TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हठयोगप्रदीपिका - प्रथमोपदेशः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


प्रथमोपदेशः
श्री-आदि-नाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठ-योग-विद्या।
विभ्राजते प्रोन्नत-राज-योगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥१॥
प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना।
केवलं राज-योगाय हठ-विद्योपदिश्यते ॥२॥
भ्रान्त्या बहुमत-ध्वान्ते राज-योगम् अजानताम्।
हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥३॥
हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते।
स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः ॥४॥
श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः।
चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥५॥
मन्थानो भैरवो योगी सिद्धिर् बुद्धश् च कन्थडिः।
कोरंटकः सुरानन्दः सिद्धपादश् च चर्पटिः ॥६॥
कानेरी पूज्यपादश् च नित्य-नाथो निरञ्जनः।
कपाली बिन्दुनाथश् च काकचण्डीश्वराह्वयः ॥७॥
अल्लामः प्रभुदेवश् च घोडा चोली च टिंटिणिः।
भानुकी नारदेवश् च खण्डः कापालिकस् तथा ॥८॥
इत्य् आदयो महासिद्धा हठ-योग-प्रभावतः।
खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते ॥९॥
अशेष-ताप-तप्तानां समाश्रय-मठो हठः।
अशेष-योग-युक्तानाम् आधार-कमठो हठः ॥१०॥
हठ-विद्या परं गोप्या योगिना सिद्धिम् इच्छता।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥११॥
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते।
एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना ॥१२॥
अल्प-द्वारम् अरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं सम्यग्-गोमय-सान्द्र-लिप्तम् अमलं निःशेस-जन्तूज्झितम्।
बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं प्रोक्तं योग-मठस्य लक्षणम् इदं सिद्धैर् हठाभ्यासिभिः ॥१३॥
एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः।
गुरूपदिष्ट-मार्गेण योगम् एव समभ्यसेत् ॥१४॥
अत्याहारः प्रयासश् च प्रजल्पो नियमाग्रहः।
जन-सङ्गश् च लौल्यं च षड्भिर् योगो विनश्यति ॥१५॥
उत्साहात् साहसाद् धैर्यात् तत्त्व-ज्ञानाश् च निश्चयात्।
जन-सङ्ग-परित्यागात् षड्भिर् योगः प्रसिद्ध्यति ॥१६॥

अथ यम-नियमाः

अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश ॥१७॥
तपः सन्तोष आस्तिक्यं दानम् ईश्वर-पूजनम्।
सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम्।
नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥१८॥

अथ आसनम्

हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते।
कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्ग-लाघवम् ॥१९॥
वशिष्ठाद्यैश् च मुनिभिर् मत्स्येन्द्राद्यैश् च योगिभिः।
अङ्गीकृतान्य् आसनानि कथ्यन्ते कानिचिन् मया ॥२०॥
जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे।
ऋजु-कायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥२१॥
सव्ये दक्षिण-गुल्फं तु पृष्ठ-पार्श्वे नियोजयेत्।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥२२॥
एकं पादं तथैकस्मिन् विन्यसेद् उरुणि स्थिरम्।
इतरस्मिंस् तथा चोरुं वीरासनम् इतीरितम् ॥२३॥
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
कूर्मासनं भवेद् एतद् इति योग-विदो विदुः ॥२४॥
पद्मासनं तु संस्थाप्य जानूर्वोर् अन्तरे करौ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥२५॥
कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम्।
भवेद् कूर्मवद् उत्तान एतद् उत्तान-कूर्मकम् ॥२६॥
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुर् आकर्षणं कुर्याद् धनुर्-आसनम् उच्यते ॥२७॥
वामोरु-मूलार्पित-दक्ष-पादं जानोर् बहिर् वेष्टित-वाम-पादम्।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्री-मत्य्सनाथोदितम् आसनं स्यात् ॥२८॥
मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं प्रचण्ड-रुग् मण्डल-खण्डनास्त्रम्।
अभ्यासतः कुण्डलिनी-प्रबोधं चन्द्र-स्थिरत्वं च ददाति पुंसाम् ॥२९॥
प्रसार्य पादौ भुवि दण्ड-रूपौ दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा।
जानूपरिन्यस्त-ललाट-देशो वसेद् इदं पश्चिमतानम् आहुः ॥३०॥
इति पश्चिमतानम् आसनाग्र्यं पवनं पश्चिम-वाहिनं करोति।
उदयं जठरानलस्य कुर्याद् उदरे कार्श्यम् अरोगतां च पुंसाम् ॥३१॥
धराम् अवष्टभ्य कर-द्वयेन तत्-कूर्पर-स्थापित-नाभि-पार्श्वः।
उच्चासनो दण्डवद् उत्थितः खे मायूरम् एतत् प्रवदन्ति पीठम् ॥३२॥
हरति सकल-रोगान् आशु गुल्मोदरादीन् अभिभवति च दोषान् आसनं श्री-मयूरम्।
बहु कदशन-भुक्तं भस्म कुर्याद् अशेषं जनयति जठराग्निं जारयेत् काल-कूटम् ॥३३॥
उत्तानं शबवद् भूमौ शयनं तच् छवासनम्।
शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम् ॥३४॥
चतुरशीत्य् आसनानि शिवेन कथितानि च।
तेभ्यश् चतुष्कम् आदाय सारभूतं ब्रवीम्य् अहम् ॥३५॥
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम्।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने सदा ॥३६॥

