संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
साहसप्रकरणम्

व्यवहाराध्यायः - साहसप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सामान्यद्रव्यप्रसभ हरणात्साहसं स्मृतम् ।
तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥२.२३०॥

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवं उक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥२.२३१॥

अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥२.२३२॥

सामन्तकुलिकादीनां अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषां इति विनिश्चयः ॥२.२३३॥

स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान्स्पृशेत् ॥२.२३४॥

शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥२.२३५॥

वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥२.२३६॥

पितृपुत्रस्वसृभातृ दंपत्याचार्यशिष्यकाः ।
एषां अपतितान्योन्य त्यागी च शतदण्डभाक् ॥२.२३७॥

वसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान्दश ॥२.२३८॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥२.२३९॥

तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्ता यः स दाप्यो दमं उत्तमम् ॥२.२४०॥

अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥२.२४१॥

भिषङ्मिथ्याचरन्दण्ड्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राज पुरुषेषूत्तमं दमम् ॥२.२४२॥

अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमं उत्तमम् ॥२.२४३॥

मानेन तुलया वापि योऽंशं अष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२.२४४॥

भेषजस्नेहलवण गन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ॥२.२४५॥

मृच्चर्ममणिसूत्रायः काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥२.२४६॥

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥२.२४७॥

भिन्ने पणे च पञ्चाशत् पणे तु शतं उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥२.२४८॥

संभूय कुर्वतां अर्घं संबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥२.२४९॥

संभूय वणिजां पण्यं अनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥२.२५०॥

राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥२.२५१॥

स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥२.२५२॥

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥२.२५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP