संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - चतुर्थप्रपाठकः| प्रथमा दशतिः छन्द आर्चिकः - चतुर्थप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः चतुर्थप्रपाठकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥२९३॥इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः ।मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥२९४॥आ त्वा३द्य सबर्दुघां हुवे गायत्रवेपसं ।इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतं ॥२९५॥न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः ।यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥२९६॥क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः ॥२९७॥यदिन्द्र शासो अव्रतं च्यावया सदसस्परि ।अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥२९८॥त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥२९९॥कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे ।उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥३००॥युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥३०१॥त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥३०२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP