TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ध्वन्यालोकः - प्रथम उद्योतः

ध्वन्यालोकः हा ग्रंथ श्रीराजानकानन्दवर्धनाचार्य: यांनी रचिलेला आहे.


प्रथम उद्योतः
स्वेच्छाकेसरिणः  स्वच्छस्वच्छायायासितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥

काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
केचिद्वाचाम् स्थितमविषये तत्त्वमूचुस्तदीयम् तेन ब्रूमः  सहृदयमनःप्रीतये तत्स्वरूपम् ॥ १॥

बुधैः काव्यतत्त्वविद्भिः काव्यस्यात्मा ध्वनिरिति संज्ञितः , परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः ,
तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये जगदुः । तदभाववादिनां चामी विकल्पाः सम्भवन्ति ।

तत्र केचिदाचक्षीरन् -शब्दार्थशरीरन्तावत्काव्यम् ।
तत्र च शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः ।
वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते ।
तदनतिरिक्तवृत्तयो वृत्तयोऽपि याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः ,
ता अपि गताः श्रवणगोचरम् । रीतयश्च वैदर्भीप्रभृतयः ।
तद्व्यतिरिक्तः कोऽयम् ध्वनिर्नामेति ।

अन्ये ब्रूयुः -नास्त्येव ध्वनिः ।
प्रसिद्धप्रस्थानव्यतिरेकिणःकाव्यप्रकारस्य काव्यत्वहानेः सहृदयहृदयाह्लादिशब्दार्थ- मयत्वमेव काव्यलक्षणम् ।
न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति । न च तत्समतान्तःपातिनः सहृदयान्
कांश्चित्परिकल्प्य तत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः
प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।

पुनरपरे तस्याभावमन्यथा कथयेयुः -न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् ।
कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् ।
तेषामन्यतमस्यैव वा अपूर्वसमाख्या- मात्रकरणे यत्किंचन कथनं स्यात् ।

किञ्च वाग्विकल्पानामानन्त्यात् सम्भवत्यपि वा कस्मिंश्चित् काव्य-
लक्षणविधायिभिः प्रसिद्धैरप्रदर्शिते प्रकारलेशे ध्वनिर्ध्वनिरिति
यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते , तत्र हेतुं न विद्मः ।
सहस्रशो हि महात्मभिरन्यैरलंकारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च ।
न च तेषामेषा दशा श्रूयते । तस्मात् प्रवादमात्रं ध्वनिः ।
न त्वस्य क्षोदक्षमम् तत्त्वम् किंचिदपि प्रकाशयितुं शक्यम् ।
तथा चान्येन कृत एवात्र श्लोकः -

यस्मिन्नस्ति न वस्तु किंचन मनःप्रह्लादि सालंकृति
व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥

भाक्तमाहुस्तमन्ये ।
अन्ये तं ध्वनिसंज्ञितम् काव्यत्मानं गुणवृत्तिरित्याहुः ।

यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्ति-
रन्यो वा न कश्चित्प्रकारः प्रकाशितः , तथापि अमुख्यवृत्त्या
काव्येषु व्यवहारं दर्शयता ध्वनिमार्गो मनाक्स्पृष्टोऽपि न
लक्षित इति परिकल्प्यैवमुक्तम् -' भाक्तमाहुस्तमन्ये' इति ।

केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरम् सहृदयहृदयसंवेद्यमेव समाख्यातवन्तः ।
तेनैवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये तत्स्वरूपं ब्रूमः ।

तस्य हि ध्वनेः स्वरूपं  सकलसत्कविकाव्योपनिषद्भूतमतिरमणीय-
मणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलित-
पूर्वम् , अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र
प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते ॥१॥

तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते -

योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥२॥

काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया
स्थितः सहृदयश्लाघ्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।

तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः -
काव्यलक्ष्मविधायिभिः ।
-ततो नेह प्रतन्यते ॥३॥
केवलमनूद्यते पुनर्यथोपयोगमिति ॥३॥

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवांगनासु ॥४॥

प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति  वाणीषु महाकवीनाम् ।
यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलंकृतेभ्यः प्रतीतेभ्यो
वाऽवयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते  लावण्यमिवांगनासु ।
यथा ह्यंगनासु लावण्यं पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि
किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः ।

स ह्यर्थो वाच्यसामर्थ्याक्षिप्तम् वस्तुमात्रमलंकाररसादयश्चेत्यनेक प्रभेदप्रभिन्नौ दर्शयिष्यते ।
सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् ।
तथा ह्याद्यस्तावत्प्रभेदो वाच्याद् दूरम् विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः ।
यथा -

भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन । गोदावरीनदीकूललतागहनवासिना दृप्तसिंहेन ॥

क्वचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा -

श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय । मा पथिक रात्र्यन्धः शय्यायामावयोः शयिष्ठाः ॥

क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा -

व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥

क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा -

प्रार्थये तावत्प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥

क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा -

कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥

अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः संभवन्ति । तेषां दिङ्मात्रमेतत्प्रदर्शितम् ।
द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शयिष्यते ।

तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते ,
न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव ।
तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् । विभावादिप्रतिपादनमुखेन वा ।
पुर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसंगः ।

न च सर्वत्र तेषां स्वशब्दनिवेदितत्वम् ।
यत्राप्यस्ति तत् , तत्रापि विशिश्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः ।

स्वशब्देन सा केवलमनूद्यते , न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् ।

न हि केवलशृंगारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते
काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति ।
यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः ।
केवलाच्च स्वाभिधानादप्रतीतिः ।
तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्या- क्षिप्तत्वमेव रसादीनाम् ।
न त्वभिधेयत्वं कथंचित् , इति तृतीयोऽपि प्रभेदो वाच्याद्विभिन्न एवेति स्थितम् ।
वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते ।

काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥५॥

विविधवाच्यवाचकरचनाप्रपञ्चचारुणः काव्यस्य स एवार्थः सारभूतः ।
चादिकवेर्वाल्मीकेः निहतसहचरीविरहकातर-
क्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।

शोको हि करुणस्थायिभावः ।
प्रतीयमानस्य चान्यभेददर्शनेऽपि रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।

सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तम् प्रतिभाविशेषम् ॥६॥

तत् वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं
प्रतिभाविशेषं  परिस्फुरन्तमभिव्यनक्ति ।
येनास्मिन्नतिविचित्रकवि- परम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा
महाकवय इति गण्यन्ते ।

इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम् -
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥७॥

सोऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव  ज्ञायते ।
यदि च वाच्यरूप एवासावर्थः स्यात्तद्वाच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् ।
अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां
काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाऽप्र-
गीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ।

एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति -

सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥८॥

व्यङ्ग्योऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन , न शब्द-
मात्रम् । तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ ।
व्यङ्ग्यव्यञ्ज- काभ्यामेव सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनां , न
वाच्यवाचकरचनामात्रेण ।

इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव
प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह -

आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥९॥

यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदु-
पायतया । न हि दीपशिखामन्तरेणालोकः सम्भवति ।
तद्व्यङ्ग्यमर्थं प्रत्यादृतो जनो वाच्येऽर्थे यत्नवान् भवति ।
अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः ॥९॥

प्रतिपाद्यस्यापि तं दर्शयितुमाह -
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥१०॥

यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीति-
पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ॥१०॥

इदानीं वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति -

स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥११॥

यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया ॥ ११॥

तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् । बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥१२॥

एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह -

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥१३॥

यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः , स काव्यविशेषो ध्वनिरिति ।

अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च
विभक्त एव ध्वनेर्विषय इति दर्शितम् ।
यदप्युक्तम् -' प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यहानेर्ध्वनिर्नास्ति' इति ,
तदप्ययुक्तम् ।
यतो लक्षणकृतामेव स केवलं न प्रसिद्धः , लक्ष्ये
तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् ।
ततोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः ।

यदप्युक्तम् -' कामनीयकमनतिवर्तमानस्य  तस्योक्तालंकारादि-
प्रकारेष्वन्तर्भावः ' इति , तदप्यसमीचीनम् ; वाच्यवाचकमात्रा-
श्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः
कथमन्तर्भावः , वाच्यवाचकचारुत्वहेतवो हि तस्यांगभूताः ,
स त्वंगिरूप एवेति प्रतिपादयिष्यमाणत्वात् ।

परिकरश्लोकाश्चात्र -

व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ॥

ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर्विषयः ।
यत्र तु प्रतीतिरस्ति , यथा -

समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदीपकसंकरा-
लंकारादौ , तत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम्
-' उपसर्जनीकृतस्वार्थौ ' इति ।

अर्थो गुणीकृतात्मा , गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तर-
मभिव्यनक्ति स ध्वनिरिति ।
तेषु कथं तस्यान्तर्भावः ।
व्यङ्ग्यप्राधान्ये हि ध्वनिः ।
न चैतत्समासोक्त्यादिष्वस्ति ।

समासोक्तौ तावत् -
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥

इत्यादौ व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपित-
नायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् ।

आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन
वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तथाहि -तत्र शब्दोपारूढो
विशेषाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव व्यङ्ग्यविशेष-
माक्षिपन्मुख्यं काव्यशरीरम् ।

चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा ।
यथा -
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।
अहो दैवगतिः कीदृक्तथापि न समागमः ॥

अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा ।

यथा च दीपकापह्नुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येना-
विवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् ।

अनुक्तनिमित्तायामपि विशेषोक्तौ -
आहूतोऽपि सहायैरोमित्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥

इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रं न तु तत्प्रतीतिनिमित्ता
काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् ।
पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः ।
न तु ध्वनेस्तत्रान्त- र्भावः ।
तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् ।
न पुनः पर्यायो भामहोदाहृतसदृशे व्यङ्ग्यस्यैव प्राधान्यम् ।
वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् ।
अपह्नुतिदीपकयोः पुनर्वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं
प्रसिद्धमेव ।

