नारायणीय - अध्यायः ६

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


अजामिलो नाम महीसुरः पुरा चरन्विभो धर्मपथान्गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ॥
स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् ।
अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ॥
स मृत्युकाले यमराजकिङ्गरान्भयङ्कराम्स्त्रीनभिलक्षयन्भिया ।
पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥
अमुं च सम्पाश्य विकर्षतो भटान्विमुञ्चतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः ।
न निष्कृतिः किईं विदिता भवादृशामिति प्रभो त्वत्पुरुषा बभाषिरे ॥
श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे ॥
अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे ॥
नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषेधं गदानिति प्रभो त्वत्पुरुषा बभाषिरे ॥
इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥
स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालय्नाथ पाहि माम् ॥
प्रचेतस्तु भगवन्नपरोऽपि दक्षस्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्बभूविथ तदा लसदष्टबाहुस्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥
तस्यात्मजास्त्वयुतमीश पुनः सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्रवासमृषये मुमुचे स शापं भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूपः ।
त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्रः ॥
प्राक्षूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
लब्ध्वैकपुत्रमथ तत्र हते सपत्नीसङ्घैरमुह्यदवशस्तव माययासौ ॥
तं नारदस्तु सममङ्गिरसा दयालुः सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् ।
विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वात्युकुण्टःअमतिरन्वभजद्भवन्तम् ॥
तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेण ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सन्ङ्गापयन्गुणगणं तव सुन्दरीभिः सङ्गतिरेकरहितो ललितं चचार ॥
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे ।
निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं तं शङ्करं परिहसन्नुमयाभिशेपे ॥
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
भक्त्यात्मतत्त्वकथनैः समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते ॥
त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि तान्प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP