शिशुपालवधम्‌ - प्रकरण २०

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिं ॥२०.१॥

शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युं ।
अभिशौरि रथोऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥२०.२॥

अभिचैद्यमगाद्रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।
गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥२०.३॥

स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥२०.४॥

सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥२०.५॥

अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगं ॥२०.६॥

जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण ।
चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यं ॥२०.७॥

समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः ।
अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षथ् ॥२०.८॥

ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानां ।
गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥२०.९॥

अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।
अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवं ॥२०.१०॥

अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥२०.११॥

गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासं ।
ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥२०.१२॥

तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥२०.१३॥

शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानां ।
स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥२०.१४॥

अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा ।
रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥२०.१५॥

विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥२०.१६॥

इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।
वयसमिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्चरेण ॥२०.१७॥

इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।
अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥२०.१८॥

प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यं ।
ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥२०.१९॥

उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीं ।
क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥२०.२०॥

ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।
इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥२०.२१॥

शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥२०.२२॥

तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।
विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥२०.२३॥

दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥२०.२४॥

प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥२०.२५॥

इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः ।
पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥२०.२६॥

शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।
विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥२०.२७॥

स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।
ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥२०.२८॥

भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता ।
शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप त्ॐअरौघः ॥२०.२९॥

गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।
विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥२०.३०॥

शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥२०.३१॥

विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥२०.३२॥

सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञं ।
प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥२०.३३॥

गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतथ् ।
क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ॥२०.३४॥

श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वां ।
सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥२०.३५॥

उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीं ।
भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥२०.३६॥

अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायां ।
पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥२०.३७॥

महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।
व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥२०.३८॥

प्रकृतिं प्रतिपादुकैश्च पादैश्चक्ëषे भानुमतः पुनः प्रसर्तुं ।
तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥२०.३९॥

घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणां ॥२०.४०॥

व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे ।
रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्यां ॥२०.४१॥

पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।
अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥२०.४२॥

कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥२०.४३॥

दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥२०.४४॥

सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानां ।
उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥२०.४५॥

शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥२०.४६॥

पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।
दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥२०.४७॥

कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥२०.४८॥

परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।
दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणां ॥२०.४९॥

बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः ।
दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलां ॥२०.५०॥

प्रसृतं रभसादयोभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती ।
तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥२०.५१॥

अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजां ॥२०.५२॥

द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।
क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥२०.५३॥

उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणां ॥२०.५४॥

पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।
सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥२०.५५॥

दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानां ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनां ॥२०.५६॥

अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।
जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥२०.५७॥

प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥२०.५८॥

खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रं ॥२०.५९॥

सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ।
वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥२०.६०॥

चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥२०.६१॥

ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमं ।
परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥२०.६२॥

गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।
स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥२०.६३॥

ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः ।
क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥२०.६४॥

निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्यां ।
प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥२०.६५॥

चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥२०.६६॥

ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासं ।
उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥२०.६७॥

तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासं ।
अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥२०.६८॥

सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।
जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥२०.६९॥

ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥२०.७०॥

मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ।
पवमानसखस्ततः क्रमेण प्रणयक्रोध  इवाशमद्विवादैः ॥२०.७१॥

परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशं ॥२०.७२॥

प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ।
बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रं ॥२०.७३॥

व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः ।
उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥२०.७४॥

कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।
विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीं ॥२०.७५॥

इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारं ।
भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥२०.७६॥
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तं ।
मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ॥२०.७७॥

राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन-व्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल-ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥२०.७८॥    

श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर्वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।
प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥२०.७९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP