सुंदरकांडम् - काव्य ४०१ ते ४५०

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


लंकां निर्भ य चेताः स भवनाद्भवनं व्रजन्
ददाह रुद्रप्रहितः शरो दैत्यपुरीमिव. ॥४०१॥
तृणैधसां रा शिशतैर्यथा वह्निर्न तृप्यति
तथेषदपि नो तृप्तः कृते रक्षोवधे कपिः. ॥४०२॥
लंकां सर्वां म हातेजा दग्ध्वा लांगूलपावकम्
निर्वापयामास तदा समुद्रे हरिपुंगवः. ॥४०३॥
लंकां दग्ध्वा श्री हनुमान् पश्चात्तप्तोऽभवत्तदा
आत्मानं गर्हयन्नेवं चिंतयामास दुःखितः. ॥४०४॥
‘ धिगस्तु मां रा घवस्य प्रियां विस्मृत्य पावकः
उद्दीपितोऽत्र लंकायां, दग्धा नूनं तपस्विनी. ॥४०५॥
कार्यनाशो म हानद्य क्रुद्धेनायं मया कृतः
धन्या विवेकिनः संतो हंत ! सत्यमहं कपिः. ॥४०६॥
नूनं देवी ज नकजा सा दग्धा लंकया सह
हा ! मया दहता लंकां न सीता परिरक्षिता. ॥४०७॥
यदर्थम य मारंभस्तत्कार्यमवसादितम्
लंकायाः कश्चिदुद्देशो न ह्यदग्धः प्रदृश्यते. ॥४०८॥
धिग्धिग्भावं रा जसं मे कार्यसर्वस्वघातिना
कथं शक्यो मया द्रष्टुं रामः स च हरीश्वरः ? ’ ॥४०९॥  
निमित्तानि म हा बुद्धिर्दृष्ट्वा शुभफलानि सः
किंचित्स्वस्थो वातसूनुस्ततः पुनरचिंतयत् ॥४१०॥
‘ अथवा त ज सा स्वेन रक्षिता जनकात्मजा
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते. ॥४११॥
धर्मात्मा प्र य तो रामः प्रियां तस्यातितेजसः
स्वचरित्राभिगुप्तां न स्प्रष्टुमर्हति पावकः ॥४१२॥
नूनं धनं ज यो रामप्रभावेनाद्य मां कपिम्
सुकृतेन च सीताया नादकत्किमु तां सतीम् ? ॥४१३॥
एवं चिंत य ता तेन चारणानां महात्मनाम्
आत्मानं स्तुवतां वाक्यं श्रुतमंबरचारिणाम्. ॥४१४॥
‘ अहो ! समी रा त्मजेन साट्टप्राकारतोरणा !
लंका दग्धा न सीतेति विस्मयोऽद्भुत एव नः. ’ ॥४१५॥
तत्सुधोप म माकर्ण्य वाक्यं स पवनात्मजः
जगाम यत्र सा देवी नत्वा तामब्रवीन्मुदा. ॥४१६॥
‘ दिष्ट्याऽक्षतां श्री मति ! त्वां पश्यामि जनकात्मजे !
अयमागत एवाहं रामसुग्रीवलक्ष्मणैः ’ ॥४१७॥
इति सीतां रा जसुतां समाश्वास्य मरुत्सुतः
नत्वा पृष्ट्वा पुनः क्षिप्रं निर्जगाम मनोगतिः. ॥४१८॥
ततो गिरि म रिष्टाख्यमारुह्योत्प्लुत्य खं गतः
तद्भारपीडितो भूमौ निमग्नः स महानगः ॥४१९॥
तं मैनाकं ज लनिधौ स्पृष्ट्वा तार्क्ष्यगतिः कपिः
आगच्छन् दूरतो दृष्ट्वा महेंद्रमकरोत् ध्वनिम्. ॥४२०॥
श्रुत्वांजने य निनदं जांबवानब्रवीत्कर्पान्,
‘ सर्वथा कृतकार्योऽयमस्य नादो हि तादृशः. ’ ॥४२१॥
ते कीशवी रा वृक्षाग्राद्वृक्षाग्राणि तमागतम्
शिखराच्छिखराग्राणि हृष्टा जग्मुर्दिदृक्षवः. ॥४२२॥
गिरेस्ततो म हेंद्रस्य शिखरे पादपाकुले
पपात नभसश्छिन्नपक्षोऽद्रिरिव मारुतिः. ॥४२३॥
प्लवंगकुं ज राः सर्वे परिवार्योपतस्थिरे
वृद्धान्नत्वांगदं चाथ ‘ दृष्टा सीते ’ ति सोऽब्रवीत्. ॥४२४॥
आदायोपा य नान्यार्या मूलानि च फलानि च
पूजां चक्रुर्मरुत्सूनोर्जाबवत्प्रमुखा मुद्रा. ॥४२५॥
सविस्तरं ज गत्प्राणतनयो वृत्तमादितः
कथयामास स श्रीमान् धीमान् हीमान् पराक्रमी. ॥४२६॥
अंगदाद य उत्कृष्टप्रतापं वातनंदनम्
तुष्टुबुर्हृष्टरोमाणः ‘ साधु सांध्वि ’ ति तेऽब्रुवन्. ॥४२७॥
तर्तोऽगदो रा जपुत्रोऽब्रवी‘द्धत्वा दशाननम्
अस्माभिरर्पणीया सा रामाय जनकात्मजा. ’ ॥४२८॥
तमुवाच म हाबुद्धिर्जांबवान् ‘ प्रभुणा स्वयम्
विचेतुं वयमाज्ञप्ता नानेतुं वालिनंदन ! ॥४२९॥
अस्माभिस्तु श्री मदाज्ञा यथा कार्यं तथा खलु
प्रवृत्तिरेव सीताया निवेद्याशु महाभुज ! ॥४३०॥
कथंचित्तां रा जकन्यामस्मभिर्निर्जितां प्रभुः
चेन्नाभिरोचयेद्रामस्तत्सर्वं विफलं भवेत्. ’ ॥४३१॥
तत्ते सूक्त म मगृह्णंत साधु साध्विति चाब्रुवन्
महेंद्राग्रात्समुत्पत्व पुप्लुवुः प्लवगर्षभाः ॥४३२॥
ते प्रवृत्तिं ज गद्भर्त्रे समाख्यातुं प्रहर्षिताः
आगच्छंतो मधुवनं समासेदुः प्लवंगमाः. ॥४३३॥
सुग्रीवस्य य दत्वर्थं प्रियं नंदनसंनिभम्
मातुलः कपिराजस्य नाम्ना दधिमुखः कपिः. ॥४३४॥
कीशैरहो रा त्रमेव यस्य त्राणपरायणः
तत्प्राप्य ते मधुवनं सर्वभूतमनोहरम्. ॥४३५॥
कुमारं ते म धून्यत्तुमभ्ययाचंत लोलुपाः
फलानि च सुगंधीनि मूलानि च कृतश्रमाः ॥४३६॥
युवराजोंऽ ज नापुत्रप्रतापेन प्रहर्षितः
तेषामाज्ञां ददौ तत्र यथेष्टमधुभक्षणे. ॥४३७॥
सर्वे पीत्वा य थेष्टं ते मधूनि मधुलोलुपाः
अभक्षयन्सुगंधीनि मूलानि च फलानि च. ॥४३८॥
ते प्रहर्षं ज ग्मुरथ प्राज्यपानमदोत्कटाः
केचिन्नृत्यंति गायंति प्रहसंति रुदंति च. ॥४३९॥
द्रुमाग्रात्प्रि य संपाता द्रुमाग्रं जग्मुरुत्कटाः
न तत्र मत्तो नो कश्चिन्नात्र दृप्तो न कश्चन. ॥४४०॥
विध्वंसिते रा जवने कोपाद्दधिमुखः कपिः
निवारयामास हरींस्ते तं धिक्चक्रुरुन्मदाः. ॥४४१॥
लब्ध्वा तेऽनु म तिं सर्वे मारुतेरंगदादपि
क्रुद्धं दधिमुखं वीरास्ताडयामासुरुद्धताः. ॥४४२॥
सुग्रीवाय श्री मते स क्रुद्धो दधिमुखः स्वयम्
गत्वा निवेदयामास यदंगदमुखैः कृतम्. ॥४४३॥
पप्रच्छ वी रा धिपतिः सुग्रीवं लक्ष्मणस्तदा,
‘ किमयं दुःखितो राजन् ! वानरो वक्ति तद्वद. ’ ॥४४४॥
स प्लवंग म राजस्तं लक्ष्मणं प्रह, ‘ राघव !
भुक्तं मधुवनं कीशैरंगदप्रमुखैर्बलात्. ॥४४५॥
दृष्टा देवी ज नकजा ध्रुवं रघुकुलोत्तम !
नैषामकृतकार्याणामीदृशः स्याद्व्यतिक्रमः. ॥४४६॥
ताडिता भ य मुत्सृज्य वनपालाः प्लवंगमैः
कृतं निर्विषयं सर्व वनं दत्तवरं मम. ’ ॥४४७॥
एवं श्रुत्वा रा जवाक्यं युक्तिमद्रामलक्ष्मणौ
प्रहर्षमतुलं प्राप्तौ सीतादर्शनलालसौ. ॥४४८॥
मातुलं सा म कुशलः सुग्रीवः प्राह, ‘ तद्वनम्
पालय त्वं यथापूर्वं प्रेषयाशु कपींश्च तान्. ’ ॥४४९॥
स गत्वा स ज वस्त त्र स्थितान् दधिमुखः कपीन्
अंगदं युवराजं च दृष्ट्वोवाच कृतांजलिः. ॥४५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP