नारायणीय - अध्यायः ७

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता हते शोलक्रोधग्लपितघृतिरेतस्य सहजः ।
हिरण्यप्रारम्भः कशिपुरमरारातिसदसि प्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥
विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥
निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमित्यपाकुर्वन्सर्वं तव चरणभक्त्यैव ववृधे ॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् वधिपायानस्मिन्व्यततुत्भवत्पादशरणे ॥
स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।
गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो  त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ॥
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान् भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥
पिता शृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्धः प्राहैनं कुलहतक कस्ते बलमिति ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥
अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥
स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ॥
दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसरप्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥
उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तरग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् ।
व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावितस्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥
नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् ।
वीरो निर्गलितोऽथ खड्गफलके गृह्णन्विचित्रश्रमान् व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥
भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥
त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥
तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥
भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायतस्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥
एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिधश्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP