TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ध्वन्यालोकः - द्वितीय उद्योतः

ध्वन्यालोकः हा ग्रंथ श्रीराजानकानन्दवर्धनाचार्य: यांनी रचिलेला आहे.


द्वितीय उद्योतः
एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रकाशितः।
 तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते -
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥१॥
तथाविधाभ्यां च ताभ्यां व्यञ्ग्यस्यैव विशेषः ।
तत्रार्थान्तरसङ्क्रमितवाच्यो यथा -
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथम् भविश्यति हहा हा देवि धीरा भव ॥
इत्यत्र रामशब्दः ।
अनेन हि व्यङ्ग्यधर्मान्तरपरिणतः सञ्ज्ञीप्रत्याय्यते , न संज्ञिमात्रम् ।
यथा च ममैव विषमबाणलीलायाम् -तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
इत्यत्र द्वितीयः कमलशब्दः ।
अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मीकेः -रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥
इति ।
अत्रान्धशब्दः ।
गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ॥
अत्र मत्तनिरहङ्कारशब्दौ ॥१॥
असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥२॥
मुख्यतया प्रकाशमानो व्यङ्ग्योऽर्थो ध्वनेरात्मा ।
स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया प्रकाशते , कश्चिद्क्रमेणेति द्विधा मतः ॥२॥
तत्र
रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥३॥
रसादिरर्थो हि सहेव वाच्येनावभासते ।
स चाङ्गित्वेनावभासमानो ध्वनेरात्मा ।
इदानीं रसवदलंकारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते -
वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥४॥
रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना शब्दार्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया
विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः ॥४॥
प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥५॥
यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन् काव्ये प्रधानतयाऽन्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये
रसादयस्ते रसादेरलङ्कारस्य विषया इति मामकीनः पक्षः ।
तद्यथा चाटुषु प्रेयोऽलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते ।
स च रसादिरलङ्कारः शुद्धः सङ्कीर्णो वा ।
तत्राद्यो यथा -किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयम् निष्करुण प्रवासरुचिता केनासि दूरिकृतः ।
स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥
इत्यत्र करुणरसस्य शुद्धस्याङ्गभाअवात्स्पष्टमेव रसवदलङ्कारत्वम् ।
एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।
सङ्कीर्णो रसादिरङ्गभूतो यथ -क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य
श्लेषसहितस्याङ्गभाव इति , एवंविध एव रसवदाद्यलङ्कारस्य न्याय्यो विषयः ।
अत एव चेर्ष्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः ।
यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम् ? अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः ; न
त्वसावात्मैवात्मनश्चारुत्वहेतुः ।
तथा चायमत्र संक्षेपः -रसभावादितात्पर्यमाश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम् ॥
तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वो न रसादेरलङ्कारस्य विषयः ; स ध्वनेः प्रभेदः ,
तस्योपमादयोऽलङ्काराः ।
यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते ,
स रसादेरलङ्कारताया विषयः ।
एवं ध्वनेरुपमादीनां रसवदलङ्कारस्य च विभक्तविषयता भवति ।
यदि तु चेतनानां वाक्यार्थीभावो रसाद्यलङ्कारस्य विषय
इत्युच्यते तर्ह्युपमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् ।
यस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतन-
वस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यम् ।
अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलङ्कारस्य विषय इत्युच्यते ।
तत् महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् ।
यथा -
तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
यथाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीरूपेणेयं ध्रुवमसहना सा परिणता ॥
यथा वा -
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्ता मौनमिवाश्रिता मधुकृतां शब्दैर्विना लक्ष्यते  चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥
यथा वा -
तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनां ।
विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥
इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतनवस्तुवृत्तान्तयोजनास्त्येव ।
अथ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलङ्कारः ।
तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः ।
यस्मान्नास्त्येवासावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभावत्वेन ।
तस्मादङ्गत्वेन च रसादीनामलङ्कारता ।
यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मेति ॥५॥
किञ्च -
तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वल' ङ्कारा मन्तव्याः कटकादिवत् ॥६॥
ये तमर्थं रसादिलक्षणमङ्गिनं सन्तमवलम्बते ते गुणाः शौर्यादिवत् ।
वाच्यवाचकलक्षणान्यङ्गानि ये पुनस्तदाश्रितास्-तेऽलङ्कारा मन्तव्याः कटकादिवत् ॥६॥
तथा च -
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥७॥
शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात् ।
तत्प्रकाशनपरशब्दार्थतया काव्यस्य स माधुर्यलक्षणो गुणः ।
श्रव्यत्वं पुनरोजसोऽपि साधारणमिति ॥७॥
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥८॥
 विप्रलम्भशृङ्गारकरुणयोस्तु माधुर्यमेव प्रकर्षवत् ।
सहृदयहृदयावर्जनातिशयनिमित्तत्वादिति ॥८॥
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू  शब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥९॥
रौद्रादयो हि रसाः परां दीप्तिमुज्ज्वलतां जनयन्तीति लक्षणयात एव दीप्तिरित्युच्यते ।
तत्प्रकाशनपरः शब्दो दीर्घसमास-रचनालङ्कृतं वाक्यम् ।
यथा -
चञ्चद्भुजभ्रमितचण्डगदाभिघात-सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावबद्धघनशोणितशोणपाणि-रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥
तत्प्रकाशनपरश्चार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः ।
यथा -
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥
इत्यादौ द्वयोरोजस्तव्म् ॥९॥
समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥१०॥
प्रसादस्तु स्वच्छता शब्दार्थयोः ।
स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ।
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥११॥
अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वाच्ये अर्थमात्रे , न च व्यङ्ग्ये शृङ्गारे वा ध्वनेरनात्मभूते ।
किं तर्हि ? ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्ग्ये ते हेया इत्युदाहृताः ।
अन्यथा हि तेषामनित्यदोषतैव नस्यात् ।
एवमयमसंलक्ष्यक्रमद्योतो ध्वनेरात्मा प्रदर्शितः सामान्येन ॥११॥
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥१२॥
अङ्गितया व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां
वाच्य वाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास्तस्याङ्गिनोऽर्थस्य
रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः
स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषा-मन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्यचि-
दन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषाम् ।
तथा हि शृङ्गारस्याङ्गिनस्ताव-दाद्यौ द्वौ भेदौ - सम्भोगो विप्रलम्भश्च ।
सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादि-लक्षणाः प्रकाराः ।
विप्रलम्भस्याप्यभिलाषेर्ष्या-विरहप्रवासविप्रलम्भादयः ।
तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदः ।
तेषां च देशकालाद्याश्रयावस्थाभेद इति स्वगतभेदापेक्ष-यैकस्य तस्यापरिमेयत्वं , किं पुनरङ्गप्रभेद-
कल्पनायाम् ।
ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गि-प्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्य-मेवोपयान्ति ॥१२॥
दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् ।
बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥१३॥
दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे सहालङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका
बुद्धिः सर्वत्रैव भविष्यति ।
तत्र -
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥१४॥
अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धितया प्रबन्धेन
प्रवृत्तोऽनुप्रासो न व्यञ्जकः ।
अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्ध्यनुप्रासनिबन्धने कामचारमाह ॥१४॥
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥१५॥
ध्वनेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां
निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वं  ।
' प्रमादित्व' मित्यनेनैतद्दर्श्यते -काकतालीयेन
कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालङ्कारान्तर-वद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति ।
' विप्रलम्भे विशेषत' इत्यनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते ।
तस्मिन्द्योत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य इति ॥१५॥
अत्र युक्तिरभिधीयते -
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः ॥१६॥
निष्पत्तावाश्चर्यभूतोऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलङ्कारो मतः ।
तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः।
यथा -
कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥
रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्ननिर्वर्त्यत्वमिति यो रसं बन्धुमध्यवसितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति ।
यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः ।
अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत् -नैवम् ; अलङ्कारान्तराणि हि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति ।
यथा कादम्बर्यां कादम्बरीदर्शनावसरे ।
यथा च मायारामशिरोदर्शनेन विह्वलायां सीतदेव्यां सेतौ ।
युक्तं चैतत् , यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः ।
तत्प्रतिपादकैश्च शब्दैस्तत्-प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलङ्काराः ।
तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ ।
यमकदुष्करमार्गेषु तु तत्स्थितमेव ।
यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते , तत्र रसादीनामङ्गता ।
यमकादीनां त्वङ्गितैव ।
रसाभासे चाङ्गत्वमप्यविरुद्धम् ।
अङ्गितया तु व्यङ्ग्ये रसे  नाङ्गत्वं पृथक्प्रयत्ननिर्वर्त्यत्वाद्यमकादेः ।
अस्यैवार्थस्य सङ्ग्रहश्लोकाः -रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः ॥
यमकादिनिबन्धे तु पृथग्यत्नोऽस्य जायते ।
शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते ॥
रसाभासाङ्गभावस्तु यमकादेर्न वार्यते ।
ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ॥१६॥
इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽल-ङ्कारवर्ग आख्यायते -
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥१७॥
अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चाअरुत्व-हेतुरुच्यते ।
वाच्यालङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित् , अलङ्काराणामनन्तत्वात् ॥
स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ॥१७॥
एषा चास्य विनिवेशने समीक्षा -विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥१८॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥१९॥
रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति ।
यथा -
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥
अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः ।
' नाङ्गित्वेने' ति न प्राधान्येन ।
कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते ।
यथा -
चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥
अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति ।
अङ्गत्वेन विवक्षितमपि यमवसरे गृह्णाति नानवसरे ।
अवसरे गृहीतिर्यथा -
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥
इत्यत्र उपमा श्लेषस्य ।
गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालङ्का- रान्तरापेक्षया ।
यथा -
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥
अत्र हि प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेषम् पुष्णाति ।
नात्रालङ्कार-द्वयसन्निपातः , किं तर्हि ? अलङ्कारान्तरमेव श्लेषव्यतिरेकलक्षणं नरसिंहवदिति चेत् -न , तस्य प्रकारान्तरेण व्यवस्थापनात् ।
यत्र हि श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीतिर्जायते स तस्य विषयः ।
यथा -- ' स हरिर्नाम्ना देवः सहरिर्वरतुरग-निवहेन ' इत्यादौ ।
अत्र ह्यन्य एव शब्दः श्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य ।
यदि चैवंविधे विषयेऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेर्विष-यापहार एव स्यात् ।
श्लेषमुखेनैवात्र व्यतिरेकस्यात्म-लाभ इति नायं संसृष्टेर्विषय इति चेत् -न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् ।
यथा -नो कल्पापायवायोरदयरयदलत्क्ष्माधरस्यापि शम्या गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥
अत्र हि साम्यप्रपञ्चप्रतिपादनं विनैव व्यतिरेको दर्शितः ।
नात्र श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतोऽलङ्कारतेत्यपि न वाच्यम् ।
यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव ।
यथा -
आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि-स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो-स्तत्किं मामनिशं सखे जलधर त्वं दग्धमेवोद्यतः ॥
इत्यादौ ।
रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निर्वोढुमिच्छति ।
यथा -
कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥
अत्र  हि रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।
निर्वोढुमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते यथा -
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥
इत्यादौ ।
स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति ।
उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः संपद्यते ।
लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः ।
तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् ।
किं तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणदिग्दर्शिता तामनुसरन् स्वयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिभमनन्तरोक्तमेनं ध्वनेरात्मानमुप-
निबध्नाति सुकविः समाहितचेतास्तदा तस्यात्मलाभो भवति महीयानिति ॥१८-१९॥
क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः ।
शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥२०॥
अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्यक्रम-व्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्ति-मूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ॥
ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् , नापहृत इत्याह -आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥२१॥
यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितम् ।
वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः ।
यथा -
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥
नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भटेन , तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरव-काश इत्याशङ्क्येदमुक्तम् ' आक्षिप्त' इति।
तदयमर्थः -यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः ।
यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः ।
शब्दशक्त्या साक्षादलङ्कारान्तर-प्रतिभा
यथा -
तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥
अत्र शृङ्गारव्यभिचारी  विस्मयाख्यो भावः साक्षाद्विरो-धालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः , न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वनेः ।
अलक्ष्यक्रमव्यङ्ग्यस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव ।
यथा ममैव -
श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित-त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध-त्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥
अत्र वाच्यतयैव व्यतिरेकच्छायानुग्राही श्लेषः प्रतीयते ।
यथा  च -
भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥
यथा वा -
खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य ।
अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥
अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।
स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित-स्वरूपस्तत्र न शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्य-ध्वनिव्यवहारः ।
तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार एव ।
यथा -
दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गति-र्गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥
एवञ्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः ।
यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः ।
यथा -
' अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्मा-भिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः ' ।
यथा च -
उन्नतः प्रोल्लसद्धारः कालागरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥
यथा वा -
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥
एषूदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यप्राकरणि-केऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीदित्य-प्राकरणिकप्राकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्यर्थाक्षिप्तोऽयं श्लेषो न शब्दोपारूढ  इति विभिन्न एव श्लेषादनुस्वानोपमव्यङ्ग्यस्य ध्वनेर्विषयः ।
अन्येऽपि चालङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्ये ध्वनौ सम्भवन्त्येव ।
तथा हि विरोधोऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यते ।
यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य -' यत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदि-श्वसनाश्च प्रमदाः ' ।
 अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् ।
साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् ।
यत्र
हि साक्षाच्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ
वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव -
 
' समवाय इव विरोधिनां पदार्थानाम् । तथा हि -सन्निहितबालान्ध-
कारापि भास्वन्मूर्तिः ' इत्यादौ ।

यथा वा ममैव -
सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कॄष्णम् ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥

अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते ।
एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव -

खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो
ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये
ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां-
स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥

एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः
सन्ति ते सहृदयैः स्वयमनुसर्तव्याः । इह तु ग्रन्थविस्तरभयान्न
तत्प्रपञ्चः कृतः ।

अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः ॥२२॥

यत्रार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनक्ति शब्दव्यापारं
विनैव सोऽर्थशक्त्युद्भवो नामानुस्वानोपमव्यङ्ग्यो ध्वनिः ।

यथा -
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास केवलम् ॥

अत्र हि लीलाकमलपत्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं
विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति। न
चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयः । यतो यत्र
साक्षच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो
रसादीनां प्रतीतिः , स तस्य केवलस्य मार्गः । यथा
कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या
देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं
शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादि
साक्षच्छब्दनिवेदितम् । तस्मादयमन्यो ध्वनेः प्रकारः ।

यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनो-
पादीयते स नास्य ध्वनेर्विषयः । यथा -
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥

अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् ।

तथा च -
शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥२३॥

शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि  व्यङ्ग्योऽर्थः
कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्वानोपमव्यङ्ग्याद्-
ध्वनेरन्य एवालङ्कारः । अलक्ष्यक्रमव्यङ्ग्यस्य वा ध्वनेः
सति सम्भवे स तादृगन्योऽलङ्कारः ।

तत्र शब्दशक्त्या यथा -
वत्से मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं
कम्पः को वा गुरुस्ते भवतु बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमूढां पयोधिः ॥

अर्थशक्त्या यथा -
अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र ।
अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥

उभयशक्त्या यथा -' दृष्ट्या केशवगोपरागहृतया '
इत्यादौ ॥२३॥

प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥२४॥

अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ
उक्तस्तस्यापि द्वौ प्रकारौ -कवेः कविनिबद्धस्य वा वक्तुः
प्रौढोक्तिमात्रनिष्पन्नशरीर एकः , स्वतस्सम्भवी च द्वितीयः ।

कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा -
सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ॥

कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतमेव -
' शिखरिणि ' इत्यादि ।

यथा वा -
सादरवितीर्णयौवनहस्तालम्बं समुन्नमद्भ्याम् ।
अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥
स्वतः सम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं
भणितिवशेनैवाभिनिष्पन्नशरीरः । यथोदाहृतम्
' एवंवादिनि ' इत्यादि । यथा वा -

शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥२४॥

अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥२५॥

वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात्-
प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूप-
व्यङ्ग्योऽन्यो ध्वनिः ॥२५॥

तस्य प्रविरलविषयत्वमाशङ्क्येदमुच्यते -
रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः ॥२६॥

अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः
सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्र-
भवद्भिर्भट्टोद्भटादिभिः । तथा च ससन्देहादिषूपमा-
रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारा-
न्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् ॥२६॥

इयत्पुनरुच्यत एव
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥२७॥

अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतौ सत्यामपि
यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न
प्रकाशते नासौ  ध्वनेर्मार्गः । तथा च दीपकादावलङ्कारे
उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न
ध्वनिव्यपदेशः ।
यथा -
चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता ।
हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वी ॥

इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं
व्यवतिष्ठते न व्यङ्ग्यालङ्कारतात्पर्येण । तस्मात्तत्र
वाच्यालङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्य-
परत्वेनैव वाच्यस्य व्यवस्थानं तत्र  व्यङ्ग्यमुखेनैव व्यपदेशो
युक्तः ।

यथा --
प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या-
न्निद्रामप्यस्य पूर्वामनलमनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात-
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥

यथा वा ममैव -
लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्
स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः ॥

इत्येवंविधे विषयेऽनुरणनरूपरूपकाश्रयेण काव्यचारुत्व-
व्यवस्थानाद्रूपकध्वनिरिति व्यपदेशो न्याय्यः ।

उपमाध्वनिर्यथा -
वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥

यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य -
तत्तेषां  श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥

आक्षेपध्वनिर्यथा -
स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान् गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥

अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादन-
रूपस्यासाधारणतद्विशेषप्रकाशनपराआस्याक्षेपस्य
प्रकाशनम् ।

अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्ग्योऽर्थ-
शक्तिमूलानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम् -

दैवायत्ते फले किं क्रियतामेतावत्पुनर्भणामः ।
रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥

पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि
सति न विरोधः । द्वितीयस्योदाहरणं यथा -

हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् ॥

अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः
कर्तुमशक्य इति समर्थकं सामान्यमन्वितमन्यत्तात्पर्येण
प्रकाशते ।

व्यतिरेकध्वनिरप्युभयरूपः सम्भवति। तत्राद्यस्योदाहरणं
प्राक्प्रदर्शितमेव।
द्वितीयस्योदाहरणं यथा -
जायेय वनोद्देशे कुब्ज एव पादपो गलितपत्रः ।
मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥

अत्र हि  त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्र-
कुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् ।
तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्व-
प्रतीपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति ।
उत्प्रेक्षाध्वनिर्यथा -
चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥

अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं
मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजग-
निःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा
साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा
लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणा-
संबद्धतैवेति शक्यते वक्तुम् । गमकत्वादन्यत्रापि तदप्रयोगे
तदर्थावगतिदर्शनात् । यथा -

ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥

यथा वा -
त्रासाकुलः परिपतन् परितो निकेतान्
पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाभि
राकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥

शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् ।

श्लेषध्वनिर्यथा -
रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥

अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व
इव वलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन
वर्तते ।
यथासङ्ख्यध्वनिर्यथा -
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ॥

अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं
मदनविशेषणभूताङुरितादिशब्दगतं तन्मदनसह-
कारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमान-
मालक्ष्यते । एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः ।

एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां
ख्यापयितुमिदमुच्यते -

शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥२८॥

ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन
व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम् ।
व्यङ्ग्यत्वेऽप्यलङ्काराणां प्राधान्यविवक्षायामेव
सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्ग्यत्वं
प्रतिपादयिष्यते ॥२८॥

अङ्गित्वेन व्यङ्ग्यतायामपि , अलङ्काराणां द्वयी गतिः -कदाचि-
द्वस्तुमात्रेण व्यज्यन्ते , कदाचिदलङ्कारेण ।

तत्र --
व्यज्यन्ते वस्तुमात्रेण  यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासां
अत्र हेतु : -
काव्यवृत्तिस्तदाश्रया ॥२९॥

यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव  काव्यं प्रवृत्तम् ।
अन्यथा तु तद्वाक्यमात्रमेव स्यात् ॥२९॥

तासामेवालङ्कृतीनाम् -
अलङ्कारान्तरव्यङ्ग्यभावे
पुन: ,
ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ॥३०॥

उक्तं ह्येतत् -' चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्ग्ययोः
प्राधान्यविवक्षा ' इति । वस्तु मात्रव्यङ्ग्यत्वे चालङ्काराणा-
मनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तदेव-
मर्थमात्रेणालङ्कारविशेषरूपेण वार्थेनार्थान्तरस्यालङ्कारस्य
वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्युद्भवानु-
रणनरूपव्यङ्ग्यो निरवगन्तव्यः ॥३०॥

एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते -
यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥३१॥

द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च । तत्र य एव स्फुटः
शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः ।
स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणन-
रूपव्यङ्ग्यस्य ध्वनेरगोचरः ।
यथा -
कमलाकरा न मलिता हंसा उड्डायिता न च सहसा ।
केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तम् ॥

अत्र हि प्रतीयमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य
वाच्याङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया
वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते , तत्र
व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर्ध्वनेरविषयत्वम् । यथा -

वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वत्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥

एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्ग्यस्योदाहरणत्वेन
निर्देक्ष्यते । यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो
वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते
सोऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेर्मार्गः । यथा -

उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिकस्नुषे ।
एष ते विषमविपाकः श्वसुरेण श्रुतो वलयशब्दः ॥
अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया
सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये ।
प्रतिपन्ने च वाच्येऽर्थे तस्याविनयप्रच्छादनतात्पर्येणाभि-
धीयमानत्वात्पुनर्व्यङ्ग्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्य-
ध्वनावन्तर्भावः ॥३१॥

एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षित-
वाच्यस्यापि तं कर्तुमाह -
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥३२॥

 स्खलद्गतेरुपचरितस्य शब्दस्याव्युत्पत्तेरशक्तेर्वा निबन्धो यः
स च न ध्वनेर्विषयः ।

यतः -
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् ॥३३॥

तच्चोदाहृतविषयमेव ॥३३॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:17.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मपस

  • शअ . माझ्याजवळ ; मजपाशीं . मप नाहीं हत्यार मुसळाचा घाव लागला । - ऐपो ७१ . [ मजपाशीं अप . ] मपला , ली , लें - वि . ( व . ) माझा - झी - झे . मपासून , मपून - क्रिवि . ( घाटी ) मजपासून ; माझ्यापासून . 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.