TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अधिकरणम् २ - अध्यायः १०

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अध्यायः १०
नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत् दक्षिणतश्चास्या उपवेशनम् । केशहस्ते वस्त्रान्ते नीव्यां इत्यवलम्बनम् । रत्यर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः ॥१॥

पूर्वप्रकरणसंबद्धैः परिहासानुरागैर्वचोभिरनुवृत्तिः । गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ॥३॥

सःनृत्तं अःनृतं वा गीतं वादित्रम् । कलासु संकथाः । पुनः पानेनोपच्छन्दनम् ॥४॥

जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः । विःजने च यथोक्तैरालिङ्गनादिभिरेनां उद्धर्षयेत् । ततो नीवीविश्लेषणादि यथोक्तं उपक्रमेत ॥५॥

इत्ययं रतारम्भः ॥५॥

रतावसानिकं रागं अतिवाह्याःसंस्तुतयोरिव सःव्रीडयोः परस्परं अःपश्यतोः पृथक्पृथगाचारभूमिगमनम् । प्रतिनिवृत्त्य चाःव्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणं अच्छीकृतं (४४) चन्दनं अन्यद्वानुलेपनं तस्या गात्रे स्वयं एव निवेशयेत् ॥६॥

सव्येन बाहुना चैनां परिरभ्य चषकहस्तः (४५) सान्त्वयन्पाययेत् । जलानुपानं वा खण्डकखाद्यकं अन्यद्वा प्रकृतिसात्म्ययुक्तं उभावप्युपयुञ्जीयाताम् ॥७॥

अच्छरसकयूषम् (४६) अम्लयवागूं (४७) भृष्टमांसोपदंशानि (४८) पानकानि चूतफलानि (४९) शुष्कमांसं मातुलुङ्गचुक्रकाणि (५०) सःशर्कराणि (५१) च यथाःदेशसात्म्यं च । तत्र मधुरं इदं मृदु विशदं इति च विदश्य विदश्य तत्तदुपहारेत् ॥८॥

हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थं आसनम् । तत्रानुकूलाभिः कथाभिरनुवर्तेत । तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीः करणम् । अरुन्धतीध्रुवसप्तर्षिमालादर्शनं च ॥९॥

चिति रतावसानिकम् ॥९॥

तत्रैतद्भवति ॥१०॥

ववसानेऽपि च प्रीतिरुपचारैरुपस्कृता । सःविस्रम्भकथायोगै रतिं जनयते पराम् ॥१०॥

व्परस्परप्रीतिकरैरात्मभावानुवर्तनैः । क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः ॥११॥

व्हल्लीसकक्रीडनकैर् (५२) गायनैर्लाटरासकैः । रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्ष्णैः ॥१२॥

आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः । पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥१३व्१॥

कीर्तनान्ते च रागेण परिष्वङ्गैः सःचुम्बनैः । तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥१३व्२॥

(प्रकरण)२१ (५३)

[१]रागवद्[२]आहार्यरागं [३]कृत्रिमरागं [४]व्यवहितरागं [५]पोटारतं [६]खलरतं [७]अःयन्त्रितरतं इति रतविशेषाः ॥१४॥

संदर्शनात्प्रभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्[१]रागवत् ॥१५॥

तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥१६॥

मध्यस्थरागयोरारब्धं यदनुरज्यते तद्[२]आहार्यरागम् ॥१७॥

तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत ॥१८॥

तत्कार्यहेतोरन्यत्र सक्तयोर्वा [३]कृत्रिमरागम् ॥१९॥

तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत् ॥२०॥

पुरुशस्तु हृदयप्रियां अन्यां मनसि निधाय व्यवहरेत् । संप्रयोगात्प्रभृति रतिं यावत् । अतस्तद्[४]व्यवहितरागम् ॥२१॥

न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं संप्रयोगस्तत्[५]पोटारतम् ( ५४) ॥२२॥

तत्रोपचरान्नाद्रियेत ॥२३॥

तथा वेश्याया ग्रामीणेन सह यावदर्थं [६]खलरतम् ॥२४॥

ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरस्य ॥२५॥

उत्पन्नविस्रम्भयोश्च परस्परानुकूल्याद्[७]अःयन्त्रितरतम् ॥२६॥

चिति रतानि ॥२६॥

(प्रकरण)२२ (५५)

वर्धमाणप्रणया तु नयिका सपत्नीनामग्रहणं तदाश्रयं आलापं वा गोत्रस्खलितं वा न मर्षयेत् । नायकव्यलीकं च ॥२७॥

तत्र सुःभृशः कलहो रुदितं आयासः शिरोरुहाणां अवक्षोदनं (५६) प्रहणनं आसनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या (५७) च ॥२८॥

तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तां अनुनयन्नुपक्रम्य शयनं आरोहयेत् ॥२ ।१० ।३० तस्य च वचनं उत्तरेण योजयन्ती विवृद्धक्रोधा सःकचग्रहं अस्यास्यं उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्द्विस्त्रिर्हन्यात् । द्वारदेशं गच्छेत् । तत्रोपविश्याश्रुकरणं इति ॥२९॥

अतिःक्रुद्धापि तु न द्वारदेशाद्भूयो गच्छेत् । दोषवत्त्वात् । इति दत्तकः । तत्र युक्तितोऽनुन्~ईयमाना प्रसादं आकाङ्क्षेत् । प्रसन्नापि तु सःकषायैर् (५८) एव वाक्यैरेनं तुदतीव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत ॥३१॥

स्वभवनस्था तु निमित्तात्कलहिता तथाःविदचेष्टैव नायकं अभिगच्छेत् ॥३२॥

तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवानिनीता तैः सहैव तद्भवनं अधिगच्छेत् । तत्र च वसेत् ॥३३॥

चिति प्रणयकलहः ॥३३॥

भवन्ति चात्र श्लोकाः ॥३४॥

वेवं एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् । प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥३४॥

व्ब्रुवन्नपि अन्यशास्त्राणि चतुःषष्टिविवर्जितः । विद्वत्संसदि नात्यःअर्थं कथासु परिपूज्यते ॥३५॥

व्वर्जितोऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः । स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते (५९) ॥३६॥

व्विद्वद्भिः पूजितां एनां खलैरपि सुःपूजितम् । पूजितां गणिकासङ्घैर्नन्दिनीं को न पूजयेत् ॥३७॥

व्नन्दिनी सुःभगा सिद्धा सुःभगंकरणीति च । नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते ॥३८॥

व्कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः । वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥३९॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः । आदितः पञ्चदशः ॥लिव्रे ३ कन्यासंप्रयुक्तकं तृतीयं अधिकरणम् ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-06-27T14:31:23.5470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

oil cake

  • स्त्री. ढेप 
  • स्त्री. पेंड 
  • तेलबियांची पेंड 
  • खली 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site