शिशुपालवधम्‌ - प्रकरण १

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥१.०१॥

गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥१.०२॥

चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिं ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥१.०३॥

नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरं ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥१.०४॥

दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषं ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥१.०५॥

पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।
सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुं ॥१.०६॥

विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥१.०७॥

निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनं ॥१.०८॥

अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥१.०९॥

रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥१.१०॥

निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः ।
समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥१.११॥

पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्लीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥१.१२॥

अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।
न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥१.१३॥

तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयथ् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥१.१४॥

न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशथ् ॥ १.१५॥

महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामतां ॥१.१६॥

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥१.१७॥

अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥१.१८॥

स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनं ॥१.१९॥

स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः ।
विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥१.२०॥

रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥१.२१॥

प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥१.२२॥

युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥१.२३॥

निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवथ् ॥ १.२४॥

सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥१.२५॥

हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतरं शुभै ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यतां ॥१.२६॥

जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥१.२७॥

कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥१.२८॥

विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा ।
तथापिशुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन वा तृप्यते ॥१.२९॥

गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यतां ॥१.३०॥

इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥१.३१॥

उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमं ।
उपेयुष्ॐओक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥१.३२॥

उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥१.३३॥

निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलं ॥१.३४॥

अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥१.३५॥

लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥१.३६॥

निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथं ईश मादृशां ॥१.३७॥

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥१.३८॥

करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवं ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥१.३९॥

प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥१.४०॥

तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यतां ॥१.४१॥

अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥१.४२॥

समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां ।
भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥१.४३॥

दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥१.४४॥

पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥१.४५॥

स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥१.४६॥

सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥१.४७॥

विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥१.४८॥

प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥१.४९॥

समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयं ॥१.५०॥

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥१.५१॥

सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमं ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रतां ॥१.५२॥

अशुक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनं ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥१.५३॥

बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥१.५४॥

बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥१.५५॥

रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥१.५६॥

परेभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृतेऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥१.५७॥

सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥१.५८॥

कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥१.५९॥

विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥१.६०॥

निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥१.६१॥

तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां ।
बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥१.६२॥

परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥१.६३॥

तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥१.६४॥

अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणक्ॐअलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥१.६५॥

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनक्ëप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥१.६६॥

अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥१.६७॥

स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणं ।
पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥१.६८॥

अतोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकां ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥१.६९॥

स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥१.७०॥

स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥१.७१॥

बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥१.७२॥

तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिं ।
शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥१.७३॥

हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुल्ॐअजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वं ॥१.७४॥

ॐइत्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्य्ॐनि भ्रकुटिच्छलेन वदने केतुशचकारास्पदं ॥१.७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP