मालतीमाधवयोरभिमतं पाणिग्रहमङ्गलं स्यात् । (  सहर्षं वामाक्षिस्पन्दनं सूचयित्वा । )
विवृण्वतेव कल्याणमान्तरज्ञेन चक्षुषा ।
स्फुरता वामकेनापि दाक्षिण्यमवलम्ब्यते ॥११॥
अवलोकिता - महन्तो क्खु एसो भअवदीए चित्तावक्खेओ । अच्चरिअं अच्चरिअम् । जं दाणिं चीरचीवरमेत्तपरिच्छदं पिण्डपाअमेत्तपाणउत्तिं वि भववदीं ईरिसेसु आआसेतु अमच्चभूरिवसू णिओएदि । तस्सिं उक्खण्डिअसंसारावग्गहो तुम्हेहिं वि अप्पा णिक्खिविअदि ।
कामन्दकी :- वत्से, मा मैवम् ।
यन्मां विधेयविषये स भवान्नियुङ्क्ते
स्नेहस्य तत्फलमसौ प्रणयस्य सारः ।
प्राणैस्तपोभिरथवाभिमतं मदीयैः
कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥१२॥
किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहचर्यमासीत्तदैवास्मत्सौदामिनीसमक्षम्मनयोर्भूरिवसुदेवरातयोः प्रवृत्तेयं प्रतिज्ञा अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति । तदिदानीं विदर्भराजस्य मन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय कुण्डिनपुरादिमां पद्मावतीं प्रहिण्वता सुविहितम् ।
अपत्यसंबन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिः च ।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ॥१३॥
अवलोकिता - किंति मालदिं अमच्चो माहवस्स अप्पणा ण प्पडिवादेह । जेण चोरिअमिधाहे भअवदीं तुवरावेदि ।
कामन्दकी -
तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन ।
तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥१४॥
अवलोकिता - अच्चरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि ।
कामन्दकी - वत्से, संवरणं तत् ।
विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः ।
तेन माधवमालत्योः कार्यः खमतिनिह्नवः ॥१५॥
अपि च -
अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः ।
श्रेयो ह्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥१६॥
पश्य ।
बहिः सर्वाकारप्रवनामणीयं व्यवहर -
न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वानेकः सकलमतिसंधाय कपटै -
स्तटस्थः खानर्थान्घटयति च मौनं च भजते ॥१७॥
अवलोकिता - मए वि तुम्ह वअणादो तेण तेणोवण्णासेण भूरिवसुमन्दिरासण्णतरराअमग्गेण माहवो सञ्चारिअदि ।
कामन्दकी - कथितमेव नो मालतीधात्रेय्या लवङ्गिकया ।
भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं य -
द्गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति ॥१८॥
अवलोकिता - बाढम् । तदो ताए उव्वेअविणोअणं माहवपडिच्छन्दअं अभिलिहिअं लवङ्गिआए मन्दारिआहत्थे अज्ज णिक्खित्तं दाव ।
कामन्दकी - ( विचिन्त्य । ) सुविहितं लवङ्गिकया । माधवानुचरः कलहंसो नाम विहारदासीं मन्दारिकां कामयते । तदनेन तीर्थेन तत्प्रतिच्छन्दकमुपोद्धाताय माधवान्तिकमुपेयादित्यभिप्रायः ।
अवलोकिता - माहवो वि कोऊहलं उप्पादिअ मए पउत्तमअणमहूसवं मअणुज्जाणं पहादे अणुप्पेसिदो । तत्थ किल मालदी गमिस्सदि । तदो अण्णोण्णदंसणं होदित्ति ।
कामन्दकी - साधु वत्से, साधु । अनेन मत्प्रियाभियोगेन स्मारयसि मम पूर्वशिष्यां सौदामिनीम् ।
अवलोकिता - भअवदि, सा दाणिं सोदामिणी समासादिअअच्चरिअमन्तसिद्धिप्पहावा सिरिपव्वदे कावालिअव्वदं धारेदि ।
कामन्दकी - कुतः पुनरियं वार्ता ।
अवलोकिता - अत्थि एत्थ णअरीए महामसानप्पदेसे कराला नाम चामुण्डा ।
कामन्दकी - अस्ति । या किल इविधजीवोपहारप्रियेति साहसिकानां प्रवादः ।
अवलोकिता - तस्सिं क्खु सिरिपव्वदादो आअदस्स इदो णादिदूरमसाणवासिणो साधअस्स मुण्डधारिणो अघोरघण्टणामहेअस्स अन्देवासिणी महाप्पहावा कवालकुण्डला णाम अणुसंझं आअच्छइ । तदो इअं पउत्ति ।
कामन्दकी - सर्व हि सौदामिन्यां संभाव्यते ।
अवलोकिता - अलं दाव एदिणा । भअवदि, सो वि पासअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणिं मदअन्निआं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि ।
कामन्दकी - नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता ।
अवलोकिता - सुविहिदं भअवदीए ।
कामन्दकी - तदुत्तिष्ठ । माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः ।
( इत्युत्तिष्ठतः । )
कामन्दकी - ( विचिन्त्य । ) अत्युदारप्रकृतिर्मालती नाम । निपुणं निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा
शरज्ज्योत्स्ना कान्त कुमुदमिव तं नन्दयतु सा
सुजातं कल्याणी भवतु कृतकृत्यः स च युवा ।
गरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो
विधातुर्ब्यापारः फलतु च मनोज्ञश्च भवतु ॥१९॥
( इति निष्कान्ते । )
( ततः प्रविशति गृहीतचित्रफलकोपकरणः कलहंसः । )
कलहंस :- कहिं दाणिं तुलिअमअरद्धआवलेवरूवविब्भमाक्खित्तमालदीहिअअमाहप्पं णाहं माहवं पेक्खिस्सं । ( परिक्रम्य । ) परिस्सन्तो म्हि । जाव इव उज्जाणे मुहुत्तं विस्समिअ मअरन्दसहअरं णाहं माहवं पेक्खिस्सं । (  प्रविश्य उपविशति । )
( ततः प्रविशति मकरन्दः । )
मकरन्द :- कथितमवलोकितया मदनोद्यानं गतो माधव इति । भवतु । गचछामि । ( परिक्रम्यावलोक्य च । ) दिष्ट्या वयस्य इत एवाभिवर्तते । ( निरूप्य । ) अस्य तु
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं
श्वसितमधिकं किं न्वेतत्स्यात्किमन्यदतोऽथवा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥२०॥
( ततः प्रविशति यथानिर्दिष्टरूपो माधवः । )
माधव :-
तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य
चेतः कथकथमपि व्यपवर्तते मे ।
लज्जां विजित्य विनयं विनिवार्य धैर्य -
मुन्मथ्य मन्थरविवेकमकाण्ड एव ॥२१॥
आश्चर्यम् ।
यद्विस्मयस्तिमितमस्तमितान्यभाव -
मानन्दमन्दममृतप्लवनादिवासीत् ।
तत्संनिधौ तदधुना हृदयं मदीय -
मङ्गारचुम्बितमिव व्यथमानमास्ते ॥२२॥
मकरन्द :- ( उपसृत्य । ) सखे माधव, इत इतः ललाटंतपस्तपति धर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । ( उभौ परिक्रामतः । )
कलहंस :- कहं मअरन्दसहअरो इमं एव्व बालुज्जाणं अलंकरेदि माहवो । ता दंसिमि मअणवेअणाक्खिज्जमाणमालदीलोअणसुहावहं अत्तणो से पडिच्छन्दअं । अहवा विस्सामसोक्खं दाव अणुहोदु ।
मकरन्द :- तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामोदवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः ।
( उभौ तथा कुरुतः । )
मकरन्द :- वयस्य माधव, सकलनाराङ्गनाप्रवर्तितमहोत्सवाभिरामकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि । अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् ।
( माधवः सलज्जमधोमुखस्तिष्ठति । )
मकरन्द :- ( विहस्य । ) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि । पश्य ।
अन्येषु जन्तुषु च यस्तमसावृतेषु
विश्वस्य धातरि समः परमेश्वरेऽपि ।
सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा
मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥२३॥
माधव :- वयस्य, किं न कथयामि । श्रूतयाम् । गतोऽ‍हमवलोकिताजनितकौतुकः कामदेवायतनम् । इतस्ततः परिक्रम्य परिश्रमादुल्लसितमधुरमदिरामोदपरिमलाकृष्टसकलमिलदलिपटलसंकुलाकुलितमुकुलावलीमनोहराभरणस्य रमणीयाङ्गणभुवो बालबकुलस्यालवालपरिसरे स्थितः । तस्य च यदृच्छया निरन्तरनिपतितानि विकसितानि कुसुमान्यादाय विदग्धरचनामनोहरां स्रजमभिनिर्मातुमारब्धवान् । अनन्तरं च देवस्य संचारिणी मकरकेतनस्य जगद्विजयवैजयन्तिका निर्गत्य गर्भभवनादुज्ज्वलविदग्धमुग्धबालनेपथ्यविरचनाविभावितकुमारीभावा महानुभावप्रकृतिरत्युदारपरिजना कापि तत एवागतवती ।
सा रामणीयकनिधेरधिदेवता वा
सौन्दर्यसारसमुदायनिकेतनं वा ।
तस्याः सखे नियतमिन्दुकलामृणाल -
ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥२४॥
अथ प्रणयिनीभिरनुचरीभिः । कुसुमसंचयावचयलीलाभिलाषवतीभिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चिदपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथाविकारमुपलक्षितवानस्मि । यतः -
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी -
मभिनवकरिदन्तच्छेदकान्त कपोलः ॥२५॥
सा मम दर्शनात्प्रभृत्यमृतवर्तिरिव चक्षुषोर्निरतिशयमानन्दमुत्पादयन्त्ययस्कान्तमणिशलाकेव लोहधातुमन्तःकरणमुपसंहृतवती । किं बहुना ।
संतापसंततिमहाव्यसनाय तस्या -
मासक्तमेतदनपेक्षितहेतु चेतः ।
प्रायः शुभं च विदधात्यशुभं च जन्तोः
सर्वकषा भगवती भवितव्यतैव ॥२६॥
मकरन्द :- स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु -
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥२७॥
ततस्ततः ।
माधव :- ततश्च तत्र
सभ्रूविलासमथ सोऽयमितीव नाम
सप्रत्यभिज्ञमिव मामवलोक्य तस्याः ।
अन्योन्यमेव चतुरेण सखीजनेन
मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥२८॥
मकरन्द :- ( स्वगतम् । ) कथं प्रत्यभिज्ञापि नाम ।
माधव :- अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयावलीकमुत्त्रस्तकलहंसविभ्रमाभिरामचरणसंचरणरणरणायमानमञ्जुमञजीररणितानुविद्धमेखलाकलापकिङ्किणीरणरणत्कारमुखरं प्रतिनिवृत्त्य ‘ भर्तृदारिके, दिष्ट्या वर्धामहे । यदत्रैव कोऽपि कस्या अपि वल्लभस्तिष्ठति ’ इति मामङ्गुलीदलविलासेनाख्यातवत्यः ।
मकरन्द :- हन्त, महतः प्रथमानुरागस्योद्भेदः ।
कलहंस :- एदाणं सरसरमणिज्जाणुबन्धिणी क्खु इत्थिआकहा ।
मकरन्द :- ततस्ततः ।
माधव :- अत्रान्तरे किमपि वाग्विभवातिवृत्त -
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्य -
माचार्यकं विजयि मान्मथमाविरासीत् ॥२९॥
ततश्च ।
स्तिमितविकसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयनविपाते किंचिदाकुञ्चितानां
विविधमहमभूवं पात्रमालोकितानाम् ॥३०॥
ततश्च ।
अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै -
रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै -
रपहृतमपविद्धं पीतमुन्मूलितं च ॥३१॥
अहं तु तस्याः सर्वाकारहृदयंगमायाः संभाव्यमानस्नेहरसेन संनिधिना विधेयीकृतोऽपि पारिप्लवत्वमात्मनो निह्नोतुकामः प्राक्प्रस्तुतस्य बकुलपुष्पदाम्नो यथाकथंचिदवशेषं ग्रथितवानेव । ततो मिलितवेत्रपाणिवर्षवरप्रायपुरुषपरिवारा गजवधूमारुह्य नगरगामिनं मार्गमिन्दुवदनालंकृतवती ।
यान्त्या मुहुर्वलितकंधरमाननं त -
दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदय कटाक्षः ॥३२॥
ततःप्रभृति
परिछेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च तनुते ॥३३॥
अपि च ।
परिच्छेदव्यक्तिर्न भवति पुरःस्थेऽपि विषये
भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरसम् ।
न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा
मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च ॥३४॥
कलहंस :- दिढं क्खु एसो कए वि अज्ज अवहरिदो । अवि णाम मालदी एव्व सा हवे ।
मकरन्द :- ( स्वगतम् । ) अहो अभिषङ्गः । तत्किं निषेधयामि प्रैयसुहृदम् । अथवा ।
मा मूमुहत्खलु भवन्तमनन्यजन्मा
मा ते मलीमसविकारघना मतिर्भूत् ।
इत्यादि नन्विह निरर्थकमेव यस्मि -
न्कामश्च जृम्भितगुणो नवयौवनं च ॥३५॥
( प्रकाशम् । ) वयस्य, अपि विदिते तदन्वयनामनी ।
मकरन्द :- ( स्वगतम् । ) अमात्यभूरिवसोरात्मजेत्यपर्याप्तिर्बहुमानस्य । अपि च । मालती मालतीति मोदते भगवती कामन्दकी । तां च राजा नन्दनाय याचत इति किंवदन्ती श्रूयते । ( प्रकाशम् । ) ततः ।
माधव :- तया चानुबध्यमानस्तां बकुलमालामात्मनः कण्ठादवतार्य दत्तवान् । असौ पुनरभिनिविष्टया दृशा मालतीमुखावलोकनविहस्ततया विषमरचितैकभागामपि तामेव मुहुर्मुहुर्बहुमन्यमाना महानयं प्रसाद इति प्रतिगृहीतवती । अनन्तरं च यात्राभङ्गप्रचलितस्य महतः पौरनैगमजनस्य संकुलेन विघटितायां तस्यामागतोऽस्मि ।
मकरन्द :- वयस्य, मालत्या अपि स्नेहदर्शनात्सुश्लिष्टमेतत् । यो हि कपोलपाण्डुतादिचिह्नः सूचितः प्रागनुरागस्तस्याः कामाभिषङ्गः सोऽपि त्वनिबन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क्क दृष्टपूर्वस्तया वयस्य इति । न खलु तादृश्यो महाभागधेयजन्मानोऽन्यत्रासक्तचेतसो भूत्वा परत्र चक्षूरागिण्यो भवन्ति । अपि च ।
अन्योन्यसंभिन्नदृशां सखीनां
तस्यास्त्वयि प्रागनुरागचिह्नम् ।
कस्यापि कोऽपीति निवेदितं च
माधव :- किं चान्यत् ।
मकरन्द :- धात्रेयिकायाश्चतुरं वचश्च ॥३६॥
कलहंस :- ( उपसृत्य । ) एदं अ । ( चित्रं दर्शयति । )
( उभौ पश्यतः । )
मकरन्द :- कलहंसक, केनेदं माधवस्य रूपमभिलिखितम् ।
कलहंस :- जेण एव्व से हिअअं अवहरिदं ।
मकरन्द :- अपि नाम मालत्या ।
कलहंस :- अह इं ।
माधव :- वयस्य मकरन्द, प्रसन्नप्रायस्ते तर्कः ।
मकरन्द :- कुतोऽस्याधिगमस्ते ।
कलहंस :- मह दाव मन्दारिआहत्थादो । तए वि लवङ्गिआसआसादो ।
मकरन्द :- कथय किमाह मन्दारिका माधवालेख्यप्रयोजनं मालत्याः ।
कलहंस :- उक्कण्ठाविणोअणं त्ति ।
मकरन्द :- वयस्य, समाश्वसिहि ।
या कौमुदी नयनयोर्भवतः सुजन्मा
तस्या भवानपि मनोरथबन्धबन्धुः ।
तत्संगमं प्रति सखें न हि संशयोऽस्ति
यस्मिन्विधिश्च मदनश्च कृताभियोगः ॥३७॥
द्रष्टव्यरूपा च भवतो विकारहेतुस्तदत्रैवालिख्यताम् ।
माधव :- यदभिरुचितं वयस्याय । ( लिखन् । ) सखे मकरन्द,
वारंवारं तिरयति दृशावद्गतो बाष्पपूर -
स्तत्संकल्पोपहितजडिमस्तम्भवभ्येति गात्रम् ।
सद्यःखिद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः
पाणिर्लेखाविधिषु निरतां वर्तते किं करोमि ॥३८॥
तथाप्यवहितोऽस्मि । ( चिरादभिलिख्य दर्शयति । )
मकरन्द :- ( चित्रं निर्वर्ण्य । ) उपपन्नस्तावदत्रभवतोऽभिषङ्गः ।
( सकौतुकम् । ) कथमचिरेणैव निर्माय लिखितः श्लोकः । ( वाचयति । )
जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्यें मनो मदयन्ति ये ।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥३९॥
( प्रविश्य । )
मन्दारिका - कलहंस कलहंस, चोर चोर, पआणुसारेण लद्धोसि । (  सलज्जम् । ) कहं दे वि महाणुहावा एत्थ एव्व । ( उपसृत्य । ) पणमामि ।
उभौ - मन्दारिकेम इत आगम्यताम् ।
मन्दारिका - कलहंसक, उवणेहि चित्तफलअं ।
कलहंस :- गिण्ह इमं ।
मन्दारिका - केन किंणिमित्तं वा एत्थ मालदी अहिलिहिदा ।
कलहंस :- जो एव्व जंणिमित्तं मालदीए ।
मन्दारिका - ( सहर्षम् । ) दट्ठिआ उवदंसिदफलं विण्णाणं पआवइणो ।
मकरन्द :- सखि मन्दारिके, यदत्र वस्तुन्येष ते वल्लभः कथयति, अपि तत्तथा ।
मन्दारिका - महाभाअ, तत्तहा ।
मकरन्द :- क्क पुनर्मालती माधवं प्राग्दृष्टवती ।
मन्दारिका - लवङ्गिआ भणादि वादाअणगदेति ।
मकरन्द :- नन्वमात्यभवनासन्नरथ्यैव बहुशः संचरावहे । तदुपपन्नमेतत् ।
मन्दारिका - अणुमण्णादु महाभाओ । जाव एदं भअवदो देवस्स मअणस्स सुचरिअं पिअसहीए लवङ्गिआए णिवेदिस्सामि ।
मकरन्द :- प्राप्तावसरमेतद्भवत्याः ।
( उत्थाय परिक्रामतः । )
मकरन्द :- वयस्य, मध्याह्नोऽतिवर्तते । तदेहि । संस्त्यानमेव प्रविशावः ।
( उत्थाय परिक्रामतः । )
माधव :- एवं हि मन्ये ।
धर्माम्भोविसरविवर्तनैरिदानीं
मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् ।
तत्प्रातर्विहितविचित्रपत्ररेखा -
वैदग्ध्यं जहति कपोलकुङ्कुमानि ॥४०॥
अपि च ।
उन्मीलन्मुकुलकरालकुन्दकोश -
प्रच्योतद्धनमकरन्दगन्धबन्धो ।
तामीषत्प्रचलविलोचनां नताङ्गी -
मालिङ्गन्पवन मम स्पृशाङ्गमङ्गम् ॥४१॥
मकरन्द :- ( स्वगतम् । )
अभिहन्ति हन्त कथमेष माधवं
सुकुमारकायमनवग्रहः स्मरः ।
अचिरेण वैकृतविवर्तदारुणः
कलभं कठोर इव कूटपाकलः ॥४२॥
तदत्रभवती कामन्दकी नः शरणम् ।
माधव :- ( स्वगतम् । )
पश्यामि तामित इतः पुरतश पश्चा -
दन्तर्बहिः परित एव विवर्तमानाम् ।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती -
मासङ्गतिर्यगपवर्तितदृष्टिवक्त्रम् ॥४३॥
( प्रकाशम् । ) वयस्य, मम हि संप्रति
प्रसरति परिमाथी कोऽप्ययं देहदाह -
स्तिरयति करणानां ग्राहकत्वं प्रमोहः ।
रणरणकविवृद्धिं बिभ्रदावर्तमानं
ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते ॥४४॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे प्रथमोऽङ्कः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-06-21T21:07:44.9300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अवजणें

  • अ.क्रि. ( व . ) उपयुक्त होणें ; बनणें ; चालणें ; उपयोगी पडणें . आईचा हात अवजत नाही आजच्या दिवस . आमच्या हातचें अन्न त्याला अवजत नाही म्हणून तो स्वत : स्वयंपाक करतो . [ सं . आ + वज = जाणें , हालणें ; गो . वचणें = जाणें ] 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site