अथ सिद्धासनम्- योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादम् अथैकम् एव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद् भ्रुवोर् अन्तरं ह्य् एतन् मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥३७॥

मेण्ढ्राद् उपरि विन्यस्य सव्यं गुल्फं तथोपरि।
गुल्फान्तरं च निक्षिप्य सिद्धासनम् इदं भवेत् ॥३८॥
एतत् सिद्धासनं प्राहुर् अन्ये वज्रासनं विदुः।
मुक्तासनं वदन्त्य् एके प्राहुर् गुप्तासनं परे ॥३९॥
यमेष्व् इव मिताहारम् अहिंसा नियमेष्व् इव।
मुख्यं सर्वासनेष्व् एकं सिद्धाः सिद्धासनं विदुः ॥४०॥
चतुरशीति-पीठेषु सिद्धम् एव सदाभ्यसेत्।
द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम् ॥४१॥
आत्म-ध्यायी मिताहारी यावद् द्वादश-वत्सरम्।
सदा सिद्धासनाभ्यासाद् योगी निष्पत्तिम् आप्नुयात् ॥४२॥
किम् अन्यैर् बहुभिः पीठैः सिद्धे सिद्धासने सति।
प्राणानिले सावधाने बद्धे केवल-कुम्भके।
उत्पद्यते निरायासात् स्वयम् एवोन्मनी कला ॥४३॥
तथैकास्मिन्न् एव दृढे सिद्धे सिद्धासने सति।
बन्ध-त्रयम् अनायासात् स्वयम् एवोपजायते ॥४४॥
नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः।
न खेचरी-समा मुद्रा न नाद-सदृशो लयः ॥४५॥

अथ पद्मासनम्- वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेत् एतद् व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते ॥४६॥

उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः।
ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥४७॥
नासाग्रे विन्यसेद् राजद्-अन्त-मूले तु जिह्वया।
उत्तम्भ्य चिबुकं वक्षस्य् उत्थाप्य् पवनं शनैः ॥४८॥
इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम्।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥४९॥

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश् च तच् चेतसि।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोत्सारयन् पूरितं न्यञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रभावान् नरः ॥५०॥

पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम्।
मारुतं धारयेद् यस् तु स मुक्तो नात्र संशयः ॥५१॥

अथ सिंहासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्।
दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥५२॥
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च।
व्यात्त-वक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥५३॥
सिंहासनं भवेद् एतत् पूजितं योगि-पुङ्गवैः।
बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम् ॥५४॥

अथ भद्रासनम्- गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते।
सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥५५॥
पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।
भद्रासनं भवेद् एतत् सर्व-व्याधि-विनाशनम्।
गोरक्षासनम् इत्य् आहुर् इदं वै सिद्ध-योगिनः ॥५६॥

एवम् आसन-बन्धेषु योगीन्द्रो विगत-श्रमः।
अभ्यसेन् नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥५७॥
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा।
अथ नादानुसन्धानम् अभ्यासानुक्रमो हठे ॥५८॥
ब्रह्मचारी मिताहारी त्यागी योग-परायणः।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥५९॥
सुस्निग्ध-मधुराहारश् चतुर्थांश-विवर्जितः।
भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते ॥६०॥

कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक- सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान्।
आजादि-मांस-दधि-तक्र-कुलत्थकोल- पिण्याक-हिङ्गु-लशुनाद्यम् अपथ्यम् आहुः ॥६१॥

भोजनम् अहितं विद्यात् पुनर् अस्योष्णी-कृतं रूक्षम्।
अतिलवणम् अम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥६२॥
वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत् ॥६३॥
तथा हि गोरक्ष-वचनम्- वर्जयेद् दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम्।
प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा ॥६४॥

गोधूम-शालि-यव-षाष्टिक-शोभनान्नं क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि।
शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं मुद्गादि-दिव्यम् उदकं च यमीन्द्र-पथ्यम् ॥६५॥

पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम्।
मनोभिलषितं योग्यं योगी भोजनम् आचरेत् ॥६६॥
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा।
अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेष्व् अतन्द्रितः ॥६७॥
क्रिया-युक्तस्य सिद्धिः स्याद् अक्रियस्य कथं भवेत्।
न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥६८॥
न वेष-धारणं सिद्धेः कारणं न च तत्-कथा।
क्रियैव कारणं सिद्धेः सत्यम् एतन् न संशयः ॥६९॥
पीठानि कुम्भकाश् चित्रा दिव्यानि करणानि च।
सर्वाण्य् अपि हठाभ्यासे राज-योग-फलावधि ॥७०॥

इति हठ-प्रदीपिकायां प्रथमोपदेशः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:40:02.9070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

DHRUVA II(ध्रुव)

RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site