संकरालंकारेऽपि यदलंकारोऽलंकारान्तरच्छायामनुगृह्णाति ,
तदा  व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् ।

अलंकारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् ।
अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सोऽपि
ध्वनिविषयोऽस्तु , न तु स एव ध्वनिरिति वक्तुं शक्यम् ।
पर्यायोक्त- निर्दिष्टन्यायात् ।

अपि च संकरालंकारेऽपि च क्वचित् संकरोक्तिरेव ध्वनिसम्भावनां
निराकरोति ।

अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावान्निमित्तनिमित्ति-
भावाद्वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभि-
सम्बन्धस्तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् ।

यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन
विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ सत्यामपि
प्राधान्येन तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् ।
यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये
सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् ।

निमित्तनिमित्तिभावे चायमेव न्यायः ।

यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः
सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येना-
विवक्षायां ध्वनावेवान्तःपातः ।
इतरथा त्वलंकारान्तरमेव ।
तदयमत्र सङ्क्षेपः -

व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ॥
व्यङ्ग्यस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा ।
न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥

तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥

तस्मान्न ध्वनेरन्यत्रान्तर्भावः ।
इतश्च नान्तर्भावः ; यतः काव्यविशेषोऽगी ध्वनिरिति कथितः ।
तस्य पुनरंगानि -अलंकारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते ।
न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः ।
अपृथग्भावे तु तदंगत्वं तस्य ।
न तु तत्त्वमेव ।
यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषय- त्वान्न तन्निष्ठत्वमेव ।
' सूरिभिः कथित ' इति विद्वदुपज्ञेयमुक्तिः , न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते ।
प्रथमे हि विद्वांसो वैयाकरणाः , व्याकरणमूलत्वात्सर्वविद्यानाम् ।
ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति ।

तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभि-
र्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्जक-
त्वसाम्याद्ध्वनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेद-
तद्भेदसंकलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालंकार-
विशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव
संरम्भः । न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्व-
माविष्करणीयम् । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः ।

अस्ति ध्वनिः ।
स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः सामान्येन ।

तत्राद्यस्योदाहरणम् -
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥

द्वितीयस्यापि -
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १३॥

यदप्युक्तं भक्तिर्ध्वनिरिति , तत्प्रतिसमाधीयते -
भक्त्या बिभर्ति नैकत्वम् रूपभेदादयं ध्वनिः

अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति भिन्नरूपत्वात् ।
वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं
यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः ।
उपचारमात्रं तु भक्तिः ।

मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह -
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥१४॥

नैव भक्त्या ध्वनिर्लक्ष्यते । कथम् ? अतिव्याप्तेरव्याप्तेश्च ।
तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् ।
यत्र हि व्यङ्ग्यकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या
प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते ।
यथा -

परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥

तथा -
शतकृत्वोऽवरुध्यते सहस्रकृत्वश्चुम्ब्यते ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥

तथा -
कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः ।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥

तथा -
भार्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे ।
मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥

तथा -
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥

इत्यत्रेक्षुपक्षेऽनुभवतिशब्दः ।
न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।

यतः -
उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद् ध्वन्युक्तेर्विषयीभवेत् ॥१५॥
अत्र चोदाहृते विषये नोक्त्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः ।
किञ्च -

रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥१६॥

तेषु चोपचरितशब्दवृत्तिरस्तीति ।
तथाविधे च विषये क्वचित्सम्भवन्नपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते ।
न तथाविधशब्दमुखेन ।

अपि च -
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्याऽर्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥१७॥

तत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने
कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् ।
न चैवम् ; तस्मात् -

वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥१८॥

तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः । अव्याप्तिरप्यस्य लक्षणस्य ।
न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः ।
अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः ; तस्माद्भक्तिरलक्षणम् ॥१८॥

कस्यचिद् ध्वनिभेदस्य सा तु स्यादुपलक्षणम् ।

सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि
नामोपलक्षणतया सम्भाव्येत ; यदि च गुणवृत्त्यैव ध्वनि-
र्लक्ष्यत इत्युच्यते तदभिधाव्यापारेण तदितरोऽलंकारवर्गः
समग्र एव लक्ष्यत इति प्रत्येकमलंकाराणां लक्षणकरण-
वैयर्थ्यप्रसङ्गः ।
किं च लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥१९॥

कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः यस्माद्ध्वनिरस्तीति नः पक्षः ।
स च प्रागेव संसिद्ध इत्ययत्न- सम्पन्नसमीहितार्थाः संवृत्ताः स्मः ।
येऽपि सहृदयहृदय- संवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्तेऽपि न परीक्ष्य वादिनः ।
यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशे-
षलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम् ।
यदि पुनर्ध्वनेरतिशयोक्त्यानया काव्यान्तरातिशायि
तैः स्वरूपमाख्यायते तत्तेऽपि युक्ताभिधायिन एव ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:17.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

superposition eye

  • Zool. अधिस्थापनी क्षेत्र 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site