TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अधिकरणम् २ - अध्यायः १

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अध्यायः १
शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः । नायिका पुनर्मृगी बडवा हस्तिनी चेति ॥१॥

तत्र सःदृशसंप्रयोगे समरतानि त्रीणि ॥२॥

विपर्ययेण विःषमाणि षट् । विःषमेष्वपि पुरुषाधिक्यं चेदनःअन्तरसंप्रयोगे द्वे उच्चरते । व्यवहितं एकं उच्चतररतम् । विपर्यये पुनर्द्वे नीचरते । व्यवहितं एकं नीचतररतं च । तेषु समानि श्रेष्ठानि । तरशब्दाङ्किते द्वे कनिष्ठे । शेषाणि मध्यमानि ॥३॥

साम्येऽप्युच्चाङ्कं नीचाङ्काज्ज्यायः । इति प्रमाणतो नवरतानि ॥४॥

यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यं अल्पं क्षतानि च न सहते स मन्दवेगः ॥५॥

तद्विपर्ययौ मध्यमचण्डवेगौ भवतः । तथा नायिकापि ॥६॥

तत्रापि प्रमाणवदेव नवरतानि ॥७॥

तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥८॥

तत्र स्त्रियां विवादः ॥९॥

न स्त्री पुरुषवदेव भावं अधिगच्छति ॥१०॥

सातत्यात्त्वस्याः पुरुषेण कण्डूतिरपनुद्यते ॥११॥

सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन्सुखबुद्धिरस्याः ॥१२॥

पुरुषप्रतीतेश्चानःअभिज्ञत्वात्कथं ते सुखं इति प्रष्टुं अःशक्यत्वात् ॥१३॥

कथं एतदुपलभ्यत इति चेत्पुरुषो हि रतिं अधिगम्य स्वेच्छया विरमति न स्त्रियं अपेक्षते न त्वेवं स्त्रीत्यौद्दालिकः ॥१४॥

तत्रैतत्स्यात्चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भावं अनःआसाद्यावसानेऽभ्यसूयिन्यो भवन्ति । तत्सर्वं भावप्राप्तेरःप्राप्तेश्च लक्षणम् ॥१५॥

तच्च न । कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति । एतदुपपद्यत एव । तस्मात्संदिग्धत्वादःलक्षणं इति ॥१६॥

व्संयोगे योषितः पुंसा कण्डूतिरपनुद्यते । तच्चाभिमानसंसृष्टं सुखं इत्यभिधीयते ॥१७॥

सातत्याद्युवतिरारम्भात्प्रभृति भावं अधिगच्छति । पुरुषः पुनरन्त एव । एतदुपपन्नतरम् । न ह्यःसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः ॥१८॥

तत्रापि तावेवाशङ्कापरिहारौ भूयः ॥१९॥

तत्रैतत्स्यात्ण् सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नातिःसहिष्णुता च । ततः क्रमेणाधिको रागयोगः शरीरे निरःअपेक्षत्वं अन्ते च विरामाभीप्सेत्येतदुपपन्नं इति ॥२०॥

तच्च न । सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं वेगस्येत्युपपद्यते । धातुक्षयाच्च विरामाभीप्सेति । तस्मादनःआक्षेपः ॥२१॥

व्सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् । धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥२२॥

तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिर्द्रष्टव्या ॥२३॥

कथं हि समानायां एवाकृतावेकार्थं अभिप्रपन्नयोः कार्यवैलक्षण्यं स्यात् ॥२४॥

उपायवैलक्षण्यादभिमानवैलक्षण्याच्च ॥२५॥

कथं उपायवैलक्षण्यं तु सर्गात् । कर्ता हि पुरुषोऽधिकरणं युवतिः । अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः । तस्माच्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यं अपि भवति । अभियोक्ताहं इति पुरुषोऽनुरज्यते । अभियुक्ताहं अनेनेति युवतिरिति वात्स्यायनः ॥२६॥

तत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यं अपि कस्मान्न स्यादिति । तच्च न । हेतुमदुपायवैलक्षण्यम् । तत्र कर्त्राधारयोर्भिन्नलक्षणत्वादःहेतुमत्कार्यवैलक्षण्यं अन्याय्यं स्यात् । आकृतेरःभेदादिति ॥२७॥

तत्रैतत्स्यात् । संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते । पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तदःयुक्तं इति ॥२८॥

तच्च न । युगपदनःएकार्थसिद्धिरपि दृश्यते । यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति । न तत्र कारकभेद इति चेदिहापि न वस्तुभेद इति । उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् । तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥२९॥

व्जातेरःभेदाद्दंपत्योः सःदृशं सुखं इष्यते । तस्मात्तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद्रतिम् सःदृशत्वस्य सिद्धत्वात्कालयोगीन्यपि भावतोऽपि कालतः प्रमाणवदेव नव रतानि ॥३०॥

रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः । संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥३२॥

प्रमाणकालभावजानां संप्रयोगानां एकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम् । अतिःबहुत्वात् ॥३३॥

तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥३४॥

प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतं उत्तरेषु । योषितः पुनरेतदेव विपरीतम् । आ धातुक्षयात् ॥३५॥

प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥३६॥

व्मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैव योषितः । प्राप्नुवन्त्याशु ताः प्रीतिं इत्याचार्या व्यवस्थिताः ॥३७॥

वेतावदेव युक्तानां व्याख्यातं साम्प्रयोगिकम् । मन्दानां अवबोधार्थं विस्तरोऽतः प्रवक्ष्यते (७) ॥३८॥

(प्रकरण)७

वभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तन्त्रज्ञाः प्रीतिं आहुश्चतुर्विधाम् ॥३९॥

व्शब्दादिभ्यो बहिरःभूता या कर्माभ्यासलक्षणा । प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥४०॥

वनःअभ्यस्तेष्वपि पुरा कर्मस्वःविषयात्मिका । संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥४१॥

व्प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके । तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु ॥४२॥

व्नान्योऽयं इति यत्र स्यादन्यस्मिन्प्रीतिकारणे । तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका ॥४३॥

व्प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका । प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि ॥४४॥

व्प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः । यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् (८) ॥४५॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषा इति प्रथमोऽध्यायः । आदितः षष्ठः (९) ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-06-27T14:31:20.5470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pathologist

  • सा. विकृतिशास्त्रज्ञ 
  • विकृतिशास्त्रज्ञ 
  • रोगवैज्ञानिक 
  • सा. विकृतिशास्त्रज्ञ 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.